संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः| पञ्चाशत्तमोऽध्यायः श्री नारदीयमहापुराणम् : पूर्वभागः प्रथमोऽध्यायः द्वितीयोध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पंचविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पंचत्रिशोंऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशत्तमोऽध्यायः पश्वचत्वारिशत्तमोऽध्यायः षट्रचत्वारिंशत्तमोऽध्यायः सप्तचत्वारिंशत्तमोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोध्यायः पञ्चाशत्तमोऽध्यायः एकपंचाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुःपञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषाष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुष्षष्टितमोऽध्यायः पञ्चषष्टिमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षटसप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्याय एकोनाशीतितमोऽध्यायः नामाशीतितमोऽध्यायः नामैकाशीतितमोऽध्यायः व्द्यशीतितमोऽध्यायः त्र्यशीतितमोऽधायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः नामाष्टाशीतितमोऽध्यायः नामैकोननवतितमोऽध्यायः नवतितमोऽध्यायः नामैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः नामाष्टनतितमोऽध्यायः नामैकोनशततमोऽध्यायः शततमोऽध्यायः नामैकोत्तरशततमोऽध्यायः द्वयुत्तरशततमोऽध्यायः त्र्युत्तरशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडुत्तशततमोऽध्यायः सप्तोत्तशततमोऽध्यायः नामाष्टोत्तरशततमोऽध्यायः नवोतरशततमोऽध्यायः दशोत्तरशततमोऽध्यायः नामैकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाघिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशदधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशतमोऽध्यायः पंचविंशोत्तरशततमोऽध्यायः श्री नारदीयमहापुराणम् - पञ्चाशत्तमोऽध्यायः `नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है। Tags : naradnaradapuranpuranनारदनारदपुराणपुराण पञ्चाशत्तमोऽध्यायः Translation - भाषांतर सूत उवाच ॥श्रुत्वा सनंदनस्येत्थं वचनं नारदो मुनिः ॥ असंतुष्ट इव प्राह भ्रातरं तं सनंदनम् ॥१॥नारद उवाच ॥भगवन्सर्वमाख्यातं यत्पृष्टं भवतो मया ॥ तथापि नात्मा प्रीयेत श्रृण्वन्हरिकथां मुहुः ॥२॥श्रूयते व्यासपुत्रस्तु शुकः परमधर्मवित् ॥ सिद्धिं सुमहतीं प्राप्तो निर्विण्णोऽवांतरं बहिः ॥३॥ब्रह्मन्पंसस्तु विज्ञानं महतां सेवनं विना ॥ न जायते कथं प्राप्तो ज्ञानं व्यासात्मजः शिशुः ॥४॥तस्य जन्मरहस्यं मे कम चाप्यस्य श्रृण्वते ॥ समाख्याहि महाभाग मोक्षशास्त्रार्थविद्धवान् ॥५॥सनंदन उवाच ॥श्रृणु विप्रपवक्ष्यामि शुकोत्पत्तिं समासतः यां श्रुत्वा ब्रह्मतत्त्वज्ञो जायते मानवो मुने ॥६॥ न हायनैर्न वित्तेन न बंधुमिः ॥ ऋषयश्वक्रिरे धर्मं योऽनूचानः स नो महान् ॥७॥नारद उवाच ॥अनूचानः कथंब्रह्मन्पुमान्भवति मानद ॥ तन्मे कर्म समाचक्ष्व श्रोतुं कौतूहलं मम ॥८॥सनंदन उवाच ॥श्रृणु नारद वक्ष्यामि ह्यनूचानस्य लक्षणम् ॥ यज्ज्ञात्वा सांगवेदनामभिज्ञो जायते नरः ॥९॥शिक्षा कल्पो व्याकरणं निरुक्तं ज्योतिषं तथा ॥ छंदःशास्त्रं षडेतानि वेदांगानि विदुर्बुधाः ॥१०॥ऋग्वेद्रोऽथ यजुर्वेदः सामवेदो ह्यथर्वणः ॥ वेदाश्र्वत्वार एवैंते प्रोत्का धर्मनिरूपणे ॥११॥सांगान्वेदान्गुरोर्यस्तु समधीते द्विजोत्तमः ॥ सोऽनूचानः प्रभवति नान्यथा ग्रथकोटिभिः ॥१२॥नारद उवाच ॥अंगानां लक्षणं वेदानां चापि विस्तरात् ॥ त्वमस्मासु महाविज्ञः सांगेष्वेतेषु मानद ॥१३॥सनंदन उवाच ॥प्रश्रभारोऽयमतुलस्त्वया मम कृतो द्विज ॥ संक्षेपात्कथयिष्यामि सार मेषां सुनिश्वितम् ॥१४॥स्वरः प्रधानः शिक्षायां कीर्त्तितो मुनिभिर्द्विजैः ॥ वेदानां वेदविद्धिस्तु तच्छृणुष्व वदामि ते ॥१५॥आर्चिकं गाथिकं चैव सामिकं च स्वरान्तरम् ॥ कृतांते स्वरशास्त्राणां प्रयोक्तव्य विशेषतः ॥१६॥एकांतरः स्वरो ह्यप्सु गाथासुद्वयतरः स्वर्ह ॥ सामसु त्र्यंतरं विद्यादेतावत्स्वरतोऽन्तरम् ॥१७॥ऋकसामयजुरंगानि ये यज्ञेषु प्रयुंजते ॥ अविज्ञानद्धि शिक्षायास्तेषां भवति विस्वरः ॥१८॥मंत्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह ॥ स वाग्वज्रो यजमानं हिनस्ति यथेंद्र्शत्रुः स्वरतोऽपराधात् ॥१९॥उरः कठः शिरश्वैव स्थानानि त्रीणि वाङ्ये ॥ सवनान्याहुरेतानि साम वाप्यर्द्धतोंऽतरम् ॥२०॥उरः सप्तविवारं स्यात्तथा कंठस्तथा शिरः ॥ न च शक्तोऽसि व्यक्तस्तु व्यक्तस्तु तथा प्रवाचना ॥२१॥कठकालापवृत्तेषु तैत्तिराह्ररकेषु च ॥ ऋग्वेदे सामवेदे च वक्तव्यः प्रथमः स्वरः ॥२२॥ ऋग्वेदस्तु द्वितीयेन तृतीयेन च वर्तते ॥ उच्चमध्यमसंघातः स्वरो भवति पार्थिवः ॥२३॥तृतीय प्रथमक्रुष्टा कुर्वंत्याह्ररकान स्वरान् ॥ द्वितीयाद्यास्तु मद्रांतास्तैत्तिरीयाश्चतुःस्वरान् ॥२४॥ प्रथमश्व द्वितीयश्व तृतीयोऽथ चतुर्थकः ॥ मंद्रः क्रुष्टो मुनीश्वर एतान्कुवति सामगाः ॥२५॥द्वितीयप्रथमावेतौ नांडिभाल्लविनौ स्वरौ ॥ तथा शातपथावेतौ स्वरौ वाजसनेयिनाम् ॥२६॥एते विशेषतः प्रोक्ताः स्वरा वै सार्ववैदिकाः ॥ इत्येतच्चरितं सर्वं स्वराणां सार्ववैदिकम् ॥२७॥सामवेदे तु वक्ष्यामि स्वराणां चरितं यथा ॥ अल्पग्रथं प्रभूतार्थं सामवेदांगमुत्तमम् ॥२८॥तानरागस्वरग्राममूर्च्छनानां तु लक्षणम् ॥ पवित्रं पावनं पुण्यं यथा तुभ्यं प्रकीर्तितम् ॥२९॥शिक्षामाहुर्द्विजातीनामृग्यजुःसामलक्षणम् ॥ सप्त स्वरास्त्रयो ग्रामां मूर्छनास्त्वेकविंशतिः ॥३०॥ताना एकोनपंचाशदित्येतत्स्वरमंडलम् ॥ षङ्जश्व ऋषभश्वैव गांधारो मध्यमस्तथा ॥३१॥पंचमो धैवतश्वैव निषादः सप्तमः स्वरः ॥ षङ्जमध्यमगांधारास्त्रयो ग्रामाः प्रकीर्तिताह ॥३२॥भूर्ल्लोकाज्जायते षङ्जो भुवर्लोकाच्च मध्यमः ॥ स्वर्गाभ्राच्चैव गांधारो ग्रामस्थानानि त्रीणि हि ॥३३॥स्वराणां च विशेषण ग्रामरागा इति स्मृताः विंशतिर्मध्यमग्रामे षङ्जग्रामे चतुर्दश ॥३४॥तानान्पंचदशेच्छंति गांधारे सामगायिनाम् ॥ नदी विशाला सुसुखी चित्रा चित्रवती सुहा ॥३५॥बला चाप्यथ विज्ञेया देवानां सप्त मूर्छनाः ॥ आप्यायिनी विश्वभृता चंद्रा हेमा कपर्दिनी ॥३६॥मैत्री च बार्हती चैव पितृणां सप्त मूर्छनाः ॥ षङ्जे तूत्तरमंद्रा स्याद्दषभे चाभिरुहता ॥३७॥अश्वक्रांता तु गांधारे तृतीया मूर्च्छना स्मृता ॥ मध्यमे खलु सौवीरा ह्रषिका पंचमे स्वरे ॥३८॥धैवते चापि विज्ञेया तूत्तरा मता ॥ निषादे रजनी विद्यादृषीणा सप्त मूर्छनाः ॥३९॥उपजीवंति गंधर्वा देवानाम सप्त मूर्छनाः ॥ पिट्टृणां मूर्च्छनाः सप्त तथा यक्षा न संशयः ॥४०॥ऋषीणां मूर्छनाः सप्त यास्त्विमा लौकिकाः स्मृताः ॥ षङ्ज प्रीणाति वै देवानृषीन्प्रीणाति चर्षभः ॥४१॥पितृन् प्रीणाति गांधारो गंधर्वान्मध्यमः स्वरः देवान्पितृनृषींश्वैव स्वरः प्रीणाति पंचमः ॥४२॥यक्षान्निषादः प्रीणाति भूतग्रामं च धैवतः ॥ गानस्य तु दशविधा गुणवृत्तिस्तु तद्यथा ॥४३॥रक्तं पूर्णमलंकृत प्रसन्नंव्यक्तं विक्रुष्टं श्लक्ष्णं समं सुकुमारं मधुरमिति गुणास्तत्र रक्तं नाम वेणुवीणास्वराणामेकीभावं रक्तमित्युच्यते पूर्णं नाम पदपदार्थप्रकृतिविकारागमनोपकृत्तद्धितसमासधातुनिपातोपसर्गंस्वरलिंगं वृत्तिवार्त्तिकविभक्त्यर्थवचनानां सम्यगुपपादनं व्यक्तमित्युच्यते विक्रुष्टं नामोच्चैरु च्चारिंत व्यक्तपदाक्षरं विक्रुष्टमित्युच्यते श्लक्ष्णं नाम द्रुतमविलंबितमुच्चनीचप्लुतसमाहारहेलतालोपनयादिभिरुपपादनाभिः श्लक्ष्णमित्युच्यते समंनामवापनिर्वापप्रदेशे प्रत्यंतरस्थानानां समासः सममित्युच्यते सुकुमारं नाम मृदुपदवर्णस्वरंकुहरणयुक्तं सुकुमारमित्युच्यते मधुरं नाम स्वभावोपनी तललित्पदाक्षरगुणसमृद्धं मधुरमित्युच्यते एवमेतैर्दशभिर्गुणैर्युक्तं गानं भवति ॥१॥भवन्ति चात्र श्लोकाः ॥ शंकितं भीषणं भीतमुद्धुष्टमनुनासिकम् ॥ काकस्वरं मूर्द्धगतं तथा स्थानविवर्जितम् ॥४४॥विस्वरं विरसं चैव विषमाहतम ॥ व्याकुलं तालहीनं च गीतिदोषाश्वतुर्दश ॥४५॥आचार्याः सममिच्छति पदच्छेदं तु पंडिताः ॥ स्त्रियो मधुरमिच्छंति विक्रष्टमितरे जनाः ॥४६॥पद्मपत्रप्रभः षङ्जऋषभः शुकपिंजरः ॥ कनकाभस्तु गांधारो मध्यमः कुंदसन्निभः ॥४७॥पंचमस्तु भवेत्कृष्णः पीतकं धैवतं विदुः ॥ निषादः सर्ववर्णः स्यादित्येताः स्वरत्येताः स्वरवर्णतोः ॥४८॥पंचमो मध्यमः षङ्ज इत्येते ब्राह्मणाः स्मृताः॥ ऋषभो धैवत्तश्वापीत्येतौ वै क्षत्रियाविभौ ॥४९॥गांधारश्व निषादश्च वैश्यावर्द्धैन वै स्मृतो ॥ शूद्रत्वं विधिनार्द्धेन पतितत्वान्न संशयः ॥५०॥ऋषभो मूर्छिवर्जित धैवतसहितश्व पंचमो यत्र ॥ निपतति मध्यमरागे स निषादं षाङ्जवं विद्यात ॥५१॥यदि पंचमो विरमते गांधारश्वांतरस्वरो भवति ॥ ऋषभो निषादसहितस्तं पंचममीदृश्म विद्यात् ॥५२॥गांधारस्याधिपत्येन निषादस्य गतागतैः ॥धैवतस्य च दौर्बल्यान्मध्यमग्राम उच्यते ॥५३॥ईषत्पृष्टो निषादस्तु गांधारश्वाधिको भवेत् धैवतः कंपितो यत्र स षडग्राम ईरितः ॥५४॥ अंतरस्वरसंयुक्तः काकलिर्यत्र दृश्यते ॥ तं तु साधारितं विद्यात्पंचमस्थं तु कैशिकम् ॥५५॥कैशिकं भावयित्वा तु स्वरेः सर्वेः समंततः ॥ यस्मात्तु मध्यमे न्याससस्मात्कैशिकमध्यमः ॥५६॥ककलिर्दृश्यते यत्र प्राधान्यं पंचमस्य तु ॥ कश्यपः कैशिकं प्राह मध्यग्रामसंभवम् ॥५७॥गेति गेयं विदुः प्राज्ञा धेति कारुप्रवादनम् ॥वेति वाद्यस्य संज्ञेयं गंधर्वस्य प्ररोचनम् ॥५८॥यः सामगानां प्रथमः स वेणोर्मध्यमः स्वरः ॥ यो द्वितीयः स गांधारस्तृतीयस्त्वृषभः स्मृतः ॥५९॥चतुर्थः षङ्ज इत्याहुः पंचमो धैवतो भवेत् ॥ षष्ठो निषादो विज्ञेयः सप्तमः पंचमः स्मृतः ॥६०॥षङंज मयूरो वदति गावो रंभंति चर्षभम् ॥ अजाविके तु गांधारे क्रौंचो वदति मध्यमम् ॥६१॥पुष्पसाधारणे काले कोकिला वक्ति पञ्चमम् ॥ अश्वस्तु धैवतुं वक्ति निषादं वक्ति कुंजरः ॥६२॥कंठादुत्तिष्ठते षङ्जः शिरसस्त्वृषभः स्मृतः ॥ गांधारस्त्वनुनासिक्य उरसो मध्यमः स्वरः ॥६३॥उरसः शिरसः कंठादुत्थितः पंचमः स्वरः ॥ ललाटाद्धैवतं विद्यान्निषादं सर्वसन्धिजम् ॥६४॥नासा कंठमुरस्तालुजिह्रादतांश्व संश्रितः ॥ षङिजः सं जायते यस्मात्तस्मात्षङ्ज इति स्मृत ॥६५॥वायुः समुत्थितो नाभेः कंठशीर्षसमाहतः ॥ नर्दत्यृभवद्यस्मात्तस्मादृअषभ उच्यते ॥६६॥वायुः समुत्थितो नाभेः कंठशीर्षसमाहतः ॥ वाति गंधवहः पुण्यो गांधारस्तेन हेतुना ॥६७॥वायुः समुत्थितो नाभेरुरौ ह्रदि समाहतः ॥ नाभिप्राप्तो मध्यवर्ती मध्यमत्व्म समश्च्नुते ॥६८॥वायुः समुत्थितो नाभेरुरोह्रत्कंठकाहतः ॥ पंचस्थानोत्थितस्यास्य पंचमत्वं विधीयते ॥६९॥धैवतं च निषादं च र्वजयित्वा तु तावुभौ ॥ शेषान्पंच स्वरांस्त्वन्ये पंचस्थानोत्थितान्विदुः ॥७०॥पंचस्थानस्थित्वेन सर्वस्थानानि धार्यते ॥ अग्निगीतस्वरःषड्ज ऋषभो ब्रह्मणोच्यते ॥७१॥सोमेन गीतो गांधारो विष्णुना मध्यमः स्वरः ॥ पंचमस्तु स्वरो गीतस्त्ययैवेति निधारय ॥७२॥धैवतश्व निषादश्व गीतौ तुंबुरुणा स्वरौ ॥ आद्यंस्य दैवतं षङ्जस्याप्युच्यते बुधैः ॥७३॥तीक्ष्णदीप्तप्रकाशत्वादृषभस्य हुताशनः ॥ गावः प्रनीते तुष्यंति गांधारस्तेन हेतुना ॥७४॥श्रुत्वा चैवोपतिष्ठंति सौरभेया न संशयः ॥ सोमस्तु पंचमस्यापि दैवत्म ब्रह्मराट्र्स्मृतम् ॥७५॥ निह्रासी यस्य वृद्धिश्व ग्राममासाद्य सोमवतू ॥ अतिसंधीयते यस्मादेतान्पूर्वोत्थितान्स्वरान् ॥७६॥तस्मादस्य स्वरस्यापि धैवतत्वं विधीयते ॥ निषीदंति स्वरा यस्मान्निषादस्तेन हेतुना ॥७७॥सर्वांश्वभिभवत्येष यदादित्योऽस्य दैवतम् ॥७८॥दारवी गात्रवीणा च द्वे वीणे गानजा तिषु ॥७९॥सामनी गात्रवीणा तु तस्यास्त्वं श्रृणु लक्षणम् ॥ गात्रवीणा तु सा प्रोक्ता यस्यां गायंति सामगाः ॥८०॥स्वरव्यंजनसंयुक्ता अंगुल्यंगुष्ठरंजिता ॥ हस्तौ तु संयतौ धार्यौ जानुभ्यामुपरिस्थितौ ॥८१॥गुरोरनुकृतिं कुर्याद्यथान्या न मतिर्भवेत् ॥ प्रणवं प्राक्यप्रयुंजेत व्यात्द्दतीस्तदनंतरम् ॥८२॥सावित्रीं चानुवचनं ततो वै गानमारभेत ॥ प्रसार्य चांगुलीः सर्वा रोपयेत्स्वरमंडलम् ॥८३॥न चांगुलीभिरंगुष्ठमंगुष्ठेनांगुलीः स्पृशेत ॥ विरला नांगुलीः कुर्यान्मूले चैतां न संस्पृशेत ॥८४॥अंगुष्ठाग्रेण ता नित्यं मध्यमे पर्वणि स्पृशेत ॥ मात्रद्विमात्रवृद्धानां विभागार्थे विभागवित् ॥८५॥अंगुलीभिर्द्विमात्रं तु पाणेः सव्यस्य दर्शयेत् ॥ त्रिरेखा यस्य द्दश्येत सिद्धिं तत्र विनिदिंशेत् ॥८६॥स पर्व इति विज्ञेयः शेषमंतरमंतरम् ॥ पर्वांतरं सामसु च ऋक्षु कुर्यात्तिलांतरम् ॥८७॥स्वरान्मध्यमपर्वसु सुनिविष्टं निवेशयेत् ॥ न चात्र कंपयेत्किंचिदंगस्यावयवं बुधः ॥८८॥अधस्तनं मृदं न्यस्य हस्तमात्रे यथाक्रमम् ॥ अभ्रमध्ये यथा विद्युद्दश्यते मणिसूत्रवत् ॥८९॥पृषच्छेदविवृत्तीनां यथा बालेषु कर्तरी ॥ कूर्मोऽगानि च संत्द्दत्य चेतोदृष्टिं दिशन्मनः ॥९०॥स्वस्थः प्रशांतो निर्भीको वर्णानुच्चारयेदुधः ॥ नासिकायास्तु पूर्वेण हस्तं गोकर्णवद्धरेत् ॥९१॥निवेश्य दृष्टिं हस्ताग्रे शास्त्रार्थमनुचिंतयेत् ॥ सम्यक्प्रचारयेद्वाक्यं हस्तेन च मुखेन च ॥९२॥यथैवोच्चारयेद्वर्णांस्तथैवैनां समापयेत् ॥ नात्याहन्यान्न निर्हण्यान्न प्रगायेन्न कंपयेत् ॥९३॥समं सामानि गायेत व्योग्नि स्वेन गतिर्यथा ॥ यथा सुचरतां मार्गो मीनानां नोपलभ्यते ॥९४॥आकाशे वा विहंगाना तद्वत्स्वरगता श्रुतिः ॥ यथा दधिनि सर्पिः स्यात्काष्टस्थो वा यथाऽनलः ॥९५॥प्रयत्नेनोपलभ्येत तद्वत्स्वरगता श्रुतिः ॥ स्वरात्स्वरस्य संक्रामं स्वरसंधिमनुल्बणम् ॥९६॥अविच्छिन्नं समं कुर्यात्सूक्ष्मच्छायातपोपमम् ॥ अनागतमतिक्रांतं विच्छिन्नं विषमाहतम् ॥९७॥तन्वंतमस्थितांतं च वर्जयेत्कर्षणं बुधः॥ स्वरः स्थानाच्चुतो यस्तु स्वं स्थानमतिवर्तते ॥९८॥विस्वरं सामगा बूयुर्विरक्तमिति वीणिनः ॥ अभ्यासार्थेद्रुतां वृत्तिं प्रयोगार्थे तु मध्यमाम् ॥९९॥शिष्याणामुपदेशार्थं कुर्यादूवृत्तिं विलंबिताम् ॥ गृहीतग्रथं एवं तु ग्रंथोच्चारणशैक्षकान् ॥१००॥हस्ते नाध्यापयोच्छिष्यान् शैक्षेण विधिना द्विजः ॥ क्रुष्टस्य मूर्द्धनि स्थानं ललाटे प्रथमस्य तु ॥१०१॥भ्रुवोर्मध्य द्वितीयस्य तृतीयस्य तु कर्णयोः ॥ कंठस्थानं चतुर्थस्य मंद्रस्य रसनोच्यते ॥१०२॥अतिस्वरस्य नीचस्य नीचस्य ह्रदि स्थानं विधीयते ॥ अंगुष्ठस्योत्तमे व्रुष्टो ह्यंगुष्ठं प्रथमः स्वरः ॥१०३॥प्रदेशिन्यां तु गांधार ऋषभस्तदनंतरम् ॥ अनामिकायां पङ्जस्तु कनिष्ठायां तु धैवतः ॥१०४॥तस्याधस्ताच्च योन्यास्तु निषादं तत्र निर्दिशेत ॥ अपर्वत्वादमध्यत्वा दव्ययत्वाच्च नित्यशः ॥१०५॥मंद्रो हि मंदीभूतस्तु परिवार इति स्मृतः ॥ क्रुष्टेन देवा जीवंति प्रथमेन तु मानुषाः ॥१०६॥पश्वस्तु द्वितीयेन गंधर्वाप्सरसत्वनु ॥ अंधजाः पितरश्वैव चतुर्थस्वरजीविनः ॥१०७॥मंद्रत्वेनोपजीवंति पिशाचासुरराक्षसाः ॥ अतिस्वरेण नीचेन जगत्स्थावरजंगमाः ॥१०८॥सर्वाणि खलु भूतानि धार्यंते सामिकैः स्वरैः ॥ दीप्तायताकरुणानां मृदुमध्यमयोस्तथा ॥१०९॥श्रुढीनां यो विशेषज्ञो न स आचार्य उच्यते ॥ दीप्ता मंद्रे द्वितीय च प्रचतुर्थे तथैव च ॥११०॥अतिस्वरे तृतीये च क्रुष्टे तु करुणा श्रुतिः ॥ श्रुतयो या द्वितीयस्य मृदुमध्यायताः स्मृताः ॥१११॥तासामपि तु वक्ष्यामि लक्षणानि पृथक् पृथक् ॥ आयतात्वं भवेन्नीच मृदुता तु विपर्यये ॥११२॥स्वे स्वरे मध्यमात्वं तु तत्समीक्ष्य प्रयोजयेत् ॥ द्वितीये विरत या तु क्रुष्टुश्व परतो भवेत् ॥११३॥दीप्तां तां तु विजानीयात्प्राथम्येन मृदुः स्मृतः ॥ अत्रैव विरता या तु चतुर्थेन प्रवर्तते ॥११४॥तथा मंद्रे भवेद्दीप्ता साम्नश्चैव समापने ॥ नातितारश्रुतिं कुर्यात्स्वरयोर्नापि चांतरे ॥११५॥तं च ह्रस्वे च दीर्घे च न चापि घुटिसज्ञके ॥ द्विविधा गतिः पदांस्थितसंधिः सहोष्मभिः ॥११६॥स्थानेषु पंचस्वेतेषु विज्ञेय घुटिसंज्ञकम् ॥ स्वरांतराविरतानि ह्रस्व दीर्घघुटानि च ॥११७॥स्थितिस्थानेष्वशेषाणि श्रुतिवत्स्वरतो वदेत् ॥ दीप्तामुदात्ते जानीयाद्देप्तां च स्वरिते विदुः ॥११८॥अनुदात्ते मृदुर्ज्ञेया गंधर्वाः श्रुतिसंपदे ॥ उदात्तश्वानुदात्तश्च स्वरितप्रचिते तथा ॥११९॥निघातश्वेति विज्ञेयः स्वरहेदश्व पंचधा ॥ अत ऊर्ध्वं प्रवक्ष्यामि आचि कस्य स्वरत्रयम् ॥१२०॥उदात्तश्वानुदात्तश्व तृतीयः स्वरितः स्वरः ॥ य एवोदात्त इत्युक्तः स एव स्वरितात्परः ॥१२१॥प्रचयः प्रोच्यते तज्ज्ञैर्न चात्रान्यत्स्वरांतरम् ॥ वर्णस्वरोऽतीतस्वरः स्वरितो द्विविधः स्मृतः ॥१२२॥मात्रिको वर्ण एवं तु दीर्घस्तूच्चरितादनु ॥ स तु सप्तविधो ज्ञेयः स्वरः प्रत्य यदर्शनात् ॥१२३॥पदेन तु स विज्ञेयो भवेद्यो यत्र यादृशः ॥ सप्तस्वरान्प्रंयुजीत दक्षिणं श्रवणं प्रति ॥१२४॥आचार्यैर्विहितं शास्त्रं पुत्रशिष्य हितैषिभिः उच्चादुच्चतरं नास्ति नीचान्नीचतरं तथा ॥१२५॥वैस्वर्यस्वारसंज्ञायां किंस्थानः स्वार उच्यते ॥ उच्चनीचस्य यन्मध्ये साधारणमिति श्रुतिः ॥१२६॥तं स्वारं स्वारंसंज्ञायां प्रतिजानंति शैक्षिकाः ॥ उदात्ते निषादगांधारावनुदात्ते ऋषभधैवतो ॥१२७॥स्वरितप्रभवा ह्येते षडूजमध्यमपंचमाः ॥ यत्र कखपरा ऊष्मा जिह्यामूलप्रयोजनाः ॥१२८॥तानप्याज्ञान्मात्राप्रकृत्यैव तु सा जात्यः क्षैप्रोऽभिनिहित स्वैरव्यजनं एव च ॥१२९॥तिरोविरामः प्रश्लिष्टोऽपादवृत्तश्व सप्तमः ॥ स्वराणामहमेतेषां पृथग्वक्ष्यामि लक्षणम् ॥१३०॥उद्दिष्टानां तथा न्यायमुदाहणमव च ॥ सपकारं सवं वापि ह्यक्षरं स्वरितं भवेत् ॥१३१॥न चोदात्तं पुरो यस्य जात्यः स्वारः स उच्यते ॥ इउवर्णो यदोदात्तावापद्येते पवौ क्कचित् ॥१३२॥अनुदात्तं प्रत्यये तु विद्यात्क्षैप्रस्यलक्षणम् ॥ एओआभ्यामुदात्ताभ्यामकारो निहितश्व यः ॥१३३॥अकारो यत्र लुंपति तमभिनिहितं विदुः ॥ उदात्तपूर्वे यत्किंचिच्छदसि स्वरितं भवेत् ॥१३४॥एष सर्वबहुस्वारस्तैरव्यंजन उच्यते ॥ अवग्रहात्परं यत्र स्वरितं स्यादनंतरम् ॥१३५॥तिरोविरामं तं विद्यादुदात्तो यद्यवग्रहः ॥ इकारं यत्र पश्येयुरिकारेणैव संयुतम् ॥१३६॥उदात्तमनुदात्तेन प्रश्लिष्टं तं विचारय ॥ स्वर चेत्स्वरितं यत्र विवृता यत्र संहिता ॥१३७॥एतत्पदांतवृत्तस्य लक्षणं शास्त्रनोदितम् ॥ तान्यः स्वारः स जात्येन श्रुत्यग्रे क्षैप्र उच्यते ॥१३८॥ते मन्वताभिनिहितस्तैरव्यञ्जन ऊतये ॥ तिरोविरामो विष्कषिते प्रश्लिष्टो हीईगोवर्णः ॥१३९॥पादवृत्तः कंदविदे स्वराः सप्तैवमादयः ॥ उच्चादेकाक्षरात्पूर्वात्स्वरं यद्यदिहाक्षरम् ॥१४०॥स्वाराणां जात्यवर्जानामेषा प्रकृतिरुच्यते ॥ चत्वारस्त्वादितः स्वाराह कंषंपुंश्फुतिशास्त्रतः ॥१४१॥उदात्ते चैकनीचे वा जुह्रोऽन्गिस्तन्निदर्शनम् ॥ इकारांते पदे पूर्व उकारे परतः स्थिते ॥१४२॥ह्रस्व्म कंपं विजानीयान्मेधावी नात्र संशयः ॥ इकारांते पद चैवोकारद्वयं परे पदे ॥१४३॥दीर्घं कंपं विजा नीयाच्छाग्धूष्विति निदर्शनम् ॥ त्रयो दीर्घास्तु विज्ञेया ये च संध्यक्षरेषु वै ॥१४४॥मन्या यथा न इंद्राभ्यां शेषा ह्रस्वाः प्रकीर्तिताः ॥ अनेकाना मुदात्तानामनुदात्तः प्रत्ययो यदि ॥१४५॥शिवकंप विजानीयादु दात्तः प्रत्ययो यदि ॥ यत्र द्विप्रभृतीनि स्युरुदात्तान्यक्षराणि तु ॥१४६॥नीचं वोच्चं च वोच्चं च परतस्तत्रोदात्तं विधुर्बुधाः ॥ न रेफं वा हकारे वा द्विर्भावो जायते क्कचित् ॥१४७॥न च वर्गद्वितीयेषु न चतुर्थे कदाचन ॥ चतुर्थं तु तृतीयने द्वितीयः प्रथमेथ तु ॥१४८॥आद्यमंत्यं च मध्यं च स्वाराक्षरेण पीडयेत ॥ अनंत्यश्व भवेत्पूर्वी ह्यंतश्व परतो यदि ॥१४९॥तत्र मध्ये यमस्तिष्टित्स्ववर्णः पूर्ववणयोः ॥ वर्गांत्यान् शषसैः सार्द्धमंतस्थैवापि संयुतान् ॥१५०॥दृष्ट्रा यमा निवर्तंते अदेशिकमिवाध्वगाः ॥ तृतीयश्व चतुथर्श्व चतुर्थादिपरं पदम् ॥१५१॥द्वौ तृतीयौ हकारश्व हकारादिपरं पदम् ॥ अनुस्वारोपधामूला तान् क्कचित्क्रमतः परम् ॥१५२॥रहपूर्व संयुते चाप्युत्तरं क्रमतेऽक्षरम् ॥ संयोगो यत्र दृश्येत व्यंजंज विरते पदे ॥१५३॥पूर्वांगमादितः कृत्वा परांगादो निवेशयत् ॥ संयोग स्वरितं यत्र उद्वातः प्रतनं तथा ॥१५४॥पूर्वांग तद्विजानीयाद्येनारंभः परं हि तत् ॥ संयोगात्तु विजानीयात्परं संयोगनायकम् ॥१५५॥संयुक्तस्य तु वर्णस्य तत्परं पूर्वमक्षरम् ॥ अनुस्वारः पदांतश्व क्रमजं प्रत्यये स्वके ॥१५६॥स्वरभक्तिस्तथा रेफः पूर्वपूर्वांगमुच्यते ॥ पादादौ चापादादौ सयोगावग्रहेषु च ॥१५७॥यशब्द इति विज्ञेयो योऽन्यः सयइति स्मृतः ॥ पादादावप्यविच्छेदे संयोगान्ते च तिष्ठताम् ॥१५८॥वर्जयित्वा रहपाणामुपादेशः प्रदृश्यते ॥ स्वसंयुक्तो गुरुर्ज्ञेयः सानुस्वाराग्निमः स्फुटः॥ अणुशेषी ह्रिगो युगलादिरविस्फुतः ॥१५९॥यदुदात्तमुदात्तं तद्यत्स्वरितं तत्पदे भवति ॥ यन्नी चं नीचमेव तद्यत्प्रचयस्थं तदपिनीचम् ॥१६०॥अग्निः सुतो मित्रमिदं तथा वयमयावहाः ॥ प्रियं घृतं चित्तमतिशब्दस्तु नीचतः ॥१६१॥अक्केष्वेव सुतेष्ववे यज्ञेषु कलशेषु च ॥ शतेषु सपवित्रेषु नीचादुच्चार्यते श्रुतिः ॥१६२॥हारिवरुणवरेण्येषु धारापुरुषेषु स्वरतिरेफः ॥ विश्वानरोनकाश्व शेषास्तुस्वरिता नराः ॥१६३॥द्वौ वरुणौ वस्वरत उदुत्तमंत्वं वरुणधार चौरुधारामुरुधारेस्वदोहते ॥ मात्रिकं वा द्विमात्रं वा स्वर्यते यदिहाक्षरम् ॥ तस्यादितोऽर्द्धमात्रं वै शेषं तु परतो भवेत् ॥ अदीर्घं दीर्घवत्कुर्याद्दिस्वरं यत्प्रयुज्यते ॥१६४॥कंपोत्स्वरिताभिगीतं ह्रस्वकर्षणमेव च ॥ निमेषकोला मात्रा स्याद्विद्युत्कालेति चापरे ॥१६५॥ऋक्स्वरा तुल्ययोगा वा कैश्विदेवमुदीर्यते ॥॥१६६॥समासेऽवग्रहं कुर्यात्पदं चात्रानुसंहितम् ॥ येतीक्षरादिकरणं पदांतस्येति तं विदुः ॥१६७॥(सर्वत्र मित्रपुत्रसखिशब्दा अहिशतक्रतोखग्राह्याः ॥ आदित्यविप्रजातवेधाश्व सत्पतिगोपतिवृत्रहासमुद्राश्व ॥ स्वरयुपुवोदेवयवश्वारितं देवतातपे) चिकितिश्व धचैव नावगृह्रंति पंडिताः ॥ विवृतयश्वतस्त्रो वै विज्ञेया इति मे मतम् ॥१६८॥अक्षराणां नियोगेन तासां नामानि मे श्रृणु ॥ ह्रस्वादिवत्सानुसृता वत्सानुसारिणी चाग्रे ॥१६९॥पाकवत्युभयोर्ह्रस्वा दीर्घा वृद्धा पिपीलिकाः ॥ चतसृणां विवृतीना मंतंर मात्रिक्म भवेत् ॥१७०॥अर्द्धमात्रिकमन्येषामन्येषामणुमात्रिकम् ॥१७१॥आपद्यते मकारो रेफोष्मसु प्रत्ययेऽप्यनुस्वारम् ॥ पवेषु परसवर्णं स्पर्शेषु चोत्तमापतिम् ॥१७२॥नकारांते पदे पूर्वे स्वरे च परतः स्थिते ॥ अकारं रक्तमित्याहुस्तकारेण तु रज्यते ॥१७३॥नकारांते पदे पूर्वे व्यंजनैश्व यवोहिषु ॥ अर्द्धमात्रा तु पूर्वस्य रज्यते त्वणुमात्रया ॥१७४॥नकारस्वरसंयुक्तश्वतुर्युक्तो विधीयते ॥ रेफो रंगश्व लोपश्व सानुस्वारोऽपि वा क्कचित् ॥१७५॥ह्रदयादुत्तिष्ठते रंगः कांस्येन तु समन्वितः॥ मृदुश्वैव द्विमात्रश्व दधन्वंइति निदर्शनम् ॥१७६॥यथा सौराष्ट्रिका नारी अरां इत्यभिभाषते ॥ एवं रंगः प्रयोक्तव्यो नारदैतन्मतं मम ॥१७७॥स्वरा गडदबाश्वैव ङ्णनमाः सहोष्मभिः ॥ चतुर्णां पदजातीनं पदांता दश कीर्तिताः ॥१७८॥स्वर उच्चः स्वरो नीचः स्वरः स्वरित एव च ॥ व्यंजना न तु वर्तन्ते यत्र तिष्ठति स स्वरः ॥१७९॥स्वरप्रधानंअ त्रिअस्वर्यमाचार्याः प्रतिजानते ॥ मणिवद्वयंजनं विद्यात्सूत्र वच्च स्वरे विदुः ॥१८०॥दुर्बलस्य यथा राष्ट्रं हरते बलवान्नृपः ॥ दुर्बलं व्यजनं तद्वद्धरेत बलवान्स्वरः ॥१८१॥उभावश्व विवृत्तिश्व शषसा रेफ एव च ॥ जिह्रामूलमुपध्मा च गतिरष्टविधोष्मणः ॥१८२॥स्वरप्रत्ययाविवृतिः संहितायां तु या भवेत् ॥ विसर्गस्तत्र मंतव्यस्तालव्यश्वात्र जायते ॥१८३॥संध्यक्षरे परे संधौ प्राप्तलुप्तौ यवौ यदि ॥ व्यञ्जनाख्या विवृत्तिस्तु स्वराख्या प्रतिसंहिता ॥१८४॥ऊष्मांतं विरते यत्र संभावो भवति क्कचित् ॥ विवृत्तिर्यां भवेत्तत्र स्वराख्यां तां विनिर्द्दिशेत् ॥१८५॥यद्योभावप्रसंधानमृकारादिपरं पदम् ॥ स्वरांतं तादृशं विद्याद्यदन्यद्य्वक्त मूष्मणः ॥१८६॥प्रथमा उत्तमाश्वैव पदांतेषु यदि स्थिताः ॥ द्वितीयं स्थानमापन्नाः शषसप्रत्यया यदि ॥१८७॥प्रथमानूष्मसंयुक्तान द्वितीया निव दर्शयेत् ॥ न चैतन्प्रतिजानीयाद्यथा मत्स्यः क्षुरोप्सराः ॥१८८॥छंदोमानं च वृत्तं च पादस्थानं त्रिकारणम् ॥ ऋचः स्वच्छंदवृत्तास्तु पादास्त्वक्षरमानतः ॥१८९॥ऋग्वर्य्यान् स्वरभक्तिं च छन्दोमानेन निर्द्दिशेत् ॥ प्रत्ययेत सहारेफ्गमिमीते स्वरभक्तया ॥१९०॥ऋवर्णे तु पृथग्रेफः प्रत्ययस्तु वृथा भवेत् ॥ विद्याल्लघुमृकारं तु यदि तूष्माणसंयुतः ॥१९१॥ऊष्मणैव हि संयुक्त ऋकारो यत्र पीड्यते ॥ गुरुवर्णः स विज्ञेयस्तृचं चात्र निदर्शनम् ॥१९२॥ऋषभं च गृहीतं च बृहस्पतिं पृथिव्यां च ॥ निऋतिपंचमा ह्यत्र ऋकारा नात्र संशयः ॥१९३॥शषसह रादौ रेफः स्वरभक्तिर्जायते द्विपदसंधौ ॥ इउवर्णाभ्यां हीना क्कचिदेकापदाक्रमवियुक्ता ॥१९४॥स्वरभक्तिर्द्विधा प्रोक्ता ऋकारे रेफ एव च ॥ स्वरोदा व्यञ्जनोदा च विहिताक्षर चिंतकैः ॥१९५॥शषसेषु स्वरोदयां हकारे व्यञ्जनोदयाम् ॥ शषसेषु विवृतां तु हकारे संवृतां विदुः ॥१९६॥स्वरभक्तिं प्रयुंजानस्त्रीन्दोषान्परिवर्जयेत् ॥ इकारं चाप्युकारं ग्रस्तदोषं तथैव च ॥१९७॥संयोगपर छपरं विसर्जनीयं द्विमात्रकं चैवा ॥ अथ सान्तिक च नङ्मसानुस्वारं घुटंत ॥१९८॥यस्याः पादः प्रथमो द्वादशमात्रस्तथा तृतीयोऽपि ॥ अष्टादशो द्वितीयः समापन्नः पञ्चदशमात्रः ॥ यस्या लक्षणमुक्त या त्वन्या सा स्मृता विपुला ॥१९९॥अक्षराणां लघुह्रस्वमसंयोगपरं यदि ॥ तत्ससंयोगोत्तरं विद्यादुरुदीर्घाक्षराणि तु ॥२००॥विवृत्तिर्यत्र दृश्येत स्वारस्यैवाग्रतः स्थितः ॥२०१॥गुरुस्वारः सविज्ञेयः क्षैप्रस्तत्र न विद्यते ॥ अष्टप्रकारं विज्ञेयं पदानां स्वरलक्षणम् ॥२०२॥अतोदात्तमाद्युदात्तमुदात्तमनुदातं नीचस्वरितम् ॥ मध्योदात्तं द्विरुदात्तमित्येता अष्टौ पदसंज्ञा ॥२०३॥अग्निः सोमः प्रवो वीर्यं हविषा स्वर्वनस्पतिः ॥ अंतर्मध्यमयोताम्युदमनुनिपात्य आद्यात्स्वरितमुपसर्गे द्विन्नीचमाख्यात इति स्वरितत्पराणि यानि स्युर्द्धारापक्षराणि तु ॥ सर्वाणि प्रचयास्थान्यु पोदात्तं निहन्यते ॥२०४॥प्रचयो यत्र दृश्येत तत्र हन्यात्स्वरं बुधः ॥ स्वरितः केवलो यत्र मृदुस्तत्र निपातर्यत् ॥२०५॥पंचविधमाचार्यकं नाम सुखं न्यासः करणं प्रतिज्ञोच्चारणा ॥ अत्रोच्यते श्रेयः खलु वैश्याः प्रतिज्ञातोच्चारना यस्य कस्यचिद्वर्णस्य करणं नोपलभ्यते प्रतिज्ञा तत्र वोढव्याकरणं हि तदात्मकम् ॥२०६॥तुंबुरुभवाद्विशिष्टविश्वावस्वादयश्व गंधर्वाः ॥ सामसु निभृतं करणं स्वरसौक्ष्म्यान्नैव जानीयुः ॥२०७॥कौक्षेयाग्निं सदा रक्षेदश्रीपादर्शनं हेतुम् ॥ जीर्णो हारः प्रबुद्धः खलूषसिन्ब्रह्म चिंतयेत् ॥२०८॥शरद्विषुवतोतीतादुषस्युत्थानमिष्यते ॥यादद्वांसतिकी रात्रिर्मध्यमा पर्युपस्थिता ॥२०९॥आम्रपालाशबिल्वानामपामार्गशिरीषयोः ॥ वाग्यतः प्रातरुत्थाय भक्षयेद्द्तधावनम् ॥२१०॥खादिश्व कदम्बश्व करवीरकरंजयोः ॥ सर्वे कंटकिनः पुण्याः क्षीरिणश्व यशस्विनः ॥२११॥तेनास्य करणे सौक्ष्म्य़ं माधुर्यं चोप जायते ॥ वर्णांश्व कुरुते सम्यक्प्राचीनौदवथिर्यथा ॥२१२॥त्रिफलां लवणाख्येन भक्षयेच्छिष्यकः सदा ॥ अग्निमेधाजन्येषा स्वरवर्णकरी तथा ॥२१३॥कृत्वा चाअश्यकान्धर्माञ्जाठरं पर्युपास्य च ॥ पीत्वा मधुं घृंत चैव शुचिर्भूत्वा ततो वदेत् ॥२१४॥मंद्रेणोपक्रमेत्पूर्वं सर्वशा खास्वयं विधिः ॥ सप्तमंत्रानतिक्रम्य यथेष्टां वाचमुत्सृजेत् ॥२१५॥न तां समीरयेद्वाचं न प्राणमुपरोधयेत ॥ प्राणानामुपरोधेन वैस्वर्यं चोपजायते ॥ स्वरव्यंजनाधुर्यं लुप्यतें नात्र संशयः ॥२१६॥कृतीर्थादागतं दग्धमवणैश्व भक्षितम् ॥२१७॥न तस्य परिमोक्षोऽस्ति पापाहेखि किल्बिषात् ॥२१७॥सुतीर्थादागतं जग्धुं स्वाम्नांत सप्रतिष्टितम् ॥ सुस्वरेण स्ववक्रेण प्रयुक्तं ब्रह्म राजति ॥२१८॥न कारालो न लंबोष्ठो न च सर्वानुनासिकः ॥२१८॥गद्नदो बद्धजिह्रश्व प्रयोगान्वक्तुमर्हति ॥२१९॥एकचित्तो निरुद्धांतः स्त्रातो गानविवज्जितः ॥ स तु वर्णान्प्रयुंजीत दंतोष्ठं यस्य शोभनम् ॥२२०॥पञ्च विद्यां न गृह्यंति चंडा स्तब्धाश्व ये नराः ॥ अलसाश्व सरोगाश्व येषां च विसृतं मनः ॥२२१॥शनैर्विद्यां शनैरर्थानारोहेत्पर्वतं शनैः ॥ शनैरध्वसु वर्तेत योजनान्न परं ब्रजेत ॥२२२॥योजनानां सहस्त्रं तु शनैर्याति पिपीलिका ॥ अगच्छन्वैनतेयोऽपि पदमेकं न गच्छति ॥२२३॥नहि पापहता वानी प्रयोगान्वक्तुमर्हति ॥ बधिरस्येव जल्पस्य विदग्धा वामलोचना ॥२२४॥उपांशुचरितं चैव योऽधीते वित्रसन्निव ॥ अपि रुपसहस्त्रेषु संदेहेष्वेव वर्तते ॥२२५॥पुस्तकप्रत्ययाधीतं नाधीतं गुरुसन्निधौ ॥ राजते न सभामध्ये जारगर्भैव कामिनी ॥२२६॥अञ्जनस्य क्षयं दृष्ट्रा वल्मीकस्य तु संचयम् ॥ अंवध्यं दिवसं कुर्याद्दानाध्ययनकर्मसु ॥२२७॥यत्कीटैः पांशुभिः श्लक्ष्णैर्वल्मीकः क्रियते महान् ॥ न तत्र बलसामर्थ्य मुद्योगस्तत्र कारणम् ॥२२८॥सहस्त्रगुणिता विद्या शतशः परिकीर्तिता ॥ आगमिष्यति जिह्यग्रे स्थलान्निमिवोदकम् ॥२२९॥हयानामिव जात्यानामर्द्ध रात्रर्द्धशायिनाम् ॥ नहि विद्यार्थिनां निद्रा चिरं नेत्रेषु तिष्ठति ॥२३०॥न भोजनविलंबी स्यान्न च नारीनिवधनः ॥ समुद्रमपि विद्यार्थी वज्रेद्द्धरुडंहंसवत् ॥२३१॥अहिरिव गणाद्धीतः साहित्यान्नकादिव ॥ राक्षसीभ्य एव स्त्रीभ्यः स विद्यामधिगच्छति ॥२३२॥न शठाः प्राप्नुवन्त्यर्थान्न क्लीबा न च मानिनः ॥ न लोकरवा दीना न च स्वस्वप्रतीक्षकाः ॥२३३॥यथा खनन्खनित्रेण भूतलं वारि विंदति ॥ एवं गुरुगतां विद्यां शुश्रूषुरधिगच्छाति ॥२३४॥गुरुशुश्रूषया विद्या पुष्कलेन धनेन वा ॥ अथवा विद्यया विद्या ह्यन्यथा नोपपद्यते ॥२३५॥शुश्रूषारहिता विद्या यद्यपि मेधागुणैः समुपयाति ॥ वन्ध्येव यौवनवती न तस्य साफल्यवति भवति ॥२३६॥इति दिङ्मात्रमुद्दिष्टं शिक्षाग्रंथं मया तव ॥ ज्ञात्वा वेदां गमांद्य तु ब्रह्मभूयाय कल्पते ॥२३७॥इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे पञ्चाशत्तमोऽध्यायः ॥५०॥ N/A References : N/A Last Updated : June 05, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP