संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः| अष्टचत्वारिंशोऽध्यायः श्री नारदीयमहापुराणम् : पूर्वभागः प्रथमोऽध्यायः द्वितीयोध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पंचविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पंचत्रिशोंऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशत्तमोऽध्यायः पश्वचत्वारिशत्तमोऽध्यायः षट्रचत्वारिंशत्तमोऽध्यायः सप्तचत्वारिंशत्तमोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोध्यायः पञ्चाशत्तमोऽध्यायः एकपंचाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुःपञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषाष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुष्षष्टितमोऽध्यायः पञ्चषष्टिमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षटसप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्याय एकोनाशीतितमोऽध्यायः नामाशीतितमोऽध्यायः नामैकाशीतितमोऽध्यायः व्द्यशीतितमोऽध्यायः त्र्यशीतितमोऽधायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः नामाष्टाशीतितमोऽध्यायः नामैकोननवतितमोऽध्यायः नवतितमोऽध्यायः नामैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः नामाष्टनतितमोऽध्यायः नामैकोनशततमोऽध्यायः शततमोऽध्यायः नामैकोत्तरशततमोऽध्यायः द्वयुत्तरशततमोऽध्यायः त्र्युत्तरशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडुत्तशततमोऽध्यायः सप्तोत्तशततमोऽध्यायः नामाष्टोत्तरशततमोऽध्यायः नवोतरशततमोऽध्यायः दशोत्तरशततमोऽध्यायः नामैकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाघिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशदधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशतमोऽध्यायः पंचविंशोत्तरशततमोऽध्यायः श्री नारदीयमहापुराणम् - अष्टचत्वारिंशोऽध्यायः `नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है। Tags : naradnaradapuranpuranनारदनारदपुराणपुराण अष्टचत्वारिंशोऽध्यायः Translation - भाषांतर नारद उवाच ॥श्रुतं मया महामाग तापत्रयचिकित्सितम् ॥ तथापि मे मनो भ्रांतं न स्थिंतिं लभतेंऽजसा ॥१॥आत्मव्यतिक्रमं ब्रह्मन्दुर्जनाचरितं कथम् ॥ सोढुं शक्येत मनुजैस्तन्ममाख्याहि मानद ॥२॥सूत उवाच ॥तच्छुत्वा नारदेनोक्तं सनंदन ॥ उवाच हर्षसंयुक्त स्मरन्भरतचेष्टितम् ॥३॥सनंदन उवाच ॥अन्न ते कथयिष्यामि इतिहासं पुरात नम् ॥ यं श्रृत्वा त्वन्मनो भ्रांतमास्थानं लभते भृशम् ॥४॥आसीत्पुरा मुनिश्रेष्ठ भरतो नाम भूपतिः ॥ आर्षभो यस्य नाम्नेदं भारतं खण्डमुच्यते ॥५॥स राजा प्राप्तराज्यस्तु पितृपैतामहं क्रमात् ॥ पालयामास धर्मेण पितृवद्रंजयन् प्रजाह ॥६॥इजे विविधैर्यज्ञैर्भगवंतमधोक्षजम् ॥ सर्वदेवात्मकं ध्यायव्रानाकर्मसु तन्मतिः ॥७॥ततः समुत्पाद्य सुतान्विरक्तो विषयेषु सः ॥ मुक्ता राज्यं ययौ विद्वान्पुलस्त्यपुलहाश्रमम् ॥८॥शालग्रामं महाक्षेत्रं मुमुक्षुजनसेवितम् ॥ तत्रासौ तापसो भूत्वा विष्णोराराधनं मुने ॥९॥चकार भक्तिभावेन यथालब्धसपर्यया ॥ नित्यं प्रातः समाप्लुत्य निर्मर्लेऽभसि नारद ॥१०॥उपतिष्ठेद्रविं भक्तया गृणन्ब्रह्माक्षरं परम् ॥ अथाश्रमे समागत्य वासुदेवं जगत्पतिम् ॥११॥समाह्रतैः स्वयं द्रव्यैः समित्कुशमृदादिभिः ॥ फलैः पुष्पैस्तथा पत्रैस्तुलस्याः स्वच्छवारीभिः ॥१२॥पूजयन्प्रयतो भूत्वा प्रसरसंप्लुतः सचैकदा महाभागः स्त्रात्वा प्रातः समाहितः ॥१३॥चक्रनद्यां जपंस्तस्थौ मुहूर्तत्रमंबुनि ॥ अथाजगाम तत्तीरं जलं पातुं पिपासिता ॥१४॥आसन्नप्रसवा ब्रह्मन्नैकैव हरिणी वनात् ॥ ततः समभवत्तत्र पीतप्राये जले तया ॥१५॥सिंहस्य नादः सुमहाम् सर्वप्राणिभयंकरः ॥ ततः सा सिंहसन्नादादुत्लुता निम्रगातटम ॥१६॥अत्युच्चारोहणेनास्या नद्यां गर्भः पपात ह ॥ तमुह्यमानं वेगेन वीचिमालापरिप्लुतम् ॥१७॥जग्राह भरतो गर्भात्पतितं मृतपोतकम् ॥ गर्भप्रच्युतिदुःखेन प्रोत्तुंगाक्रणेनचा ॥१८॥मुनीन्द्र सा तु हरिणी निपपात ममार च ॥ हरिणीं तां विलोक्याथ विपन्नां नृपतापसः ॥१९॥मृगपोतं समा गुह्य स्वमाश्रममुपागतः ॥ चकारानुदिनं चासौ मृगपोतस्य वै नृपः ॥२०॥पीषणं पुष्यमाण्श्व स तेन ववृधे मुने ॥ चचाराश्रमपर्यंतं तृणानि गहनेषु सः ॥२१॥दूरं गत्वा च शार्दूलत्रासादभ्याययौ पुनः ॥ प्रातर्गत्वातिदूरं च सायामायात्यथाश्रमम् ॥२२॥पुनश्व भरतस्याभूदाश्रमस्यो टजांतरे ॥ तस्यस्मिन्मृगे दूरसमीपपरिवर्तीनि ॥२३॥आसीच्चेतः सभासक्तं न तथा ह्यच्युते मुने ॥ विमुक्तराज्यतनयः प्रोज्झिताशेषबांधवः ॥२४॥ममत्व स चकारोच्चैस्तस्मिन्हरिणपोतके ॥ किं वृकैभक्षितो ग्याधैः किं सिंहेन निपातिसः ॥२५॥चिरायमाणे निष्कांते तस्यासीदिति मानसम् ॥ प्रीतिप्रसन्नवदनः पार्श्वस्थे चाभवन्मृगे ॥२६॥समाधिभंगस्तगासीन्ममत्वाकृष्टमानसः ॥ कालेन गच्छता सोऽभ कालं चक्रे महीपतिः॥२७॥पितेव सास्त्रं पुत्रेण मृगपातेन वीक्षितः ॥ मृगमेघ तदाद्राक्षीत्यजाप्राणानसावपि ॥२८॥मृगो बभूव न मुने तादृशीं भावनां गतः ॥ जाति स्मरत्वादुद्विग्रः संसारस्य द्विजोत्तम ॥२९॥विहाय मातरं भूयः शालग्राममुपाययी ॥ शुष्कैस्तृणैस्तथा पर्णैः स कुर्वन्नान्मपोषणम् ॥३०॥मृग त्वहेतुभूतस्य कर्मणो निष्कृति यर्यौ ॥ तत्र चोत्सृष्टदेहोऽसौ जज्ञे जातिस्मरो द्विजः ॥३१॥सदाचारवतां शुद्धे योगिनां प्रभरे कुले ॥ सर्वविज्ञान संपन्नः सर्वशास्त्रार्थतत्त्ववित् ॥३२॥अपश्यत्स मुनिश्रेष्ठ स्वात्मनं प्रकृतेः परम् ॥ आत्मनोधिगज्ञानद्देवादीनि महामुने ॥३३॥सर्वभूतान्यभे देन ददर्श स महामतिः ॥ न पपाठ गुरुप्रोक्तं कृतोपनयनः श्रुतम् ॥३४॥न ददर्श च कर्मणि शस्त्राणि जगृहे न च ॥ उक्तोऽपि बहुशः किंचिज्जंड वाक्यमभाषत ॥३५॥तदप्यसंस्कारगुणं ग्रामभाषोक्तिसंयुतम् ॥ अपद्धस्तवपुः सोऽपि मलिनांबर धृङ् मुने ॥३६॥क्लिन्नदंतांतरः सर्वेः परिभूतः स नागरैः ॥ संमानेन परां हानिं योगर्द्धे कुरुते यतः ॥३७॥जनेनावमतो योगी योगसिद्धिं च विंदति ॥ तस्माच्चरेत् वै योगी सतां धर्मदूषयन् ॥३८॥जना यथावमन्यर्युगच्छेयुर्नैव संगतिम् ॥ हिरण्यर्भवचनं विचिंत्येत्थं महामतिः ॥३९॥आत्मानः दर्शयामास जडोन्मत्ताकृतिं जने ॥ भुक्ते कुल्माषवटकान् शाकं त्रन्यफलं कणान् ॥४०॥यद्यदाप्नोति स बहूनत्ति वै कालसंभवम् ॥ पितर्युपरते सोऽथ भ्रातृभ्रातृव्यबांधवैः ॥४१॥कारितः क्षेत्रकर्मादि कदन्नाहारपोषितः ॥ सरुक्षपीनावयवो जडकारी च कर्मणि ॥४२॥सर्वलोकोपकरणं बभूवाहारवेतनः ॥ तं तादृशमंसस्कारं विप्राकृतिचेष्टतम् ॥४३॥क्षत्ता सौवीरराज्यस्य विष्टियोग्यममन्यत ॥ स राजा शिबिकारुढो गतुं कृतमतिर्द्विज ॥४४॥बभूवेक्षुमतीतीरे कपिलर्षेर्वराश्रमम् ॥ श्रेयः किमत्र संसारे दुःखप्राये नृणामिति ॥४५॥प्रष्टुं तं मोक्षधर्मज्ञं कपिलाख्यं महामुनिम् ॥ उवाच शिबिकामस्य क्षर्त्तुवचचोदितः ॥४६॥नृणां विष्टिगृहीतानान्येषां सोऽपि मध्यगः ॥ गृहीतो विष्टिना विप्र सर्वज्ञानैकभाजनम् ॥४७॥जातिस्मरोऽसौ पापस्य क्षयकाम उवाह ताम् ॥ ययौ जडगतिस्तत्र युगमात्रावलोकनम् ॥४८॥कुर्वन्मतिमताम श्रेष्टस्ते त्वन्ते वरितं ययुः ॥ विलोक्य नृपतिः सोऽथं विषमं शिबिकागतम् ॥४९॥किमेत दित्याह समं गम्यतां शिबिकावहाः ॥ पुनस्तथैव शिबिकं विलोक्य विषमां हसन् ॥५०॥नृपः किमेऽदित्याह भवद्धिर्गभ्यतेऽन्यथा ॥ भूपतेर्वदतस्तस्य श्रुत्वेत्थं बहुशो वचः ॥ शिबिकावाहकाः प्रोचुरयं यातीत्यसत्वरम् ॥५१॥राजोवाच ॥ किं श्रांतोऽस्यल्पमध्वानं त्वयोढा शिबिका मम ॥ किमायाससहो न त्वं पीवा नासि निरीक्ष्यसे ॥५२॥ब्राह्मण उवाच ॥नाहं पीवा न चैवोढा शिबिका भवतो मया ॥ नश्रांतोऽस्मि न चायासो वोढान्योऽस्ति महीपते ॥५३॥राजोवाच ॥ प्रत्यक्षं दृश्यते पीवा त्वद्यापि शिबिका त्वयि ॥ श्रमश्व भारो द्वहने भवत्येव हि देहिनाम् ॥५४॥ब्राह्मण उवाच ॥ प्रत्यक्षं भवता भूप यद्दष्टं मम तद्वद ॥ बलवानबलश्चेति वाच्यं पश्चद्विशेषणम् ॥५५॥त्वयोढा शिभिका चेति त्वय्यद्यापि च संस्थितो॥ मिथ्या तदप्यत्र भवान् श्रृणोतु वचनं मम ॥५६॥भूमौ पादयुगं चाथ जंघे पादद्वये स्थिते ॥ ऊरु जंघाद्वयावस्थौ तदाधारं तथोदरम् ॥५७॥वक्षस्थलं तथा बाहू स्कंधौ चोदरसंस्थितौ ॥ स्कंधाश्रितेयं शिबिका ममाधारोऽत्र किंकृतः ॥५८॥शिबिकायां स्थितं चेदं देहं त्वदुपलक्षितम् ॥ तत्र त्वमहमप्यत्रेत्युच्यते चेदमन्यथा ॥५९॥अहं त्वं च तथान्ये च भूतैह्याश्व पार्थिव ॥ गुणप्रवाहपतितो भूतवर्गोऽपि यात्ययम् ॥६०॥कर्मवश्या गुणाश्वैते सत्त्वाद्याः पृथिवीपते ॥ अविद्यासंचितं कमतिच्चाशेषषु जंतुषु ॥६१॥आत्मा शुद्धोऽक्षरः शांतो निर्गुणः प्रकृते परः ॥ प्रवृद्धयपचयौ नस्त एकस्याखिलजंतषु ॥६२॥यदा नोपचयस्तस्य नचैवापचयो नृप ॥ तदापि बालिशोऽसि त्वं कया युक्तया त्वयोरितम् ॥६३॥भूपादजंघाकट्यूरुजठरादिषु संस्थिता ॥ शिबिकेयं यदा स्कंधे भारः समस्त्वया ॥६४॥तथान्यजंतुभिर्भूप शिबिकोढा न केव लम् ॥ शैलद्रुमगृहोत्थोऽपि पृथिवीसंभवोऽपि च ॥६५॥यथा पुंसः पृथग्भावः प्राकृतैः करणैर्नृप ॥ सोढव्य सुमहान्भाः कतमो नृप ते मया ॥६६॥यद्दव्यो शिबिका चेयं तद्दव्यो भूतसंग्रहः ॥ भवतो मेऽखिलस्यास्य समत्वेनोपबृंहितः ॥६७॥सनंदन उवाच ॥एवमुक्ताऽभवन्मौनी स वहञ्शिबिकां द्विजः ॥ सोऽपि राजाऽवतीर्योर्व्यां तत्पादौ जगृहे त्वरन् ॥६८॥राजोवाच ॥भो भो विसृज्य शिबिकां प्रसादं कुरु मे द्विज ॥ कथ्यतां को भवानत्र जाल्मरुपधरः स्थितः ॥६९॥यो भवान्यदपत्यं वा यदागमनकारणम् ॥ तत्सर्वं कथ्यताम विद्वन्मह्यं शुश्रूषवे त्वया ॥७०॥ब्राह्मण उवाच ॥श्रूयतां कोऽहमित्येतद्वक्तुं भूप न शक्यते ॥ उपयोगनिमित्तं च सर्वत्रागमनक्रिया ॥७१॥सुखदुःखोपभोगौ तु तौ देहाद्युपपादकौ ॥ धर्माधर्मौद्धवौ भोक्तुं जंतुर्देहादिमृच्छति ॥७२॥सर्वस्यैव हि भूपाल जंतोः सर्वत्र कारणम् ॥ धर्मोधर्मौ यतस्तस्मात्कारणं पृच्छयते कुतः ॥७३॥राजोवाच ॥ धर्माधर्मौ न संदेहः सर्वकार्येषु कारणम् ॥ उपभोगनिमित्तं च देहाद्देहांतरागमः ॥७४॥यत्त्वेतद्धवता प्रोक्तं कोऽहमित्येतदात्मनः वक्तुं न शक्यते श्रोतुं तन्ममेच्छा प्रवर्तते ॥७५॥योऽति योऽहमिति ब्रह्मन्कथं वक्तुं न शक्यते ॥ आत्मन्येव न दोषाय शब्दोऽहमिति यो द्विज ॥७६॥ब्राह्मण उवाच ॥ शब्दोऽहमिति दोषाय नात्मनेवं तथैव तत् ॥ अनात्मन्यात्मविज्ञानं शब्दो वा श्रुतिलक्षणः ॥७७॥जिह्रा ब्रवीत्यहमित्य दंतौष्ठतालुक नृप ॥ एतेनाहं यतः सर्वे वाङिष्पादनहेतवः ॥७८॥किं हेतुभिर्वदृत्येषा वागेवाहमिति स्वयम् ॥ तथापि वागहमेद्वक्तुमित्थ्म न युज्यते ॥७९॥पिंडः पृथग्यतः पुंसः शिरः पाण्यादिलक्षणः ॥ ततोऽहमिति कुत्रैनां संज्ञां राजन्करोम्यहम् ॥८०॥यद्यन्योऽस्ति परः कोऽपि मत्तः पार्थ्वसत्तम ॥ न देहोऽहमयं चान्ये वक्तुमेवमपीष्यते ॥८१॥यदा समस्तदेहेषु पुमानेको व्यवस्थितः ॥ तदा हि को भवान्कोऽहमित्येतद्विफलं वचः ॥८२॥त्वं राजा शिबिका चेयं वयं वाहाः पुरः सराः ॥ अयं च भवतो लोको न सदेतन्नृपोच्यते ॥८३॥वृक्षाद्दारु तत्सश्वेयं शिबिका त्वदधिष्ठिता ॥ क्क वृक्षसंज्ञा वै तस्या दारुसंज्ञाथवा नृप ॥८४॥वृक्षारुढो महाराजो नायं वदति ते जनः ॥ न च दारुण सर्वस्त्वां ब्रवीति शिबिकागतम् ॥८५॥शिबिकादारुसंघातो स्वनामस्थितिसंस्थितः॥ अन्विष्यताम नृपश्रेष्ठानन्ददा शिबिका त्वया ॥८६॥एवं छत्रं शलाकाभ्यः पृथग्भावो विमृश्यताम् ॥ क्क जातं छत्रमित्येष न्यायस्त्वयि तथा मयि ॥८७॥पुमान्स्त्री गौरजा वाजी कुंजरो विहगस्तरुः देहेषु लोकसंज्ञेयं विज्ञेया कर्महेतुषु ॥८८॥पुमान्न देवो न नरो पशुर्न च पादपः ॥ शरीराकृतिभेदास्तु भूपैते कर्मयोनयः ॥८९॥वस्तु राजेति यल्लोके यच्च राजभटात्मकम् ॥ तथान्यच्च नृपेत्थं तन्न सत्यं कल्पनामयम् ॥९०॥यस्तु कालांतरेणापि नाशसंज्ञामुपैति वै ॥ परिणामादिसंभूतं तद्वस्तु नृप तच्च किम् ॥९१॥त्वं राजा सर्वलोकस्य पितुः पुत्रो रिपो रिपुः ॥ पत्न्याः पतिः पिता सूनोः कस्त्वं भूप वदाम्यहम् ॥९२॥त्वं किमेतच्छिरः किं तु शिरस्तव तथो दरम् ॥ किमु पादादिकं त्वेतन्नैव किं ते महीपते ॥९३॥समस्तावयवेभ्यस्त्वं पृथग्भूतों व्यवस्थितः ॥ कोऽहमित्यत्र निपुणं भूत्वा चिंतय पार्थिव ॥९४॥एवं व्यवस्थिते तत्त्वे मयाहमिति भावितुम् ॥ पृथकूचरणनिष्पाद्यं शक्यं तु नृपते कंथम् ॥९५॥इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वि०पा०ष्टचत्वारिंशोऽध्यायः ॥४८॥ N/A References : N/A Last Updated : June 05, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP