संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः| सप्तचत्वारिंशत्तमोऽध्यायः श्री नारदीयमहापुराणम् : पूर्वभागः प्रथमोऽध्यायः द्वितीयोध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पंचविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पंचत्रिशोंऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशत्तमोऽध्यायः पश्वचत्वारिशत्तमोऽध्यायः षट्रचत्वारिंशत्तमोऽध्यायः सप्तचत्वारिंशत्तमोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोध्यायः पञ्चाशत्तमोऽध्यायः एकपंचाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुःपञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषाष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुष्षष्टितमोऽध्यायः पञ्चषष्टिमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षटसप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्याय एकोनाशीतितमोऽध्यायः नामाशीतितमोऽध्यायः नामैकाशीतितमोऽध्यायः व्द्यशीतितमोऽध्यायः त्र्यशीतितमोऽधायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः नामाष्टाशीतितमोऽध्यायः नामैकोननवतितमोऽध्यायः नवतितमोऽध्यायः नामैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः नामाष्टनतितमोऽध्यायः नामैकोनशततमोऽध्यायः शततमोऽध्यायः नामैकोत्तरशततमोऽध्यायः द्वयुत्तरशततमोऽध्यायः त्र्युत्तरशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडुत्तशततमोऽध्यायः सप्तोत्तशततमोऽध्यायः नामाष्टोत्तरशततमोऽध्यायः नवोतरशततमोऽध्यायः दशोत्तरशततमोऽध्यायः नामैकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाघिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशदधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशतमोऽध्यायः पंचविंशोत्तरशततमोऽध्यायः श्री नारदीयमहापुराणम् - सप्तचत्वारिंशत्तमोऽध्यायः `नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है। Tags : naradnaradapuranpuranनारदनारदपुराणपुराण सप्तचत्वारिंशत्तमोऽध्यायः Translation - भाषांतर सनंदन उवाच ॥एतदध्यात्ममानाढ्यं वचः केशिध्वजस्य सः ॥ खांडिक्योऽमृतबच्छुत्वा पुनराह तमीरयन् ॥१॥खांडिक्य उवाच ॥तदू ब्रूहि त्वं महाभाग योगं योगविदुत्तम ॥ विज्ञातयो राशास्त्रर्थस्त्वमत्यां निमिसंततौ ॥२॥केशिध्वज उवाच ॥योगस्वरुपं खांडिक्य श्रूयतां गदतो मम ॥ यत्र स्थितो न च्यवते प्राप्य ब्रह्मलयं मुनिः ॥३॥मन एव मनुष्याणां कारणं बन्धमोक्षयोः ॥ बंधस्य विषयासंगि मुक्तेर्निर्विषयं तथा ॥४॥विषयेभ्यः समाह्यत्य विज्ञानात्मा बुधो मनः ॥ चिंतयेन्मुक्तये तेन ब्रह्मभूतं परेश्वर्म् ॥५॥आत्मभावं नयेत्तेन तद्धह्यध्यापनं मनः ॥ विकार्यमात्मनः शक्त्या लोहमाकर्षको यथा ॥६॥आत्मप्रयत्नसापेक्षा विशिष्टा या मनोगतिः ॥ तस्या ब्रह्मणि संयोगो इत्यभिधीयते ॥७॥एवमत्यंतवैशिष्ट्यक्तधर्मोपलक्षणम् ॥ यस्य योगः स वै योगी मुमुक्षुरमिधीयते ॥८॥योगयुक् प्रथमं योगी युंजमानोऽभिधीयते ॥ विनिष्पन्नसमाधिस्तु परब्रह्मोपलब्धिमान् ॥९॥यद्यंतरायदोषेण दूष्यते नाम्य मानसम ॥ जन्मांतरैरभ्य्सनान्मुक्तिः पूर्वस्य जायते ॥१०॥विनिष्पन्नसमाधिस्तु मुक्तिस्तत्रैव जन्मनि ॥ प्राप्न्तोति योगी योगाग्निदग्धकर्मचयोऽचिरात् ॥११॥ब्रह्मचर्यमहिंसा च सत्यास्तेयापरिग्रहान् ॥ सेवेत योगी निष्कामो योगितां स्वमनो नयन् ॥१२॥स्वाध्यायशौचंसतोषपांसि नियमान्यमान् ॥ कुर्व्वीत ब्रह्मणि तथा परस्मिन्प्रवण्म मनः ॥१३॥एते यमाश्व नियमाः पंच पञ्चप्रकीर्तिताः ॥ विशिष्टफलदाः काम्या निष्कामानां विमुक्तिदाः ॥१४॥एवं भद्रासनादीनां समास्थाय गुणैर्युतः ॥ यमाख्यैर्नियमाख्यैश्व युंजीत नियतो यतिः ॥१५॥प्राणाख्यमवलंबस्थमभ्यासात्कुरुते तु यत् ॥ प्राणायामः स विज्ञेयः सबीजोऽबीज एव च ॥१६॥परस्परेणाभिभवं प्राणापानौ यदा निलौ ॥ कुरुतः सद्विधानेन तृतीयः संयमात्तयोः ॥१७॥तस्य चालंबनवत्स्थूलं रुपं द्विषत्पते ॥ आलंबनमनंतस्य योगिनोऽभ्यसतः स्मृतम् ॥१८॥शब्दादिष्वनुरक्तानि निगृह्याक्षाणि योगवित् ॥ कुर्य्याच्चितानुकारीणि प्रत्याहारपरायणः ॥१९॥वश्यता परमा तेन जायते निश्चलात्मनाम् ॥ इंद्रियाणामवश्यैस्तैर्न योगी योगसाधकः ॥२०॥प्राणायामेन पवनैः प्रत्याहेरण चेंद्रियैः ॥ वशीकृतैस्तत कुर्यात्स्थिरं चेतः शुभा श्रये ॥२१॥खांडिक्य उवाच ॥कथ्यतां मे महाभाग चेतसो यः शुभाश्रयः ॥ यदाधारमशेषं तु हंति दोषसमुद्धवम् ॥२२॥केशिध्वज उवाच ॥आश्रयश्चेतसो ज्ञानिन द्विधा तच्च स्वरुपतः ॥ रुपं मूर्तममूर्तं च परं चापरमेव च ॥२३॥त्रिविधा भावना रुपं विश्वमेतत्त्रिधोच्यते ॥ ब्रह्माख्या कर्मसंज्ञा च तथा चैवोभयात्मिका ॥२४॥कर्मभावात्मिका ह्येका ब्रह्मभावात्मिकापरा ॥ उभयात्मिका तथैवान्या त्रिविधा भावभावना ॥२५॥सनकाद्या सदा ज्ञानिन् ब्रह्मभावनया युताः ॥ कर्मभावनया चान्ये देवाद्याः स्थावराश्वराः ॥२६॥हिरण्यगर्भादिषु च ब्रह्मकर्मात्मिकाद्विधा ॥ अधिकारबोधयुक्तेषु विद्यते भावभावना ॥२७॥अक्षीणेषु समस्तेषु विशेषज्ञानकर्मसु ॥ विश्वमेतत्परं चान्यद्धेभिन्नदृशां नृप ॥२८॥प्रत्यस्तमितभेदं यत्सत्तामात्रमगोचरम् ॥ वचसामात्मसंतोद्यं तज्ज्ञानं ब्रह्मंसज्ञितम् ॥२९॥तच्च विष्णोः परं रुपमरुपस्याजनस्य च ॥ विश्वस्वरुपं वैरुप्यलक्षणं परमात्मनः ॥३०॥न तद्योगयुजा शक्यं नृप चिंतयितुं यतः ॥ ततः स्थूंल हरे रुप्म चिंत्यं यच्चक्षुगोचरम् ॥३१॥हिरण्यगर्भो भग वान्वासवोऽथ प्रजापतिः ॥ मरुतो वसवो रुद्रा भास्कारास्तारका ग्रहा ॥३२॥गन्धर्वा यक्षदैत्याश्व सकला देवयोनयः ॥ मनुष्याः पशवः शैला समुद्राः सरितो द्रुमाः ॥३३॥भूप भूतान्यशेषाणि भूतानां ये च हेतवः ॥ प्रधानादिविशेषांताश्वेतनाचेतनात्मकम् ॥३४॥एकपादं द्विपादं च बहुपादमपादकम् ॥ मूर्त्तमेतद्धरे रुपं भावनात्रितयात्मकम् ॥३५॥एतत्सर्वमिदं विश्वं जगदेतच्चराचरम् । परब्रह्मस्वरुपस्य विष्णोः शक्तिसमन्वितम् ॥३६॥विष्णुशक्तिः परा प्रोक्ता क्षेत्रज्ञाख्या तथापरा ॥ अविद्याकर्मसंज्ञान्या तृतीया शक्तिरिष्यते ॥३७॥येयं क्षेत्रज्ञशक्तिः सा चेष्टिता नृप कर्मजा ॥ असारभूते संसारे प्रोक्ता तत्र महामते ॥३८॥संसारतापानखिलानवान्पोत्यनुसंज्ञितान् ॥ तया तिरोहितत्वात्तु शक्तिः क्षेत्रज्ञ संज्ञिता ॥३९॥सर्वभूतेषु भूपाल तारतम्येन लक्ष्यते ॥ अप्राणवत्सु खल्वल्पा स्थावरेषु ततोऽधिका ॥४०॥सरीसृपेषु तेभ्योऽन्याप्यतिशत्त्या पतात्रिषु ॥ पतात्रिस्भ्यो मृगास्तेभ्यः स्वशत्तया पशवोऽधिकाः ॥४१॥पशुभ्यो मनुजाश्वतिशत्तया पुंसः प्रभाविताः ॥ तेभ्योऽपि नागगंधर्वयक्षाद्या देवता नृप ॥४२॥शक्रः समस्तदेवेभ्यस्ततश्वातिप्रजापतिः ॥ हिरण्यगर्भोऽपि ततः पुंसः शत्त्युपलक्षितः ॥४३॥एतान्यशेषरुपाणि तस्य रुपाणि पार्थिव ॥ यतस्तच्छक्तियोगेन युक्तानि नभसा यथा ॥४४॥द्वितीयं विष्णुसंज्ञस्य योगिध्येयं महामते ॥ अमूर्तं ब्रह्मणो रुपं यत्सदित्युच्यते बुधैः ॥४५॥समस्ताः शक्तयश्चैता नृप यत्र प्रतिष्ठिताः ॥ नहि स्वरुपरुपं वै रुपमन्यद्धरेर्महतू ॥४६॥समस्तशक्तिरुपाणि तत्करोति जनेश्वर ॥ देवतिर्य ड्रमनुष्यादिचेष्टावंति स्वलिलया ॥४७॥जगतामुपकाराय तस्य कर्मनिमित्तजा ॥ चेष्टा तस्याप्रमेयस्य व्यापिन्याविहितात्मिका ॥४८॥तद्रूपं विश्वरुपरय चिंत्यंयोग युजा नृप ॥ तस्य ह्यात्मविशुद्धयर्थं सर्वकिल्बिषनाशनम् ॥४९॥यथाग्निरुद्धताशिखः कक्षं दहति सानिलः ॥ तथा चित्तस्थितो विष्णुर्योगिनां सर्वकिल्बिषम् ॥५०॥तस्मात्समस्तशक्तीनामाद्यांते तत्र चेतसः ॥ कुर्वीत संस्थितं साधु विज्ञेया शुद्धलक्षणा ॥५१॥शुभाश्रयः सचित्तस्य सर्वगस्य तथात्मनः ॥ त्रिभावभावनातीतो मुक्तये योगिनां नृप ॥५२॥अन्ये तु पुरुषव्याघ्र चेतसो ये व्यपाश्रयाः ॥ अशुद्धास्ते समस्तास्तु देवाद्याः कर्मयोनयः ॥५३॥मूर्त्तं भगवतो रुपं सर्वापाश्रयनिस्पृहः ॥ एषां वै धारणा ज्ञेया यच्चितं तत्र धार्यते ॥५४॥तत्र मूर्त्तं हरे रुपं याद्दक चिंत्यं नराधिप ॥ तच्छ्रयता मनाधारे धारणा नोपपद्यते ॥५५॥प्रसन्नारुवदनं पद्मपत्रायतेक्षणम् ॥ सुकपोलं सुविस्तीर्णं ललाटफलकोज्ज्वम् ॥५६॥समकर्णांसविन्य स्तचारुकर्णोपभूषणम् ॥ कम्बुग्रीवं सुविस्तीर्णश्रीवत्सांकितवक्षसम् ॥५७॥बलित्रिभंगिना भुग्ननाभिना चोदरेण वै ॥ प्रलंबाष्टभुजं विष्णुमथ वापि चतुर्भुजम् ॥५८॥समस्थितोरुजघनं सुस्थिरांघ्रिकरांबुजम् ॥ चिंतयेद्धह्यभूतं तं पीतनिर्मलवाससम् ॥५९॥किरीटचारुकेयूरकट काइविभूषितम् ॥ शार्ङुशंखदाखङुप्रकाशवलयांचितम् ॥६०॥चिंतयेत्तन्मयो योगी समाधायात्ममानसम् ॥ तावद्यावदू द्दडीभूता तत्रैव नृप धारणा ॥६१॥वदतस्तिष्ठतो यद्वा स्वेच्छया कर्म कुर्वतः ॥ नापयाति यदा चित्तात्सिद्धी मन्येत तो तदा ॥६२॥ततः शंखगदाचक्रशाङुआदि रहित बुधः ॥ चिंतयेद्धगवद्रूपं प्रशांतं साक्षसूत्रकम् ॥६३॥सा यदा धारणा तद्वदवस्थानवती ततः ॥ किरीटकेयूरमुखैर्भूषणै रहितं स्मरेत् ॥६४॥तदेकावयवं चैवं चेतसा हि पुनर्बुधः ॥ कुर्यात्ततोऽवयविनि प्रणिधानपरो भवेत् ॥६५॥तद्रूपप्रत्यये चैकसंनतिश्चान्यनिःस्पृहा ॥ तद्धयानं प्रथमे रंगैः षडिर्निष्पाद्यते नृप ॥६६॥तस्यैवं कल्पनाहीनं स्वरुपग्रहणं हि यत् ॥ मनसा ध्याननिष्पाद्यं समाधिः सोऽभिधीयते ॥६७॥विज्ञाने प्रापकं प्राप्ये परे ब्रह्माणि पार्थिव ॥ प्रापणीयस्तथैवात्मा प्रक्षीणाशेषभावनः ॥६८॥क्षेत्रज्ञकरणीज्ञानं करणं तेन तस्य तत् ॥ निष्पाद्य मुक्तिकार्यं वै कृतकृत्यो निवर्तते ॥६९॥तद्धावभावनापन्नस्ततोऽसौ परमात्मनः ॥ भवत्यभेदी भेदश्व तस्याज्ञानकृतो भवेत् ॥७०॥विभेदजनके ज्ञाने नाश मात्यतिकं गते ॥ आत्मनो ब्रह्मणाभेदं संमतं कः करिष्यति ॥७१॥इत्युक्तस्ते मया योगः खांडिक्य परिपृच्छतः ॥ संक्षेपविस्तराभ्यां तु किमन्यत्क्रियतां तव ॥७२॥खांडिक्य उवाच ॥कथितो योगसद्धावः सर्वमेव कृतं मम ॥ तवोपदेशात्सकलो नष्टश्वित्तमलो मम ॥७३॥ममेति यन्मया प्रोक्तमसदेतन्न चान्यथा ॥ नरेंद्र गदितुं शक्यमपि विज्ञेयवेदभिः ॥७४॥अहं ममेत्यविद्येयं व्यवहारस्तथानयोः ॥ परमार्थस्त्व संलाप्यो वचसां गोचरो न यः ॥७५॥तद्धच्छ श्रेयसे सर्वं ममैतद्धवता कृतम् ॥ यद्विसुक्तिपरो योगः प्रोक्तः केशिध्वजाव्ययः ॥७६॥सनंदन उवाच ॥यथार्हपूजया तेन खांडिक्येन स पूजितः ॥ आजगाम पुरं ब्रह्मस्ततः केशिध्वजो नृपः ॥७७॥खांडिक्योऽपि सुतं कृत्वा राजानं योगसिद्धये ॥ विशालामगमत्कृष्णे समावेशितमानसः ॥७८॥स तत्रैकांतिको भूत्वा यमादिगुणसंयुतः ॥ विष्वाख्ये निर्मले ब्रह्मण्यवाप नृपतिर्लयम् ॥७९॥केशिध्वजोऽपि मुक्तयर्थं स्वकर्मक्षपणोन्मुखः ॥ बुभुजे विषयान्कर्म चक्रे चानभिसंधितम् ॥८०॥स कल्याणोपभोगैश्व क्षीणपापोऽमल स्ततः ॥ अवाप सिद्धिमत्यंत्रितापक्षपणीं मुने ॥८१॥एतत्ते कथितं सर्वं यन्मां त्वं परिपृष्टवान् ॥ तापत्रयचिकित्सार्थं किमन्यत्कथयामि ते ॥८२॥इति श्रीबृहन्नारदीयपुराणे पूर्वभागे द्वितीयपादे सप्तचत्वारिंशत्तमोऽध्यायः ॥४७॥ N/A References : N/A Last Updated : May 13, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP