संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः| पञ्चसप्ततितमोऽध्यायः श्री नारदीयमहापुराणम् : पूर्वभागः प्रथमोऽध्यायः द्वितीयोध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पंचविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पंचत्रिशोंऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशत्तमोऽध्यायः पश्वचत्वारिशत्तमोऽध्यायः षट्रचत्वारिंशत्तमोऽध्यायः सप्तचत्वारिंशत्तमोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोध्यायः पञ्चाशत्तमोऽध्यायः एकपंचाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुःपञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषाष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुष्षष्टितमोऽध्यायः पञ्चषष्टिमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षटसप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्याय एकोनाशीतितमोऽध्यायः नामाशीतितमोऽध्यायः नामैकाशीतितमोऽध्यायः व्द्यशीतितमोऽध्यायः त्र्यशीतितमोऽधायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः नामाष्टाशीतितमोऽध्यायः नामैकोननवतितमोऽध्यायः नवतितमोऽध्यायः नामैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः नामाष्टनतितमोऽध्यायः नामैकोनशततमोऽध्यायः शततमोऽध्यायः नामैकोत्तरशततमोऽध्यायः द्वयुत्तरशततमोऽध्यायः त्र्युत्तरशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडुत्तशततमोऽध्यायः सप्तोत्तशततमोऽध्यायः नामाष्टोत्तरशततमोऽध्यायः नवोतरशततमोऽध्यायः दशोत्तरशततमोऽध्यायः नामैकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाघिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशदधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशतमोऽध्यायः पंचविंशोत्तरशततमोऽध्यायः श्री नारदीयमहापुराणम् - पञ्चसप्ततितमोऽध्यायः `नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है। Tags : naradnaradapuranpuranनारदनारदपुराणपुराण पञ्चसप्ततितमोऽध्यायः Translation - भाषांतर सनत्कुमार उवाच ॥ अथ दीपविधिं वक्ष्ये सरहस्यं हनूमतः ॥ यस्य विज्ञानमात्रेण सिद्धो भवति साधकः ॥१॥दीपपात्रप्रमाणं च तैलमानं क्रमेण तु ॥ द्रव्यस्य च प्रमाणं वै तत्तु मानमनुक्रमात् ॥२॥स्थानभेदं च मंत्रं च दीपदानमनुं पृथक् ॥ पुष्पवासिततैलेन सर्वकामप्रदं मतम् ॥३॥तिलतैलं श्रियः प्राप्त्यै पथिकागमनं प्रति ॥ अतसीतैल मुद्दिष्टं वश्यकर्मणि निश्वितम् ॥४॥सार्षपं रोगनाशाय कथितं कर्मकोविदैः ॥ मारणे राजिकोत्थं वा विभीतकसमुद्धवम् ॥५॥उच्चाटने करजोत्थं विद्वेषे मधुवृक्षजम् ॥ अलाभे सर्वतैलानां तिलजं तैलमुत्तमम् ॥६॥गोधूमाश्व तिला भाषा मुद्रा वै तंडुलाः क्रमात् ॥पंचधान्यमिदं प्रोक्तं नित्य दीपं तु मारुते ॥७॥पंचधान्यसमुद्धूतं पिष्टमात्रं सुशोभनम् ॥ सर्वकामप्रदं प्रोक्तं सर्वदा दीपदानके ॥८॥वश्ये तंडुलपिष्टोत्थं मारने भाष पिष्टजम् ॥ उच्चाटने कृष्ण्तिलपिष्टजं च प्रकीर्त्तितम् ॥९॥पथिकागमने प्रोक्तं गोधूमोत्थं सतंडुलम् ॥ मोहने त्वाढकी जात विद्वेषे च कुलत्थजम् ॥१०॥संग्रामे केवला भाषाः प्रोक्ता दीपस्य पात्रके ॥ संधौ त्रिपिष्टजं लक्ष्मीहेतोः कस्तूरिकाभवम् ॥११॥एलालवंगकर्पूरमगनाभि समुद्धवम् ॥ कन्याप्राप्यै तथा राजवश्यं सख्ये तथैव च ॥१२॥अलाभे सर्ववस्तूनां पंचधान्यं वर स्मृतम् ॥ अष्टमुष्टिर्भवेत्किञ्चित्किञ्चिदष्टौ चः पुष्कलम् ॥१३॥पुष्कलांना चतुर्णां च ह्याढकः परिकीर्तितः ॥ चतुराढको भवेद्दोणः खारी द्रोणचतुष्टयम् ॥१४॥खारीचतुष्टय प्रस्थसंज्ञा च परिकीर्तिता ॥ अथवान्यप्रकारेण मानमत्र निगद्यते ॥१५॥पलद्वयं तु प्रसृतं द्विगुणं कुंडवं मतम् ॥ चतुर्भिः कुडावैः प्रस्थस्तै श्वतुर्भिस्तथाढकः ॥१६॥चतुराढको भवेद्दोणः खारी द्रोणचतुष्टयम् ॥ क्रमेणैतेन ते ज्ञेयाः पात्रे षट्कर्मसंभवे ॥१७॥पञ्च सप्त नव तथा प्रमाणास्ते यथाक्रमम् ॥ सौगंधे नैव मांन स्यात्तद्यथारुचि संमतम् ॥१८॥नित्यपात्रे तु तैलानां नियमो वातिकोद्धवः ॥ सोमवारे गृहीत्वा तद्धान्यं तोयप्लुतं धरेत् ॥१९॥पश्वात्प्रमाणतो ज्ञेयं कुमारीहस्तपेषणम् ॥ तत्पिष्टं शुद्धपात्रे तु नदीतोयेन पिंडितम् ॥२०॥दीपापात्रं ततः कुर्याच्छुद्धः प्रयतमानसः ॥ दीपपात्रे ज्वाल्यमाने मारुतेः कवचं पठेत् ॥२१॥शुद्धभूमौ समास्थाप्य भौमे दीपं प्रदापयेत् ॥ मालामनूनां ये वर्णाः साध्य नामसमन्विताः ॥२२॥वर्तिकायां प्रकर्त्तव्यास्तंवस्तत्प्रमाणकाः ॥ तत्रिंशांशेन वा ग्राह्या गुरुकार्येऽखिलाढ्यता ॥२३॥कूटतुल्याः स्मृता नित्ये सामान्येऽथ विशेषके ॥ रुद्रा कूटगणाः प्रोक्ता न पात्रे नियमो मतः ॥२४॥एकविंशतिसंख्याकास्तन्तवोऽथाध्वनि स्मृताः ॥ रक्तसूत्रं हनुमतो दीपदाने प्रकीर्त्तितम् ॥२५॥कृष्णामुच्चाटने द्वेषेऽरुणं मारणकर्मणि ॥ कूटतुल्यपलं तैलं गुरुकार्ये शिवैर्गुणम् ॥२६॥नित्ये पंचपलं प्रोक्तमथवा मानसी रुचिः ॥२७॥हनुमत्प्रतिमायास्तु सन्निधौ दीपदापनम ॥ शिवालयेऽथवा कुर्यान्नित्यनैमित्तिके स्थले ॥२८॥विशेषोऽस्त्यत्र यः कश्विन्मारुत रुच्यते मया ॥२९॥प्रतिमाग्रे प्रमोदेन ग्रहभूतग्रहेषु च ॥ चतुष्पथे तथा पोक्तं षट्सु दीपप्रदापनम् ॥३०॥सन्निधौ स्फाटिके लिंगे शालग्रामस्य सन्निधौ ॥ नानाभोगश्रियै प्रोक्तं दीपदानं हनूमतः ॥३१॥गणेशसन्निधौ विघ्रमहासंकटनाशने ॥ विषव्या धिभये घोरे हनुमत्सन्निधौ स्मृतम् ॥३२॥दुर्गायाः सन्निधौ प्रोक्तं संग्रामे दीपदानम् ॥ चतुष्पथे व्याधिनष्टौ दुष्टदृष्टौ तथैव च ॥३३॥राजद्वारे बंधमुक्तौ कारागारेऽथवा मतम् ॥ अश्वत्थवटमूले तु सर्वकार्यप्रसिद्धये ॥३४॥वश्ये भय विवादे च वेश्मंसंग्रामसंकटे ॥ द्यूते दृष्टिस्तंभने च विद्वेषे मारणे तथा ॥३५॥मृतकोत्थापने चैव प्रतिमाचालने तथा ॥ विषे व्याधौ ज्वरे भूतग्रहे कृत्याविमो चने ॥३६॥क्षतग्रंथौ महारण्ये दुर्गै व्याघ्रे च दंतिनि ॥ क्रूरसत्त्वेषु सर्वेषु शश्वंद्वंविमोक्षणे ॥३७॥पथिकागमने चैव दुःस्थाने राजमोहने ॥ आगमे निर्गमे चैव राजद्वारे प्रकीर्तितम् ॥३८॥दीपदानं हनुमतो नात्र कार्या विचारणा ॥३९॥रुद्रैकविंशपिंडांश्व त्रिधा मंडलमानकम् ॥ लघुमानं स्मृतं पंच सप्त वा नव वा तथा ॥४०॥क्षीरेण नवनी तेन दध्रा वा गोमयेन च ॥ प्रतिमाकरणं प्रोक्तं मारुतेर्दीपदापने ॥४१॥दक्षिणाभिमुखं वीरं कृत्वा केसारीविक्रमम् ॥४२॥ऋक्षविन्यस्तपादं च किरीटेन विराजितम् ॥ लिखेद्धितौ पटे वापि पीठे वा मारुतेः शुभे ॥४३॥मालामंत्रेण दातव्यं दीपदानं हनूमतः ॥ नित्यदीपः प्रकर्त्तव्यो द्वादशाक्षरविद्यया ॥४४॥विशेषस्तत्र यस्तं वै दीपदानेऽवधारय ॥ षष्ठयादौ च द्वितीयादविमं दीपमितीरयेत् ॥४५॥गृहाणेति पदं पश्वाच्छेष्म पूर्वदुच्चरेत् ॥ कूटादौ नित्य दीपे च मंत्रं सूर्याक्षरं वदेत् ॥४६॥तत्र मालाख्यमनुना तत्तत्कार्येषु कारयेत् ॥ गोमयेनोपलिप्तायो भूमौ तद्धतमानसः ॥४७॥षट्कोणं वसुपत्रं च भूमौ रेखासमन्वितम् ॥ कमलं च लिखेद्धद्धं तत्र दीपं निधापयेत् ॥४८॥शैवे वा वैष्णवे पीठे पूजयेद्जनासुतम् ॥ कूटषटूकं च षट्कोणे अंतराले पर लिखेत् ॥४९॥षट्कोणेषु षडंगानि बीजयुक्तानि संलिखेत् ॥ सौम्यं मध्यगतं लेख्यं तत्र संपूज्य मारुतिम् ॥५०॥षट्कोणेषु षडंगानि नामानि च पुरोक्तवत् ॥ वसुपत्रे क्रमात्पूज्या अष्टावेते च वानराः ॥५१॥सुग्रीवायांगदायाथ सुषेणाय नलाय च ॥ नीलायाथो जांबवते प्रहस्ताय तथैव च ॥५२॥सुवेषाय ततः पश्वाद्यजेत्षडंगदेवताः ॥ आदावंजनापुत्राय ततश्व रुद्रमूर्तये ॥५३॥ततो वायुसुतायाथ जानकीजीवनाय च ॥ रामदूताय ब्रह्मास्त्र्निवारणाय तत्परम् ॥५४॥पंचोपचारैः संपूज्यदेशकालौ च कीर्तयेत् ॥ कुशोदकं समादायं दीपमंत्रं समुच्चरेत् ॥५५॥उत्तरगाभिमुखो जप्त्वा साधयेत्साधकोत्तमेः तं मंत्रं क्रूटधा जण्त्वा जलं भूमौ विनिक्षिपेत् ॥५६॥ततः करपुटं कृत्वा यथाशक्ति जपेन्मनुम् ॥ अनेनदीपवर्येण उदङ्मुखगतेन वै ॥५७॥तथा विधेहि हनुमन्यथा स्युर्मे मनोरथाः ॥ त्रयोदशैवं द्रव्याणि गोमयं मृत्तिका मसी ॥५८॥अलक्तं दरदं रक्तचंदनं चंदनं मधु ॥ कस्तूरिका दधि क्षीरं नवनीतं घृतं तथा ॥५९॥गोमयं द्विविधं तत्र प्रोक्तं गोमहिषीभवम् ॥ पश्वाद्विनष्टद्रव्याप्तौ माहिषं गोमयं स्तृतम् ॥६०॥पथिकागमने दूरान्महादुर्गस्य रक्षणे ॥ बालादिरक्षणे चैव चौरादिभयानाशने ॥६१॥स्त्रीवश्यादिषु कार्येषु कार्येषु शस्तं गोगोमचं मुने ॥ भूमिस्पृष्टं न तद्ग्राह्यंमंतरिक्षाच्च भाजने ॥६२॥चतुर्विधा मृत्तिकां तु श्वेता पीतारुणासिता ॥ तत्र गोपीचंदनं तु हरितालं च गौरिकम् ॥६३॥मषी लाक्षारसोद्धूता सर्व्म वान्यत्स्फुटं मतम् ॥ कृत्वा गोपीचंदनेन चतुरस्त्रं गृहं सुधीः ॥६४॥तन्मध्ये माहिषेणाथ कुर्यान्मूर्तिं हनूमतः ॥ बीजं क्रोधाच्च तत्पुच्छं लिखेन्मंत्री समाहितः ॥६५॥तैलेन स्नापयेन्मूर्ति गुडेन तिलकं चरेत् ॥ शतपत्रसमो धूपः शालनिर्याससंभवः ॥६६॥कुर्याच्च तैलदीपं तु वर्तिपंचकसंयुतम् ॥ दध्योदनेन नैवेद्यं दद्यात्साधकसत्तमः ॥६७॥वारत्रयं कंठदशे सशेषविषमुच्चरन् ॥ एवं कृते तु नष्टांना महिषीणां गवामपि ॥६८॥दासीदासादिकानां च नष्टानां प्राप्तिरीरिता ॥ चौरादिदुष्टासत्त्वानां सर्पादीनां भये पुनः ॥६९॥तालेन च चतुर्द्वारं गृहं कृत्वा सुशोभनम् ॥ पूर्वद्वारे गजः स्थाप्यो दक्षिणे महिषस्तथा ॥७०॥सर्पस्तु पश्विमे द्वारे व्याघ्रश्वैवोत्तरे तथा ॥ एवं क्रमेण खङुं च क्षुरिकाद्म्डमुद्ररान् ॥७१॥विलिख्य मध्ये मूर्ति च महिषीगोमयेन वै ॥ कृत्वा डमरुहस्तां च चकिताक्षीं प्रयत्नतः ॥७२॥पयसा स्थापनं रक्तचंदनेनानुलेपनम् ॥ जातीपुष्पैस्तु संपूज्य शुद्धधूप प्रकल्पयेत ॥७३॥घृतेन दीपं दत्त्वाथ पायसान्नं निवेदयेत् ॥ गगनं दीपिकें द्वाढ्यं शास्त्रं च पुरतो जपेत् ॥७४॥एवं सप्तदिनं कृत्वा मुच्यते महतो भयात् ॥ अननोर्भेमवारे तु कुर्यादारंभमादरात् ॥७५॥शत्रुसेना भये प्राप्ते गौरिकेण तु मंडलम् ॥ कृत्वा तदंतरे तालमीषन्नंम्र समालिखेत् ॥७६॥तत्रावलंबमानां च प्रतिमां गोमयेन तु ॥ वाहहस्तेन तालाग्रं दक्षिणे ज्ञानमुद्रिका ॥७७॥तालमूलात्स्वकाष्ठायां मार्गे हस्तमिते गृहम् ॥ चतुस्त्र विधायाथ तन्मध्ये मूर्तिमलिखेत् ॥७८॥दक्षिणाभिसुखीं रम्यां ह्रदयें विहितांजलिम् ॥ तोयेन स्नानंगधादि यथासंभवमर्पयेत् ॥७९॥कृशरान्नं च नैवेद्यं साज्यं तस्यै निवेदयेत ॥ किलिद्वयं जपं प्रोक्तमेवं कुर्याद्दिने दिने ॥८०॥एवं कृते भवेच्छीघ्रं पथिकानां समागमः ॥ श्यामपाषाणखण्डेन लिखित्वा भूपतेर्गृहम् ॥८१॥प्राकारं तु चतुर्द्धारयुंक्त द्वारेषु तत्र वै ॥ अन्योन्यपुच्छ रिधित्रतयुक्तां हनूमतः ॥८२॥कुर्यान्मूर्तिं गोमयेन धत्तूरकुसुमैजेत् ॥ जटामांसीभवं धूपं तैलाक्तधृतदेपकम् ॥८३॥नैवेद्यं तिलतैलाक्तसक्षारा भाषरोटिका ॥ ध्येयो दक्षिणहस्तेन रोटिकां भक्षयन्हरिः ॥८४॥वामहस्तेन पाषाणैस्त्रासय न्परसैनिकान् ॥ प्रारयन्भूकुटीं बद्धा भीषयन्मथयन्स्थितः ॥८५॥जपेच्च भुग्भुगिति वै सहस्त्रं ध्यानतत्परः ॥ एवं कृतविधानेन पर सेन्यं विनाशयेत् ॥८६॥रक्षा भवति दुर्गाणां सत्यं सत्यं न संशयः ॥ प्रयोगा बहवस्तत्र संक्षेपाद्धदिता मया ॥८७॥प्रत्यहं यो विधा नेन दीपदानं हनूमतः ॥ तस्यासाध्यं न वै किंचिद्विद्यते भुवनत्रये ॥८८॥न देयं दुष्ट्त्दृदये दुष्टचिंतनबुद्धये ॥ अविनीताय शिषाय पिशुनाय कदाचन ॥८९॥कृतघ्नाय न दातव्यं दातव्यं च परीक्षिते ॥ बहुना किमिहोक्तेन सर्वं दद्यात्कपीश्वरः ॥९०॥अथ मन्त्रा न्तरं वक्ष्ये तत्त्वज्ञानप्रदायकम् ॥ तारो नमो हनुमते जाठरत्रयमीरयेत् ॥९१॥दनक्षोभं समाभाष्य संहरद्वयमीरयेत् ॥ आत्मतत्त्वं ततः पश्वात्प्रकाशययुगं ततः ॥९२॥वर्मास्त्रवह्रिजायांतः सार्द्धषडिंशदर्नवान् ॥ वसिष्टोऽस्य मुनिश्छन्दोऽनुष्टुप् देवताः पुनः ॥९३॥हनुमान्मुनिसप्तर्तुवेदाष्टनिगमैः ॥ क्रमात् मंत्रार्णैश्व षडंगानि कृत्वा धायेत्कपीश्वरम् ॥९४॥जानुस्थवामबाहुं च ज्ञानमुद्रापरं ह्रदि ॥ अध्यात्मचित्तमासीनं कदलीवनमघ्यगम् ॥९५॥बालार्ककोटिप्रतिमं ध्यायेज्ज्ञानप्रद हरिम् ॥ ध्यात्वैवं प्रजपेल्लक्षं दशांशं जुहुयात्तिलैः ॥९६॥साज्यैः संपूजयेत्पीठे पूर्वोक्ते पूर्ववत्प्रभुम् ॥ जप्तोऽयं मदनक्षोभं नाशययत्येव निश्वितम् ॥९७॥तत्त्वज्ञानमवाप्नोति कपींद्रस्य प्रसादतः ॥ अथ मंत्रातर्म वक्ष्ये भूतविद्रावंण परम् ॥९८॥तारः काशींकुक्षिपरवराहश्वांजनापदम् ॥ पवनो वनपुत्रांते आवेशिद्वयमीरयेत् ॥९९॥श्रीहनुमत्पश्वादस्त्रचभुजाक्षरः ॥ ब्रह्मा मुनिः स्याद्धायत्री छंदोऽत्र देवता पुनः ॥१००॥हनुमान्कमला बीजं फट् शक्तिः परिकीर्तितः ॥ षड्देर्घाढ्येन बीजेन षड्ड्नि समाचरेत् ॥१०१॥आंजनेय पाटलास्यं स्वर्णाद्रिसमविग्रहम् ॥ पारिजातद्रुमूलस्थं चिंतयेत्सादकोत्तमः ॥१०२॥एवं ध्यात्वा जपेल्लक्षं दशांशं जुहुयात्तिलैः ॥ त्रिमध्वक्तैर्यजेत्पीठे पूर्वोक्ते पूर्ववत्सुधीः ॥१०३॥अनेन मनुना मंत्री ग्रहग्रस्तं प्रमार्जयेत् ॥ आक्रंदंस्तं विसुच्याथ ग्रहः शीघ्रं पलायते ॥१०४॥मनवोऽमी सदा गोप्या न प्रकाश्या यतस्ततः ॥ परीक्षिताय शिष्याय देया वा निजसूनवे ॥१०५॥हनुमद्धजनासक्तः कार्तवीर्यार्जुनं सुधीः ॥ विशेषतः समाराध्य यथोक्तं फलमाप्नुयात् ॥१०६॥इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहपाख्याने तृतीयपादे दीपविधिनिरुपणं नाम पञ्चसप्ततितमोऽध्यायः ॥७५॥ N/A References : N/A Last Updated : June 06, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP