TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
चतुर्थोऽध्यायः

श्री नारदीयमहापुराणम् - चतुर्थोऽध्यायः

नारदपुराणात शिक्षण , कल्प , व्याकरण , छन्द शास्त्राचे आणि परमेश्वराच्या उपासनेचे विस्तृत वर्णन आहे .


चतुर्थोऽध्यायः

सनक उवाच ॥

श्रद्धापूर्वाः सर्वधर्मा मनोरथफलप्रदाः ॥ श्रद्धया साध्यते तुष्यते हरिः ॥१॥

भक्तिर्भक्तयैव कर्तव्या तथा कर्माणि भक्तितः॥ कर्म श्रद्धावि हीनाति च सिध्यन्ति द्विजोत्तमाः ॥२॥

यथाऽऽलोको हि जन्तूनां चेष्टाकारणतां गतः॥ तथैव सर्वसिद्धीनां भक्तिः परमकारणम् ॥३॥

यथा समस्त लोकानां जीवन सलिलं स्मृतम् ॥ तथा समस्तसिद्धीनां जीवनं भक्तिरिष्यते ॥४॥

यथा भूमिं समाश्रित्य सर्वे जीवन्ति जन्तवः ॥ तथा भक्तिं समाश्रित्य सर्वकार्थ्याणि साधयेत् ॥५॥

श्रद्धावाल्लभते धर्म्मं श्रद्धावानर्थमाप्नुयात् ॥ श्रद्धया साध्यते कामः श्रद्धावान्मोक्षमाप्नुयात् ॥६॥

न दावैर्न तपोभिर्वा यज्ञैर्वा बहुदक्षिणैः ॥ भक्तिहीनैर्मुर्निश्रेष्ठ तुष्यते भगवान्हरिः ॥७॥

मेरुमात्रसुवर्णानां कोटिकोटिसहस्रशः॥ दत्ता चाप्यर्थनाशाय यतो भक्तिविवर्जिता ॥८॥

अभक्त्या यत्तस्तप्तं केवलं कायशोषणम् ॥ अभक्त्या यद्धुतं हव्यं भस्मनि न्यस्तहव्यवत् ॥९॥

यत्किञ्चित्कुरुते कर्म्म श्रद्धयाऽप्यणुमात्रकम् ॥ तन्नाम जायते पुंसां शाश्वतं प्रीतिदायकम् ॥१०॥

अश्वमेघसहस्रं वा कर्म्म वेदोदितं कृतम् ॥ तत्सर्वं निष्फलं ब्रह्मन्यादि भक्तिविवर्जितम् ॥११॥

हरिभक्तिः परा नृणां कामधेनूमा स्मृता ॥ तस्यां सत्यां पिबन्त्यज्ञाः संसारगरलं ह्यहो ॥१२॥

असारभूते संसारे सार मेतदजात्मज ॥ भगवद्भक्तसङ्गश्च हरिभक्तिस्तितिक्षुता ॥१३॥

असूयोपेतमनसां भक्तिदानादिकर्म्म यत् ॥ अवेहि निष्फलं ब्रह्मंस्तेषां दूरतरो हरिः ॥१४॥

परश्रियाभितप्तानां दम्भाचाररतात्मनाम् ॥ मृषा तु कुर्वतां कर्म तेषां दूरतरो हरिः ॥१५॥

पृच्छतां च महाधर्म्मान्वदतां वै मृषा च तान् ॥ धर्मेष्वभक्तिमनसां तेषां दूरतरो हरिः ॥१६॥

वेदप्रणिहितो धर्म्मो वेदो नारायणः परः ॥ तत्राश्रद्धापरा ये तु तेषां दूरतरो हरिः ॥१७॥

यस्य धर्म्मविहीनानि दिनान्यायान्ति यान्ति च ॥ स लोहकारभस्त्रेव श्वसन्नपि न जीवति ॥१८॥

धर्मार्थकाममोक्षाख्याः पुरुषार्थाः सनातनाः ॥ श्रद्धावतां हि सिध्यन्ति नान्यथा ब्रह्मनन्दन ॥१९॥

स्वाचारमनतिक्रम्य हरिभक्तिपरो हि यः ॥ स याति विष्णुभवनं यद्वै पश्यन्ति सूरयः ॥२०॥

कुर्वन्वेदोदितान्धर्म्मान्मुनीन्द्र स्वाश्रमोचितान् ॥ हरिध्यानपरो यस्तु स याति परमं पदम् ॥२१॥

आचारप्रभवो धर्मः धर्म्मस्य प्रभुरच्युतेः॥ आश्रमाचा रयुक्तेन पूजितः सर्वदा हरिः ॥२२॥

यः स्वाचारपरिभ्रष्टः साङ्गवेदान्तगोऽपि वा ॥ स एव पतितो ज्ञेयो यतः कर्मबहिष्कृतः ॥२३॥

हरिभक्ति परो वाऽपि हरिध्यानपरोऽपि वा ॥ भ्रष्टो यः स्वाश्रमाचारात्पतितः सोऽभिधीयते ॥२४॥

वेदो वा हरिभक्तिर्वा भक्तिर्वापि महेश्वरे ॥ आचारात्पतितं मूढं न पुनाति द्विजोत्तम ॥२५॥

पुण्यक्षेत्राभिगमनं पुण्यतीर्थनिषेवणम् ॥ यज्ञो वा विविधो ब्रह्मंस्त्यक्ताचारं न रक्षति ॥२६॥

आचारात्प्राप्यते स्वर्ग आचारात्प्राप्यतें सुखम् ॥ आचारात्प्राप्यते मोक्ष आचारात्किं न लभ्यते ॥२७॥

आचाराणांतु सर्वेषां योगानां चैव सत्तम ॥ हरिभक्तेरपि तथा निदानं भक्तिरिष्यते ॥२८॥

भक्तयैव पूज्यते विष्णुर्वाञ्छितार्थफलप्रदः॥ तस्मात्समस्तलोकानां भक्तिर्मातेति गीयते ॥२९॥

जीवन्ति जन्तवः सर्वे यथा मातरमाश्रिताः ॥ तथा भक्तिं समाश्रित्य सर्वे जीवन्ति धर्म्मिकाः ॥३०॥

स्वाश्रमाचारयुक्तस्य हरिभक्तिर्यदा भवेत् ॥ न तस्य त्रिषु लोकेषु सदृशोऽस्त्यजनन्दन ॥३१॥

भक्तया सिध्यन्ति कर्म्माणि कर्म्माभिस्तुष्यते हरिः ॥ तस्प्रिंस्तुष्टे भवेज्ज्ञातं ज्ञानान्मोक्षएवाप्यते ॥३२॥

भक्तिस्तु भगवद्भक्तसङ्गेन खलु जायते ॥ तत्सङ्गं प्राप्यते पुम्भि सुकृतैः पूर्वसञ्चितः ॥३३॥

वर्णाश्रमाचाररता भगवद्भक्तिलालसाः॥ कामादिदोष निर्मुक्तास्ते सन्तो लोकशिक्षकाः ॥३४॥

सत्सङ्गः परमो ब्रह्मन्न लभ्येताकृतात्मनाम् ॥ यदि लभ्येत विज्ञेयं पुण्यं जन्मान्तरार्जितम् ॥३५॥

पूर्वार्जितानि पापानि नाशमायान्ति यस्य वै ॥ सत्सङ्गतिर्भवेत्तस्य नान्यथा घटते हि सा ॥३६॥

रविर्हि रश्मिजालेन दिवा हन्तिबहिस्तमः ॥ सन्तः सूक्तिमरीच्योघैश्चान्तर्ध्वान्तं हि सर्वदा ॥३७॥

दुर्लभाः पुरुषा लोके भगवद्भक्तिलालसाः ॥ तेषां सङ्गो भवेद्यस्य तस्य शान्तिर्हि शाश्वती ॥३८॥

नारद उवाच ॥

किंलक्षणा भागवतास्ते च किं कर्म्म कुर्वते ॥ तेषां लोको भवेत्कीदृक्तत्सर्वं ब्रूहि तत्त्वतः ॥३९॥

त्वं हि भक्तो रमेशस्य देवदेवस्य चक्रिणः ॥ एतन्निगदितुं शक्तस्त्व तो नास्त्यधिकोऽपरः ॥४०॥

सनक उवाच ॥

श़ृणु ब्रह्मन्परं गुह्यं मार्क ण्डेयस्य धीमतः ॥ यमुवाच जगन्नाथो योगनिद्राविमोचितः ॥४१॥

योऽसौ विष्णुः परं ज्योतिर्देवदेवः परं ज्योतिर्देवदेवः सनातनः॥ जगद्रूपी जगत्कर्त्ता शिवब्रह्म स्वरूपवान् ॥४२॥

युगान्ते रौद्ररूपेण ब्रह्माण्डग्रासबृंहितः ॥ जगत्येकार्णवीभूते नष्टे स्थावरजङ्गमे ॥४३॥

भागवानेव शेषात्मा शेते वटदले हरिः ॥ असंख्याताब्जजन्माद्यैराभूषिततनूरुहः ॥४४॥

पादाङ्गुष्ठाग्रनिर्यातगङ्गाशीताम्बुपावनः ॥ सूक्ष्मात्सूक्ष्मतरो देवो ब्रह्माण्डग्रासबृंहितः ॥४५॥

वटच्छदे शयानोऽभूत्सर्वशक्तिसमन्वितः ॥ तस्मिन्स्थाने महाभागो नारायणपरायणः ॥

मार्कंडेयः स्थितस्तस्य लीलाः पश्यन्महे शितुः ॥४६॥

ऋषय ऊचुः ॥

तस्मिन्काले महाघोरे नष्टे स्थावरजङ्गमे ॥ हरिरेकः स्थित इति मुने पूर्वं हि शुश्रुम ॥४७॥

जगत्येकार्णवीभूते नष्टे स्थावरजंगमे ॥ सर्वग्रस्तेन हरिणा किमर्थं सो : वरोषितः ॥४८॥

परं कौतूहलं ह्यत्र वर्त्ततेऽतीव सूत नः ॥ हरिकीर्तिसुधापाने कस्यालस्यं प्रजायते ॥४९॥

सूत उवाच ॥

आसीन्मुनिर्महाभागो मृगण्डुरिति विश्रुतः ॥ शालग्रामे महातीर्थे सोऽतप्यत महातपाः ॥५०॥

युगानाम युतं ब्रह्मन्गृणन्ब्रह्म सनातनम् ॥ निराहारः क्षमायुक्तः सत्ससन्धो जितेंद्रियः ॥५१॥

आत्मत्सर्वभूतानि पश्यन्विषयनिःस्पृहः ॥ सर्वभूतहितो दान्तस्तताप सुमहत्तपः ॥५२॥

तत्तपःशङ्किताः सर्व देवा इन्द्रादयस्तदा ॥ परेशं शरणं जग्मुर्नारायणमनामयम् ॥५३॥

क्षीराब्धेरुत्तरं तीरं संप्राप्य त्रिदिवौकसः ॥ तुष्टुवुर्देवदेवेशं पद्मनाभं जगद्रुरुम् ॥५४॥

देवा ऊचुः ॥

नारायणाक्षरान्त शरणागतपालक ॥ मृकण्डुतपसा त्रस्तान्पाहिनः शरणागतान् ॥५५॥

जय देवाधिदेवेश जय शङ्खगदाधर ॥ जयो लोकस्वरूपाय जयो ब्रह्माण्डहेतवे ॥५६॥

नमस्ते देवदेवेश नमस्ते लोकपावन ॥ नमस्ते लोकनाथाय नमस्ते लोकसाक्षिणे ॥५७॥

नमस्ते ध्यानगम्याय नमस्ते ध्यानहेतवे ॥ नमस्ते ध्यानरुपाय नमस्ते घ्या न पाक्षिणे ॥५८॥

केशिहन्त्रे नमस्तुभ्यं मधुहन्त्रे परात्मने ॥ नमो भूम्यादिरूपाय नमश्चैतन्यरूपिणे ॥५९॥

नमो ज्येष्ठाय शुद्धाय निर्गुणाय गुणात्मने ॥ अरूपाय स्वरूपाय बहुरूपाय ते नमः ॥६०॥

नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च ॥ जगद्धिताय कृष्णाय गोविन्दाय नमो नमः ॥६१॥

नमो हिरण्यगर्भाय नमो ब्रह्मादिरूपिणे ॥ नमः सूर्य्यादिरूपाय हव्यकव्यभुजे नमः ॥६२॥

नमो नित्याय वन्द्याय सदानन्दै करूपिणे ॥ नमः स्मृतार्तिनाशाय भूयो भूयो नमो नमः ॥६३॥

एवं देवस्तुतिं श्रुत्वा भगवान्कमलापतिः ॥ प्रत्यक्षतामगात्तेपां शङ्खचक्रगदाधरः ॥६४॥

विकचाम्बुजपत्राक्षं सूर्य्यकोटिसमप्रभम् ॥ सर्वालङ्कारसंयुक्तंश्रीवत्साङ्कितवक्षसम् ॥६५॥

पीताम्बरधरं सौम्यं स्वर्णयज्ञोपवीतिनम् ॥ स्तृयमानं मुनिवरैः पार्षदप्रवरावृतम् ॥६६॥

तंदृष्ट्वा देवसंघास्ते तत्तेजोहततेजसः ॥ नमश्चक्रुर्मुदा युक्ता अष्टांगैरवनिं गताः ॥६७॥

ततः प्रसन्नो भगवान्मेघगंभीरनिस्वनः ॥ उवाच प्रीणयन्देवान्नतानिन्द्रपुरोगमान् ॥६८॥

श्रीभगवानुवाच ॥

जाने वो मानसं दुःखं मृगण्डुतपसोद्रतम् ॥ युष्मा न्न बाधते देवाः स ऋषिः सज्जनाग्रणीः ॥६९॥

संपद्भिः संयुता वापि विपद्भिश्चापि सज्जनाः ॥ सर्वथान्यं न बाधन्ते स्वप्नेऽपि सुरसत्तमाः॥७०॥

सततं बाध्यमानोऽपि विषयाख्यैररातिभिः ॥ अविधायात्मनो रक्षामन्यान्द्वेष्टि कथं सुधीः ॥७१॥

तापत्रयाभिधानेन बाध्यमानो हि मानवः ॥ अन्यं क्रीडयितुं शक्तः कथं भवति सत्तमः ॥७२॥

कर्मणा मनसा वाचा बाधते यः सदा परान् ॥ नित्यं कामादिभिर्युक्तो मूढधीः प्रोच्यते तु सः ॥७३॥

यो लोकहितकृन्मर्त्यो गतासुर्यो विमत्सरः ॥ विःशङ्कः प्रोच्यते सद्भिरिहामुत्र च सत्तमाः ॥७४॥

सशङ्क सर्वदा दुःखी निःशङ्कः सुखमाप्नुयात् ॥ गच्छध्वं स्वालयं स्वस्थाः क्रीडायिष्यति वो न सः ॥७५॥

भवतां रक्षकश्चाहं विरहध्वं यथासुखम् ॥ इति दत्वा वरं तेषामतसीकुसुमप्रभः ॥७६॥

पश्यतामेव देवानां तत्रैवान्तरधीयत ॥ तुष्टात्मानः सुरगणा ययुर्नाकं यथागतम् ॥७७॥

मृकण्डोरपि तुष्टात्मा हरिः प्रत्यक्षतामगात् ॥ अरूपं परमं ब्रह्म स्वप्रकाशं निरञ्जनम् ॥७८॥

अतसीपुष्पसंकाशं पीतवाससमच्युतम् ॥ दिव्यायुधधरं दृष्ट्वा मृकण्डुर्विस्मितोऽभवत् ॥७९॥

ध्यानादुन्मील्य नयनं अपश्यद्धरिमग्रतः॥ प्रसन्नवदनं शान्तं धातारं विश्वतेजसम् ॥८०॥

रोमाञ्चितशरीरोऽसावानन्दाश्रुविलोचनः॥ ननाम दण्डवद्भमौ देवदेव सनातनम् ॥८१॥

अश्रुभिः क्षालयंस्तस्य चरणौ हर्षसंभवैः ॥ शिंरस्यञ्जलिमाधाय स्तोतुं समुपचक्रमे ॥८२॥

मृकण्डुरुवाच ॥

नमः परेशाय परात्मरू पिणे परात्परस्मात्परतः पराय ॥ अपारपाराय परानुकर्त्रे नमः परेभ्यः परपारणाय ॥८३॥

यो नामजात्यादिविकल्पहीनः शब्दादिदोषव्यति रेकरूपः ॥ बहुस्वरूपोऽपि निरञ्जनो यस्तमीशमीड्यं परमं भजामि ॥८४॥

वेदान्तवेद्यं पुरुषं पुराणं हिरण्यगर्भादिजगत्स्वरूपम् ॥ अनूपमं भक्ति जनानुकम्पिनं भजामि सर्वेश्वरमादिमीड्यम् ॥८५॥

पश्यन्ति य वीतसमस्तदोषा ध्यानैकनिष्ठा विगतस्पृहाश्च ॥ निवृत्तमोहाः परमं पवित्र नतोऽस्मि संसारनिवर्त्तक तम् ॥८६॥

स्मृतातिनाशनं विष्णुं शरणागतपालकम् ॥ जगत्सेव्यं जगाद्धाम परेशं करुणाकरम् ॥८७॥

एवं स्तुतः स भगवान्विष्णुस्तेन महर्षिणा ॥ अवाप परमां तुष्टिं शङ्खचक्रगदाधरः ॥८८॥

अथालिङ्ग्य़ मुनिं देवश्चतुर्भिदीर्घबाहुभिः ॥ उवाच परमं प्रीत्या वरं वरय सुव्रत ॥८९॥

प्रीतोऽस्मि तपसा तेन स्तोत्रेण च तवानघ ॥ मनसा यदभिप्रेतं वरं वरय सुव्रत ॥९०॥

मृकण्डुरुवाच ॥ देवदेव जगन्नाथ कृतार्थोऽस्मि न संशयः ॥ त्वदृर्शनमपुण्यानां दुर्लभं च यतः स्मृतम् ॥९१॥

ब्रह्माद्या यं न पश्यन्ति योगिनः संशितव्रताः ॥ धर्मिष्ठा दीक्षिताश्चापि वीतरागा विमत्सराः ॥९२॥

तं पश्यामि परं धाम किमतोऽन्यं वरं वृणे ॥ ॥ एतेनैव कृतार्थोऽस्मि जनार्दन जगद्रुरो ॥९३॥

यन्नामस्मृतिमात्रेण महापातकिनोऽपि ये ॥ तत्पदं परमं यान्ति ते दृष्ट्वा किमुताच्युत ॥९४॥

श्रीभगवानुवाच ॥ सत्यमुक्तं त्वया ब्रह्मन्प्रीतोऽस्मि तव पण्डित ॥ मदृर्शनं हि विफलं न कदाचिद्भविष्यति ॥९५॥

विष्णुर्भक्तकुटुम्बीति वदन्ति विबुधाः सदा॥ तदेव पालयिष्यामि मज्जनो नानृतं वदेत् ॥९६॥

तस्मात्त्वत्तपसा तुष्टो तव पुत्रताम् ॥ समस्तगुणसंयुक्तो दीर्घजीवी स्वरूपवान् ॥९७॥

मम जन्म कुले यस्य तत्कुलं मोक्षगामि वै ॥ मयि तुष्टे मुनिश्रेष्ठ किमसाध्यं जगत्रये ॥९८॥

इत्युक्ता देवदेवेशो मुनेस्तस्य समी क्षतः ॥ अंतर्दधे मृकण्डुश्च तपसः समवर्तत ॥९९॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे भक्तिवर्णनप्रसङ्गेन मार्कण्डेयचरितारम्भो नाम चतुर्थोऽध्यायः॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-05T05:20:18.1200000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

वर्धापनदिन

  • ना. जन्मदिन , वाढदिवस ( माणसांच्या बाबतीत ); 
  • ना. वार्षिकदिन ( विवाहादि घटनांच्या बाबतीत ); 
  • ना. संस्थापन दिन ( संस्थांच्या बाबतीत ). 
RANDOM WORD

Did you know?

वास्तुशास्त्र पाहणे कितपत विश्वासार्ह आहे? त्याचे परिणाम जाणवतात काय?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.