संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः| अष्टपञ्चाशत्तमोऽध्यायः श्री नारदीयमहापुराणम् : पूर्वभागः प्रथमोऽध्यायः द्वितीयोध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पंचविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पंचत्रिशोंऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशत्तमोऽध्यायः पश्वचत्वारिशत्तमोऽध्यायः षट्रचत्वारिंशत्तमोऽध्यायः सप्तचत्वारिंशत्तमोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोध्यायः पञ्चाशत्तमोऽध्यायः एकपंचाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुःपञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषाष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुष्षष्टितमोऽध्यायः पञ्चषष्टिमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षटसप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्याय एकोनाशीतितमोऽध्यायः नामाशीतितमोऽध्यायः नामैकाशीतितमोऽध्यायः व्द्यशीतितमोऽध्यायः त्र्यशीतितमोऽधायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः नामाष्टाशीतितमोऽध्यायः नामैकोननवतितमोऽध्यायः नवतितमोऽध्यायः नामैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः नामाष्टनतितमोऽध्यायः नामैकोनशततमोऽध्यायः शततमोऽध्यायः नामैकोत्तरशततमोऽध्यायः द्वयुत्तरशततमोऽध्यायः त्र्युत्तरशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडुत्तशततमोऽध्यायः सप्तोत्तशततमोऽध्यायः नामाष्टोत्तरशततमोऽध्यायः नवोतरशततमोऽध्यायः दशोत्तरशततमोऽध्यायः नामैकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाघिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशदधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशतमोऽध्यायः पंचविंशोत्तरशततमोऽध्यायः श्री नारदीयमहापुराणम् - अष्टपञ्चाशत्तमोऽध्यायः `नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है। Tags : naradnaradapuranpuranनारदनारदपुराणपुराण अष्टपञ्चाशत्तमोऽध्यायः Translation - भाषांतर नारद उवाच ॥अनूचानप्रसंगेन वेदांगान्यखिलानि च ॥ श्रुतानि त्वन्मुखांभोजात्समासव्यासयोगतः ॥१॥शुकोत्पत्तिं समाचक्ष्व विस्तरेण महामते ॥ सनंदन उवाच ॥मेरुश्रृडेः किल पुरा कर्णिकारवनायते ॥२॥विजहार महादेवो भौमेभूतगणैवृतः ॥ शैलराजसुता चैव देवी तत्राभवत्पुरा ॥३॥तत्र दिव्यं तपस्तेपे कृष्णवैपायनः ॥ प्रभुः ॥ योगेनात्मानमाविश्य योगधर्मपरायणः ॥४॥धारयन्स तपस्तेपे पुत्रार्थं मुनिसंतमः ॥ अग्नेर्भूमेस्तथा वायोरंतरिक्षस्य चाभितः ॥५॥वीर्येण संमतः पुत्रो मम भूयादिति स्म ह ॥ संकल्पेनाथ सोऽनेन दुष्प्रापकृतात्मभिः ॥६॥वरयामास देवेशमा स्थितस्तप उत्तमम् ॥ अतिष्ठन्मारुताहारः शतं किल समाः प्रभुः ॥७॥आराधयन्महादेवं बहुरुपमुमापतिम् ॥ तत्र ब्रह्मर्षय श्वैव सर्वे देवर्षयस्तथा ॥८॥लोकपालाश्व साध्याश्व वसुभिश्वाष्टभिः सह ॥ आदित्याश्वैव रुद्राश्व दिवाकरनिशाकरौ ॥९॥विश्वा वसुश्व गंधर्वः सिद्धाश्वाप्सरासांगणाः ॥ तत्र रुद्रो महादेवः कर्णिकारमयीं शुभाम् ॥१०॥धारयानः स्त्रजं भाति शरदीव निशाकरः ॥ तस्मिन् दिव्ये वने रम्ये देवदेवर्षिसंकुले ॥११॥आस्थितः परमं योगं व्यासः पुत्रार्थमुद्यतः ॥ न चास्य हीयते वर्णो न ग्लानिरुपजायते ॥१२॥त्रयाणा मपिलोकानां तदद्धुमिवाभवत् ॥ जटाश्व तेजसा तस्य वैश्वानरशिखोपमाः ॥१३॥प्रज्वलंत्यः स्म दृश्यते युक्तस्यामिततेजसः ॥ एवं विधेन तपसा तस्य भक्तया च नारद ॥१४॥महेश्वरः प्रसन्नात्मा चकार मनसा मतिम् ॥ उवाच चैनं भवांस्त्र्यंबकः प्रहसन्निव ॥१५॥यथा ह्याग्नियथा वायुर्यथा भूमिर्यथा जलम् ॥ यथा खं च तथा शुद्धो भविष्यति सुतस्तव ॥१६॥तद्धावभागी तद्बुद्धिस्तदात्मा तदुपाश्रयः ॥ तेजसा तस्य लोकांस्त्रीन्यशः प्राप्स्याति केवलम् ॥१७॥एवं लब्ध्वा वरं देवो व्यासः सत्यवतीसुतः ॥ अरणिं त्वथ संगृह्य ममंथाग्निचिकीर्षया ॥१८॥अथ रुपं परं विप्र बिभ्रतीम स्वेन तेजसा ॥ घृताचीं नामाप्सरसं ददर्श भगवानषिः ॥१९॥स तामप्सरसं दृष्टा सहसा काममोहितः ॥ अभवद्धगवान्व्यासो वने तस्मिन्मुनींश्वर ॥२०॥सा तु कृत्वा तदा व्यांस कामसंविग्नमानसम्प ॥ शुकीभूया महारम्या घृताची समुपागमत् ॥२१॥स तामप्सरसं दृष्ट्रा रुपेणा न्येनसंवृताम् ॥ स्मरराजेनानुगतः सर्वगात्रातिगेन ह ॥२२॥स तु धैर्येण महता निगृह्रन् त्दृच्छयं मुनिः ॥ न शशाक निंयतुं तं व्यासः प्रविसृतं मनः ॥२३॥भावित्वाच्चैव भाव्यस्य घृताच्या वपुषा ॥ त्दृतम् यत्नन्नियच्छतश्वापि मुने एतच्चिकीर्षया ॥२४॥अरण्यामेव सहसा तस्य शुक्रमवापतत् ॥ शुक्रे निर्मघ्यमानेऽस्यां शुको जज्ञे महातपाः ॥२५॥परमर्षिर्महायोगी अरणीगर्भसंभवः ॥ यथैव हि समिद्धोऽग्निर्भाति हव्यमुपात्तवान् ॥२६॥तथा रुपः शुको जज्ञे प्रज्वलन्निव तेजसा ॥ बिभ्रच्चित्रं च विप्रेंद्रे रुपवर्णमनुत्तमम् ॥२७॥गंगां सरितां श्रेष्ठां मेरुपृष्ठे स्वरुपिणीम् ॥ अभ्येत्य स्त्रापया मास वारिणा स्वेन नारद ॥२८॥कृष्णाजिनं चांतरिक्षाच्छुकार्थे भुव्यवापतत् ॥ जगीयंत च गंधर्वा ननृतञ्चाप्सरोगणाः ॥२९॥देवदुन्दुभयश्चैव प्रावाद्यंत महास्वनाः ॥ बिश्वावसुश्व गंधर्वस्तथा तुंबुरुनारदौ ॥३०॥हाहाहूहूश्व गंधर्वौ तुष्टुवुः शुकसंभवम् ॥ तत्र शक्रपुरोगाश्व लोकपालाः समागताः ॥३१॥देवा देवर्षयश्वैव तथा ब्रर्ह्मयोऽपि च ॥ दिव्यानि सर्वपुष्पाणि प्रववर्ष च मारुतः ॥३२॥जंगमं स्थावरं चैव प्रत्दृष्टमभवज्जगत् ॥ तं महात्मा स्वयं प्रीत्या देव्या सह महाद्युतिः ॥३३॥जातमात्रं मुनेः पुत्रं विधिनोपानयत्तदा ॥ तस्य देवेश्वरः शक्रो दिव्यमद्धुतदर्शनम् ॥३४॥ददौ कमंडलुं प्रीत्या देवा वासांसि चाभितः ॥ हंसाश्व शतपात्राश्व सारसाश्व सहस्त्रशः ॥३५॥प्रदक्षिणमवर्तंत शुकाश्वाषाश्व नारद ॥ आरणे यस्तदा दिव्यं प्राप्य जन्म महामुनिः ॥३६॥तत्रैवोवास मेधावी व्रतचारी समाहितः ॥ उत्पन्नमात्रं तं वेदाः सरहस्याः ससंग्रहाः ॥३७॥उपतस्तुर्मुनिश्रेष्ठं यथास्य पितरं तथा ॥ बृहस्पतिं स बव्रे च वेदवेदांगभाष्यवित् ॥३८॥उपाध्यायं द्विजश्रेष्ठ धर्ममेवानुचिंतयन् ॥ सोऽधीत्य वेदान खिलान्सरहस्यान्ससंग्रहान् ॥३९॥इतिहासं च कार्त्स्न्यैन वेदशास्त्राणि चाभितः ॥ गुरवे दक्षिणां दत्त्वा समावृत्तो महामुनिः ॥४०॥उग्रं तपः समारेभे ब्रह्मचारी समाहिताः ॥ देवतानामृषीणां च बाल्येऽपि सुमहातपाः ॥४१॥सेंमत्रणीयो जन्यश्व ज्ञानेन तपसा तथा ॥ न त्वस्य रमते बुद्धि एश्रमेषु मुनीश्वर ॥४२॥त्रिषु गार्हस्थ्यमूलेषु मोक्षधर्मानुदर्शिनः ॥ स मोक्षमनुचिंत्यैव शुक्रः पितरमभ्यगात् ॥४३॥प्राहाभिवाद्य च तदा श्रेयोऽर्थी विनयान्वितः ॥ मोक्षधमेषुं कुशलो भगवान् प्रब्रवीतु मे ॥४४॥यथैव मनसः शांतिः परमा संभवेन्सुने ॥ श्रुत्वा पुत्रस्य वचनं परमर्षिरुवा च तम् ॥४५॥अधीष्व मोक्षशास्त्रं वै धर्मांश्व विविधानपि ॥ पितुर्निदेशाज्जग्राह शुको ब्रह्मविदां वरः ॥४६॥योगशास्त्रं च निखिलं कापिलं चैव नारद ॥ शंत ब्राह्या श्रिया युंक्त ब्रह्मतुल्यपराक्रमम् ॥४७॥मेने पुत्रं यथा व्यासो मोक्षशास्त्रविशरदम् ॥ उवाच गच्छेति तदा जनकं मिथिलेश्वर्म् ॥४८॥स ते वक्ष्यति मोक्षार्थं निखिलेन नराधिपः ॥ पितुर्नियोगादगमज्जनकं मैथिलं नृपम् ॥४९॥प्रष्टुं धर्मस्य निष्ठां वै मोक्षस्य च परायणम् ॥ उक्तश्व मानुपेण त्वं तथा गच्छेत्यविस्मितः ॥५०॥न प्रभावेण गंतव्यंतरिक्षचरेण वै ॥ आर्जवेनैव गंतव्यं न सुखाय क्षणात्त्वया ॥५१॥न द्रष्टव्या विशेषा हि विशेषा हि प्रसंगिनः ॥ अहंकारो न कर्तव्यो याज्ये तस्मिन्नराधिपे ॥५२॥स्थातव्यं वसथे तस्य स ते छेत्स्यति सं शयम ॥ स धर्मकुशलो राजा मोक्षशास्त्रविशारदः ॥५३॥यथा यथा च ते ब्रयात्तत्कार्यमविशंकया ॥ एव पुक्तः स धर्मात्मा जगाम मिथिलां मुनिः ॥५४॥पद्यां शक्तोंतरिक्षेण क्रांतु भूमिं ससागाराम् ॥ सगिरीश्वाप्यतिक्रम्य भारतं वर्षमासदत् ॥५५॥स देशान्विविधान्स्फीतानतिक्रम्य महामुनिः ॥ विदेहान्वै समासाद्य जनकेन समागमत् ॥५६॥राजद्वारं समासाद्य द्वारपालैर्निवारितः ॥ तस्थौ तत्र महायोगी क्षुत्पिपासादिवर्जितः ॥५७॥आतपे ग्लानिरहितो ध्यानयुक्तश्व नारद ॥ तेषां तु द्वारपालानामेकस्तत्र व्यवस्थितः ॥५८॥मध्यंगतमिवादित्यं दृष्ट्रा शुकमवस्थितम् ॥ पूजयित्वा यथान्यायमभिवाद्य कृताञ्जलिः ॥५९॥प्रावेशयत्ततः कक्षां द्वितीयां राजवेश्मनः ॥ तत्रांतःपुरसंबद्धं महच्चैत्ररथोपमम् ॥६०॥सुविभक्तजलाक्रीड रम्यं पुष्पितपादपम् ॥ दर्शयित्वासने स्थाप्य राजानं च व्यजिज्ञपत् ॥६१॥श्रुत्वा राजा शुकं प्राप्तं वारस्त्रीः स न्ययुंक्त च ॥ सेवायै तस्य भावस्य ज्ञानायमुनिसतम् ॥६२॥तं चारुकेश्यः शुश्रोण्यस्तरुण्यः प्रियदर्शनाः ॥ सूक्ष्मक्तांबरधरास्तप्तकांचनभूषणाः ॥६३॥संलापालापकुशला भावज्ञाः सर्वकोविदाः ॥ परं पंचाशतस्तस्य पाद्यादीनि व्यकल्पयन् ॥६४॥देशकालोपपन्नेन साध्वन्नेंनाप्यर्पयन् ॥ तस्यभुक्तवास्तात तास्ततः पुरकाननम् ॥६५॥सुरम्यं दर्शयामासुरैकैकत्वेन नारद ॥ क्रीडंत्यश्व हसंत्यश्व गायंत्यश्वैव ताः शुकम् ॥६६॥उदारसत्त्वं सत्वज्ञास्सर्वाः पर्य्यचरंस्तदा ॥ आरणेयस्तु शुद्धात्मा जितक्रोधी जितेंद्रियः ॥६७॥ध्यानस्थ एव सततं न ह्रष्यति न कुप्यति ॥ पादशौ चं तु कृत्वां वै शुकः संध्यामुपास्य च ॥६८॥निषसदासने पुण्ये तमेवार्थं व्यचिंतयत् ॥ पूर्वरात्रे तु तत्रासौ भूत्वा ध्यानपरायणः ॥६९॥मध्यरात्रे यथान्याय्यं निद्रामाहारयत्प्रभुः ॥ ततः प्रातः समुत्थाय कृत्वा शौंचमनंतरम् ॥७०॥स्त्रीभिः परिवृतो धीमान्ध्यानमेवान्वपद्यत ॥ अनेनविधिना तत्र तदहःशेषमप्युत ॥७१॥तां च रात्रिम नृपकुले वर्तयामास नारद ॥७२॥इति श्रीबृहन्नारदी० पूर्वभागे बृहदुपाख्याने द्वितीयभागेः शुकप्रलोभनं नामाष्टपञ्चाशत्तमोऽध्यायः ॥५८॥ N/A References : N/A Last Updated : June 05, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP