संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः| त्रिषष्टितमोऽध्यायः श्री नारदीयमहापुराणम् : पूर्वभागः प्रथमोऽध्यायः द्वितीयोध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पंचविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पंचत्रिशोंऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशत्तमोऽध्यायः पश्वचत्वारिशत्तमोऽध्यायः षट्रचत्वारिंशत्तमोऽध्यायः सप्तचत्वारिंशत्तमोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोध्यायः पञ्चाशत्तमोऽध्यायः एकपंचाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुःपञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषाष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुष्षष्टितमोऽध्यायः पञ्चषष्टिमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षटसप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्याय एकोनाशीतितमोऽध्यायः नामाशीतितमोऽध्यायः नामैकाशीतितमोऽध्यायः व्द्यशीतितमोऽध्यायः त्र्यशीतितमोऽधायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः नामाष्टाशीतितमोऽध्यायः नामैकोननवतितमोऽध्यायः नवतितमोऽध्यायः नामैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः नामाष्टनतितमोऽध्यायः नामैकोनशततमोऽध्यायः शततमोऽध्यायः नामैकोत्तरशततमोऽध्यायः द्वयुत्तरशततमोऽध्यायः त्र्युत्तरशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडुत्तशततमोऽध्यायः सप्तोत्तशततमोऽध्यायः नामाष्टोत्तरशततमोऽध्यायः नवोतरशततमोऽध्यायः दशोत्तरशततमोऽध्यायः नामैकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाघिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशदधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशतमोऽध्यायः पंचविंशोत्तरशततमोऽध्यायः श्री नारदीयमहापुराणम् - त्रिषष्टितमोऽध्यायः `नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है। Tags : naradnaradapuranpuranनारदनारदपुराणपुराण त्रिषष्टितमोऽध्यायः Translation - भाषांतर शौनक उवाच ॥ सूत साधो चिरं जीव सर्वशास्त्रविशारदः ॥ यत्त्वया पायिता विद्वन्वयं कृष्णकथामृतम् ॥१॥श्रुत्वा तु मोक्षधर्मान्वै नारदो भगवत्प्रियः ॥ सनंदनमुखोद्धीतान्किं पप्रच्छ ततः परम् ॥२॥मानसा ब्रह्मणः पुत्राः सनकाद्या मुनीश्वराः ॥ चरंति लोकान्ससिद्धा लोकोद्धरणतत्परा ॥३॥नारदोऽपि महाभाग नित्यं कृष्णपरायणः ॥ तेषां समागमे भद्रा का कथा लोकपावनी ॥४॥ सूत उवाच ॥साधु पृष्टं महाभाग त्वया लोकोपकारिणा ॥ कथयिष्यामि तत्सर्वं यत्पृष्ट नारदर्षिणा ॥५॥श्रुत्वा सनंदनप्रोक्तान्मोक्षधर्मान्सनातनान् ॥ नारदो भार्गवश्रेष्ठ पुनः पप्रच्छ तान्मुनीन् ॥६॥नारद उवाच ॥सर्वदेवश्वरो विष्णुर्वेदे तंत्रे च कीर्तितः ॥ समाराध्यः सएवात्र सर्वेः सर्वार्थकांक्षिभिः ॥७॥कैर्मंत्रैभगवान्विष्णुः समाराध्यो मुनीश्वराः ॥ के देवाः पूजयीयाश्व विष्णुपाद परायणैः ॥८॥तंत्रं भागवतं विप्रा गुरुशिष्यप्रयोजकम् ॥ दीक्षणं प्रातराद्यं च कृत्यं स्याद्यत्तदुच्यताम् ॥९॥यैर्मासैः कर्मभिर्यैर्वा जप्यैर्होमादिभिस्त था ॥ प्रीयेत परमात्मा वै तदूब्रूत मम मानदाः ॥१०॥सूत उवाच ॥ एतच्छुत्वा व चस्तस्य नारदस्य महात्मनः ॥ सनत्कुमारो भगवानुवाचार्कसमद्युतिः ॥११॥सनत्कुमार उवाच ॥ श्रृणु नारद वक्ष्यामि तंत्रं भागवतं तव ॥ यज्ज्ञात्वाऽमलया भक्त्या साधयेद्विष्णुमव्ययम् ॥१२॥त्रिपदार्थं चतुष्पादं महातंत्रं प्रचक्षते ॥ भोगमोक्षक्रियाचर्याह्रया पादाः प्रकीर्तिताः ॥१३॥पादार्थास्तु पशुपतिः पशुपाशास्त्रय एव हि ॥ पतिस्तत्र शिवोह्येको जीवा स्तु पशवः स्मृताः ॥१४॥यावन्मोहादिसंयोगाः स्वरुपाबोधलक्षणाः ॥ तावत्पशुमेतेषां द्वैतवत्पश्य नारद ॥१५॥पाशाः पंचविधास्त्वेषां प्रत्येक तेषु लक्षणम् ॥ पशवास्त्रिविधाश्वापि विज्ञाताः कलसंज्ञिकाः ॥१६॥तलपाकलसंज्ञश्व सकलश्वेति नामतः ॥ तत्राद्यो मलसंयुक्तो मलकर्म युतः परः ॥१७॥मलमायाकर्मयुतस्तृतीयः पार्रकीर्तितः ॥ आद्यस्तु द्विविधस्तत्र समासकलुषस्तथा ॥१८॥असमासमलश्वेति द्वितीयोऽपि पुनस्तथा ॥ पक्कापक्कमलेनैव द्विविधः परिकीर्तितः ॥१९॥शुद्धेऽध्वनि गतावेतौ विज्ञानप्रलयाकलौ ॥ कलादितत्त्वनियतः ॥ सकलः पर्यटत्ययम् ॥२०॥कर्मानुशशरीरेषु तत्तद्धुवनगेषु च ॥ पाशाः पंच तथा तत्र प्रथमौ मलकर्मजौ ॥२१॥मायेयश्व तिरोधानशक्तिजो बिंदुजः परः ॥ एकोऽप्यनेकशक्तिर्द्दक्क्रयाच्छादनकोमलः ॥२२॥तुषकंचुकवद्देकवद्देहनिमित्तं चात्मनामिह ॥ धर्माधर्मात्मकं कर्म विचित्रफलभोगदम् ॥२३॥प्रवाहनित्यं तद्वीजांकुरन्यायेन संस्थितम् ॥ इत्येतौ प्रथमौ चाथ मायेयाद्यान् श्रृणु द्विज ॥२४॥सच्चिदानंदविभवः परमात्मा सनातनः ॥ पतिर्जयति सर्वेषामेको बीजं विभुः परम् ॥२५॥मनस्यति न चोदेति निवृत्तिं च प्रयच्छति ॥ वर्वतिं द्दक्क्रियारुपं तत्तेजः शांभंव परम् ॥२६॥शक्तो मया हरौ भुक्तो पशुगणस्य हि ॥ तच्छक्तिमाद्यामेकांतां विद्रूपाख्यां वदंति हि ॥२७॥तया चोज्जृंभितो बिंदुर्दिक्क्रयात्मा शिवाभिधः ॥ अशेषतत्त्वजातस्य कारणं विभुख्ययम् ॥२८॥अस्मिन्निलीना निखिला इच्छायाः शक्तयः स्वकम् ॥ कृत्यं कुर्वंति तेनेदं सर्वानुग्राहकं मुने ॥२९॥चिज्जडानुग्रहार्थायं यस्य विश्वं सिसृक्षतः ॥ आद्योन्मेषोऽस्य नादात्मां शांत्यादिभुवनात्मकः ॥३०॥तच्छक्तितत्त्वं विप्रेंद्र प्रोक्तं सावयवं परम् ॥ ततो ज्ञानक्रियाशक्तयोस्तथोत्कर्षापकर्षयोः ॥३१॥प्रसरश्वाप्यभावेन तत्त्वं चैतत्सदाशिवम् ॥दृक्शाक्रिर्यत्र न्यग्भूता क्रियाशक्तिर्विशिष्यते ॥३२॥ईश्वराख्यं तु तत्तत्वं प्रोक्तं सर्वार्थकर्तृकम् ॥ यत्र क्रिया हि न्यग्भूता ज्ञानाख्योद्रेकमश्नुते ॥३३॥तत्तत्त्वं चिअव विद्याख्यं ज्ञानरुपं प्रकाशकम् ॥ नारदो बिंदु सकलः तत्त्वमाश्रितौ ॥३४॥विद्येशाः पुनरैशं तु मंत्रा विद्यामिद्यं पुनः ॥ इमानि चैव तत्त्वानि शुद्धाध्वेति प्रकीर्तितम् ॥३५॥साक्षान्निमित्तमी त्रेत्युपादानसबिंदुराट ॥ पंचानां कालराहित्यक्रमो नास्तीति निश्वितम् ॥३६॥व्यापारवसतो ह्येषां विहिता खल्ल क्रल्पना ॥ तत्त्व वस्तुतः तु शिवाख्यं चित्रशक्तिकम् ॥३७॥शक्तं यां वृत्तिभेदात्तु विहिताः खलु कल्पनाः ॥ चिज्जडानुग्रहार्थाय कृत्वा वै प्रभुः ॥३८॥अनादिमलरुद्धानां कुरुतेऽनुग्रहं चिताम् ॥ मुक्तिं भुक्तिं च विश्वेषां स्वव्यापारे समर्थताम् ॥३९॥विधत्ते जडवर्गस्य सर्वानुग्राहकः शिवः ॥ शिवसामान्यरुपो हि मोक्षस्तु चिदनुग्रहः ॥४०॥सोऽनादित्त्वात्कर्मणो हि तत्तद्धोगं विना भवेत् ॥ तेना नुग्राहकः शम्भुस्तद्धुत्त्यै प्रभुख्य ॥४१॥कुरुते सूक्ष्मकरणभुवनोत्पत्तिमंजसा ॥ कर्त्तोपादानकरणैर्विना कार्ये न दृश्यते ॥४२॥शक्तयः करणं चात्र मायोपादानमिष्यते ॥ नित्यैका च शिवा शक्त्या ह्यानदिनिधना सती ॥४३॥साधारणी नराणी वै भुवनानां च कारणम् ॥ स्वभावान्मोद्दजननी स्वचिताजनकर्मभिः ॥४४॥विभ्वी सूक्ष्मा परा माया विकृतैः परतस्तु सा ॥ कर्माण्यावेक्ष्य विद्यशो मायां विक्षोभ्य शक्तिभिः ॥४५॥विधत्ते जीवभोगार्थं वयूंषि करणानि च ॥ सृजत्यादौ कालतत्त्वं नानाशक्तिमयी च सा ॥४६॥भावि भूतं भवश्वेदं जगत्कलयते लयम् ॥ सूते ह्यनंतरं माया शक्तिं नियमनात्मिकाम् ॥४७॥सर्वं नियमयत्येषा तेनेयं नियतिः स्मृता ॥ अनंतरं च सा माया नित्या विश्वविमोहिनी ॥४८॥अनादिनिधना तत्त्वं कलाख्यं जनयत्यपि ॥ एकतस्तु नृणां येन कलयित्वा मलं ततः ॥४९॥कर्तृशक्तिं व्यंजयति तेनेदं तु कला भिधम् ॥ कालेन च नियत्योपसर्गतां समुपेतया ॥५०॥व्यापारं विदधात्येषा भूपर्यंतं स्वकीयकम् ॥ प्रदर्शनाथ वै पुंसो विषयाणां च सा पुनः ॥५१॥प्रकाशरुपं विद्याख्यं तत्त्वं सूते कलैव हि ॥ विद्या त्वावरणं भित्वा ज्ञानशक्तेः स्वकर्मणा ॥५२॥विषयान्दर्शयत्येषात्मनांशाकारणंह्यतः ॥ करोति भोग्यं येनासौ करणेन परेण वै ॥५३॥उद्रबुद्धशक्तिः पुरुषः प्रचोद्य महदादिकान् ॥ भोग्ये भोगं च भोक्तारं तत्परं करणं तु सा ॥५४॥भोग्येस्य भोग्यतिर्मासाच्चिद्वयक्तिर्भोग उच्यते ॥ सुखादिरुपा विषयाकारा बुद्धिः समासतः ॥५५॥भोग्यं भोक्तुश्व स्वेनैव विद्याख्यं करणं तु तत् ॥ यद्यर्कवत्प्रकाशा धीः कर्मत्वाच्च तथापि हि ॥५६॥करणातरसापेक्षा शक्ता ग्राहयितुं तम् ॥ संबन्धात्कारणाद्यैस्तद्धोगौत्सुचयेन चोदनात ॥५७॥तच्चष्टाफलयोगाच्च संसिद्धा कर्तृतास्य तु ॥ अकर्तृत्वाभ्युपगमे भोकृत्वाख्या वृथास्य तु ॥५८॥किं च प्रधानरितं व्यर्थ भवेत्ततः ॥ कर्तृत्वरहिते पुंसि करणाद्यप्रयोजके ॥५९॥भोगस्यासंभवस्तुस्मात्स एवात्र प्रवर्तकः ॥ करणादिप्रयोक्तृत्वं विद्ययौवास्य संमतम् ॥६०॥अनंतरं कलारागं सूते भिद्यंगरुपकम् ॥ येन भोग्याय जनिता भिद्यंगे पुरुषे पुनः ॥६१॥क्रियाप्रवृत्तिर्भवति तेनेदं रागसंज्ञिकम् ॥ एभिस्तत्त्वैश्व भोक्तृत्वदशायां कलितो यदा ॥६२॥नित्यस्तदायत्मात्मा तु लभते पुरुषभिधाम् ॥ कलैव पश्वादव्यक्तं सूते भोग्याय चास्य तु ॥६३॥सप्त ग्रंथिविधानस्य यत्तद्वौस्यकारणम् ॥ गुणानामविभागेऽत्र ह्याधारे क्ष्मादिभागवत् ॥६४॥आधारोऽपि च यस्तेषां तदव्यक्तं च गीयते ॥ त्रयएव गुणा ह्याषामव्यक्तादेव संभवः ॥६५॥सत्त्वं रजस्तमःप्रख्या व्यापारनियमात्मिका ॥ गुणतो धीश्व विषयाध्ववसायस्वरुपिणी ॥६६॥गुणतस्त्रिविद्यां सापि प्रोक्ता कर्मानुसारतः ॥ महत्तत्वादहंकारो जातः संरंभवृत्तिमान् ॥६७॥संभेदादस्य विषयः प्राप्नोति व्यवहार्यताम् ॥ सत्त्वाद्विगुणभेदेन च पुनास्त्रिविधो भवेत् ॥६८॥तैजसो राजसश्वेति नामतः ॥ तत्र तैजसतो ज्ञानेंद्रियाणि मनसा सह ॥६९॥प्रकाशान्व यतस्तस्माद्धोधकानि भवन्ति हि ॥ राजसाच्च क्रियाहेतोस्तथा कर्मेद्रियाणि तु ॥७०॥तामसाच्चैव जायन्ते तन्मात्रा भूतयोनयः ॥ इच्छारुपं च संकल्पव्यापारं तत्र वै मनः ॥७१॥द्विधाधिकारि तच्चितं भोक्तृभोगोपपादकाम् ॥ बहिःकरणभावेन स्वोचितेन यतः सदा ॥७२॥इंद्रियाणांच सामर्थ्यं संकल्पेनात्मवृत्तिना ॥ करोत्यंतः स्थितं भूयस्ततोऽकरणं मनः ॥७३॥मनोऽहंकारबुद्धयाख्यमस्त्यन्तः कारणं त्रिधा ॥ इच्छासंरंभबो धाख्या वृत्तयः क्रमतोऽस्य तु ॥७४॥ज्ञानेंद्रियाणि श्रोत्रं त्वकू चक्षुर्जिह्रा च नासिका ॥ ग्राह्याश्व विषया ह्योषां ज्ञेयाः शब्दादयो मुने ॥७५॥शब्द स्पर्शरुपसगन्धाः शब्दादयो मताः ॥ वाक्पाणिपादपायूस्थास्तु कर्मेंद्रियाण्यपि ॥७६॥वचनादान्गमनोत्सर्गानंदेषु कर्मसु ॥ करणानि च सिद्धिना न कृतिः करणैर्विना ॥७७॥दशधा करणैश्वेष्टां कार्यमाविश्य कार्यते ॥ चेष्टते कार्यमालंब्य विभुत्वात्करणानि तु ॥७८॥तन्मात्राणि तु खवायुस्तेजोऽम्भः क्ष्मेति पञ्च वै ॥ तेभ्यो भूतान्येकगुणान्याख्यातानि भवंति हि ॥७९॥इति पञ्चसु शब्दोऽयं स्पर्शो भूतचतुष्टये ॥ रुपं त्रिषु रसश्वैव द्वयोर्गंधः क्षितौ तथा ॥८०॥कार्याण्येषां क्रमेणैवावकाशो व्यूहकल्पनम् ॥ पाकश्व संग्रश्वैव धारणं चेति कथ्यते ॥८१॥आशीतोष्णौ महावाद्यौ शीतोष्णौ वारितेजसोः ॥ भास्वदग्नौं जले शुक्लं क्षितौ शुक्लंद्यनेकधा ॥८२॥रुपं त्रिषु रसोऽभः सु मधुरः षडिधः क्षितौ ॥ गन्धः क्षितावसुर भिः सुरभिश्व प्रकीर्तितः ॥८३॥तन्मात्रं तद्धूतगुणं करणं पोषणं तथा ॥ भूतस्य तु विशेषोऽयं विशेषरहितं तु तत् ॥८४॥इमानि पञ्चभूतानि संनिविष्टानि सर्वतः ॥ पञ्चभूतात्मकं सर्वं जगत्सथावरजङुमम् ॥८५॥शरीरसंनिविष्टत्वमेषां तावन्निरुप्यते ॥ देहेऽस्थिमांसकेशत्वङ्खदन्ताश्व पार्थिवाः ॥८६॥मूत्ररक्तकफस्वेदशुक्रादिषु जलस्थितिः ॥ ह्रदिं पंक्तौः पित्ते तेजस्तद्धर्मदर्शनात् ॥८७॥प्राणदिवृत्तिभेदेन वायुश्वैवात्र संस्थितः ॥ वियत्सर्वासु नाडीषु गर्भवृत्यनुषंगतः ॥८८॥प्रयोक्यादिमहीप्रांतदंडार्थसाधनम् ॥ प्रत्यात्मनियतं बोगभेदतो व्यवसीयते ॥८९॥तत्त्वान्येवं कलाद्यानि प्रतिपुनियतानि हि ॥ देहेषु कर्मवशतः सर्वेषु विचरंति हि ॥९०॥मायेयश्वैव पाशोऽयं येनावृतमिदं जगत् ॥ अशुद्धाध्वा मतो ह्येष धरण्यदिकलावधिः ॥९१॥तत्र भूमण्डलस्थोऽसौ स्थावरो जङुमात्मकः ॥ स्थावरा गिरिवृक्षाद्या जङुमस्तिविधः पुनः ॥९२॥स्वेदजाश्वांडजाश्वैव तथैव च जरायुजाः ॥ चराचरेषु लक्षाणां चतुराशीतियोनयः ॥९३॥भ्रममाणस्तेषु जीवः कदाचिन्मानुषं वपुः ॥ प्राप्नोति कर्मवशतः परं सर्वार्थसाधकम् ॥९४॥तत्रापि भारते खण्डे ब्राह्यणदिकुलेषु च ॥ महापुण्यवशेनैव जनिर्भवति दुलभा ॥९५॥जनिश्व पुं स्त्रियोर्योगः शुक्रशोणितयोगतः ॥ बिंदुरकेः प्रविशति यदा गर्भे द्वयात्मकः ॥९६॥तदा रजोऽधिके नारी भवेद्रेतोऽधिके पुमान् ॥ मलकर्मादिपाशेन कश्विदात्मा नियंत्रितः ॥९७॥जीवभावं तदा तस्मिन्सकलः प्रतिपद्यते ॥ अथ तत्राह्रतैर्मात्रा पोषितः ॥९८॥पक्षमासादिकालेन वर्धते वपुरत्र द्दि ॥ दुःखाद्यः पीडितश्वैवच्छन्नदेहो जरायुणा ॥९९॥एवं तत्र स्थितो गर्भे प्रारज्न्मोत्थं शुभाशुभम् ॥ स्मरंस्तिष्टति दुःखात्मा पीड्यमानो मुहुर्मुहुः ॥१००॥कालक्रमेण बालोऽसो मातर ॥ संपीडितो निःसरत योनियंत्रादवाङ्मुखः ॥१०१॥क्षणं तिष्ठति निश्वेष्टस्ततो रोदितुमिच्छति ॥ ततः क्रमेण स शिशुर्वधमानो ॥ १०२॥बालपौगंडभेदेन युवत्वं प्रतिपद्यते ॥ एवं क्रमेण लोकेऽस्मिन्देहिनांदेहसंभेवः ॥१०३॥मानुषं दुर्लभं प्राप्य सर्वलोकेपकारकम् ॥ यस्तारयति नात्मानं तस्मात्पापतरोऽत्र कः ॥१०४॥सहारश्वैव निद्रा च भयं मैथुनमेव च ॥ पश्वादीनां च सर्वेषां साधारणमितीरितम् ॥१०५॥चतुर्ष्वेवानुरक्तो यः स मूर्खो ह्यात्मघातकः ॥ मनुष्याणामयं धर्मः खबंधच्छे दनात्मकः ॥१०६॥पाशबंधनाविच्छेदी दीक्षयैव प्रजायते ॥ अतो बंधनविच्छित्त्यै मंत्रदीक्षां समाचरेत् ॥१०७॥दीक्षाज्ञानाख्यया शक्तया ह्यप ध्वंसितबन्धनः ॥ शुद्धात्मतत्त्वनामासौ निर्वाणपदमश्नुते ॥१०८॥स्वशक्तयात्मिकया दृष्ट्या शिवं ध्यायति ॥ यजते शिवमंत्रैश्व खपरेषां हिताय सः ॥१०९॥शिवार्कशक्तिदीधित्या समर्थीकृतचिद्दशा ॥ शिवशक्यादिभिः सार्द्धं पश्चात्यात्मगतावृतिः ॥११०॥अंतःकरणवृत्तियां बोधाख्या सा महेश्वरम् ॥ न प्रकाशयितुं शक्ता पाशत्वन्निगडादिवत् ॥१११॥दीक्षैव परमो हेतुः पाश्विच्छेदने पुनः ॥ अतः शास्त्रोक्त विधिना मत्रदीक्षां समाचरेत् ॥११२॥दीक्षितस्तंत्रविधिना स्ववर्णाचारतत्परः ॥ अनुष्ठान प्रकुर्वीत नित्यनमित्तिकात्मकम् ॥११३॥निजवर्णाश्रमाचारान्मनसापि न लंघयेत् ॥ यो यस्मिन्नाश्रमे तिष्ठन्दीक्षां प्राप्नोति मानवः ॥११४॥स तस्मिन्नाश्रमे तिष्ठेत्तद्धर्मानुपालयेत् ॥ कृतान्यापि न कर्माणि बंधनाय भवंति हि ॥११५॥एकं तु फलदं कर्म मंत्रानुष्ठानसंभवम् ॥ दीक्षितोऽभिलषेद्धोगाद्यल्लोकगतानसौ ॥११६॥मंत्राराधनसामर्थ्यात्तद्धुक्ता मोक्षमश्नुते ॥ नित्यं नैमित्तिकं दीक्षां प्राप्य यो नाचरेन्नरः ॥११७॥कंचित्कालं पिशाचत्वं प्राप्यांते मोक्षमश्नुते ॥ तस्मात्तु दीक्षितः कुर्य्यान्नित्यनैमित्तिकादिकम् ॥११८॥अनुष्ठानं च तेनास्य दीक्षां प्राप्याऽनुमीयते ॥ नित्यनैमित्तिकाचार पालकस्य नरस्य तु ॥११९॥दीक्षावैकल्यविरहत्सद्यो मुक्तिस्तु जायते ॥ तत्रापि गुरुभक्तस्य गतिर्भवति नान्यथा ॥१२०॥दीक्षया गुरुमूर्तिस्थः सर्वानुग्राहकः शिवः ॥ दृष्टार्थतया यस्य गुरुभक्तिस्तु कृत्रिमा ॥१२१॥कृतेऽपि विफलं तस्य प्रायश्वितं पदे पदे ॥ कायेन मनसा वाचा गुरुभक्तिपरस्य च ॥१२२॥प्रायश्वित्त भवेन्नैव सिद्धिस्तस्य पदे पदे ॥ गुरुभक्तियुते शिष्ये सर्वस्वविनिवेदके ॥१२३॥मिथ्याप्रयुक्तमन्त्रस्तु प्रायश्वित्ती भवेद्धुरु ॥१२४॥इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृह्दुपाख्याने तृतीयपादे त्रिषष्टितमोऽध्यायः ॥६३॥ N/A References : N/A Last Updated : June 05, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP