TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
अष्टत्रिंशोऽध्यायः

श्री नारदीयमहापुराणम् - अष्टत्रिंशोऽध्यायः

नारदपुराणात शिक्षण, कल्प, व्याकरण, छन्द शास्त्राचे आणि परमेश्वराच्या उपासनेचे विस्तृत वर्णन  आहे.


अष्टत्रिंशोऽध्यायः

॥ नारद उवाच ॥

किंतत्स्तोत्रं महाभाग कथं तुष्टो जनार्दनः ॥ उत्तंकः पुण्यपुरुषः कीदृशं लब्धवान्वरम् ॥

सनक उवाच ॥

उत्तंकस्तु तदा विप्रो हरिध्यानपरायणः ॥ पादोदकस्य माहात्म्यं दृष्ट्वा तुष्टाव भक्तितः ॥२॥

उत्तंक उवाच ॥

नतोऽस्मि नारायणमादिदेवं जगन्निवासं जगदेकबंधुम् ॥ चक्राब्जशार्ङ्गसिधरं महांतं स्मृतार्तिनिघ्नं शरणं प्रपद्ये ॥३॥

यन्नाभिजाब्ज प्रभवो विधाता सृजत्यमुं लोकसमुच्चयं च । यत्क्रोधजो हंति जगच्च रुद्रस्तमादिदेवं प्रणतोऽस्मि विष्णुम् ॥४॥

पद्मापतिं पद्मदलायताक्षं विचित्रवीर्यं निखिलैकहेतुम् ॥ वेदांतवेद्यं पुरुषं तेजोनिधिं विष्णुमहं प्रपन्नः ॥५॥

आत्माक्षरः सर्वगातोऽच्युताख्यो ज्ञानात्मको ज्ञानविदां शरण्यः॥ ज्ञानैकवेद्यो भगवानननादिः प्रसीदतां व्यष्टिसप्नष्टिरूपः ॥६॥

अनंतवीर्यो गुणजातिहीनो गुणात्मको ज्ञानविदां वरिष्ठः ॥ नित्यः प्रपन्नात हरः परात्मा दयांबुधिर्मे वरदस्तु भूयात् ॥७॥

यः स्थूलसूक्ष्मादिविशेषभेदैर्जगद्यथावत्स्वकृतं प्रविष्टः ॥ त्वमेव तत्सर्वमनंतसारं त्वत्तः परं नास्ति यतः परात्मन् ॥८॥

अगोचरं यत्तव शुद्धरूपं मायाविहीनं गुणजातिहीनम् ॥ निरञ्जनं निर्मलमप्रमेयं पश्यंति सन्तः परमार्थसंज्ञम् ॥९॥

एकेन हेम्नैव विभूषणानि यातानि भेदत्वमुपाधिभेदात् ॥ तथैव सर्वेश्र्वर एक एव प्रदृश्यते भिन्न इवाखिलात्मा ॥१०

यन्मायया मोहितचेतसस्तं पश्यंति नात्मानमपि प्रसिद्धम् ॥ त एव मायारहितास्तदेव पश्यन्ति सर्वात्मकमात्मरूपम् ॥११

विभुं ज्योतिरनौपम्यं विष्णुसज्ञनमाम्यहम् ॥ समस्तमेतदुद्भूतं यतो यत्र प्रतिष्ठितम् ॥२॥

यतश्र्चैतन्यमायातं यद्रूपं तस्य वै नमः ॥ अप्रमेयमनाधारमाधाराधेयरूपकम् ॥३॥

परमानन्दचिन्मात्रं वासुदेवं नतोऽस्म्यहम् ॥४॥

हृद्गुहानिलयं देवं योगिभिः परिसेवितम् ॥५॥

योगानामादिभूतं तं नामामि प्रणवस्थितम् ॥ नादात्मकं नादबीजं प्रणवात्मकमव्ययम् ॥५॥

सद्भावं सच्चिदानन्दं तं वन्दे तिग्मचक्रिणम् ‍ ॥ अजरं साक्षिणं त्वस्य ह्यवाङ्मन सगोचरम् ॥१६॥

निरञ्जनमनंताख्यं विष्णुरूपं नतोऽस्म्यहम् ॥ इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः ॥७॥

वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रंज्ञमेव च ॥ विद्याविद्यात्मक प्राहुः परात्परतरं तथा ॥८॥

अनादिनिधनं शांतं सर्वधातारमच्युतम् ॥ ये प्रपन्ना महात्मानस्तेषां मुक्तिर्हि शाश्र्वती ॥९॥

वरं वरेण्यं वरदं पुराणं सनातनं सर्वगतं समस्तम् ॥ नतोऽस्मि भूयोऽपि नतोऽस्मि भूयो नतोऽस्मि भूयोऽपि नतोऽस्मि भूयः ॥२

यत्पाद तोयं भवदोगवैद्यौ यत्पादपांशुर्विमलत्वसिद्ध्य़ै ॥ यन्नाम दुष्कर्मनिवारणाय तमप्रमेयं पुरुषं भजामि ॥२

सद्रूपं तमसद्रूपं सदसद्रूपंमव्ययम् ॥ तत्तद्विल क्षणं श्रेष्ठं श्रेष्ठाच्छ्रेष्ठतरं भजे ॥२२॥

निरञ्जनं निराकारं पूर्णमाकाशमध्यगम् परं च विद्याविद्याभ्यां त्दृदंबुजनिवासिनम् ॥२३॥

स्वप्रकाशमनिर्देश्यं महतां च महत्तरम् ॥ अणोरणीयांसमजं सर्वोपाधिविवर्जितम् ॥२४॥

यन्नित्यं परमानन्दं परं ब्रह्म सनातनम् ॥ विष्णुसंज्ञं जगद्धाम तमस्मि शरणं गतः ॥२५॥

यं भजन्ति क्रियानिष्ठा यं पश्यन्ति च योगिनः ॥ पूज्यात्पूज्यतर शांतं गतोऽस्मि शरणं प्रभुम् ॥२६॥

यं न पश्यन्ति विद्वांसो य एतद्य्वाव्य तिष्ठति ॥ सर्वस्मादधिकं नित्यं नतोऽस्मि विभुमव्ययम् ॥२७॥

अन्तःकरणसंयोगाज्जीव इत्युच्यते च यः ॥ अविद्या कार्य रहितः परमात्मेति गीयते॥२८॥

सर्वात्मकं सर्वहेतुं सर्वकर्मफलप्रदम् ॥ वरं वरेण्यमजनं प्रणतोऽस्मि परात्परम् ॥२९॥

सर्वज्ञं सर्वगं शांतं सर्वांतयामिणं हरिम् ॥ ज्ञानात्मकं ज्ञाननिधिं ज्ञानसंस्थ विभुं भजे ॥३

नमाम्यहं वेदानिधिं मुरारिं वेदांतविज्ञानसुनिश्र्चितार्थम् ॥ सूर्यदुवत्प्रोज्जवलनेत्रमिदं खगस्वरूपं वपतिस्वरूपम् ॥३

सर्वेश्र्वरं महांतं वेदात्मकं वेदांवरिष्ठम् ॥ तंवाङ्मनोऽचिंत्यमनंतशक्तिं ज्ञानैकवेद्यं पुरुषं भजामि ॥३२॥

इन्द्राग्निकालासुरपाशिवायुसोमेशमार्त्तण्डपुरंदराद्यैः॥ यः पाति लोकान्परिपूर्णभावस्तमप्रमेंय शरणं प्रपद्ये ॥३३॥

सहस्त्रशीर्षं च सहस्रपादं सहस्रबाहुं च सहस्रनेत्रम् ॥ समस्तयज्ञैः परिजुष्टमाद्यं नतोऽस्मि तुष्टिप्रदमुग्रवीर्यम् ॥३४॥

कालात्मकं कालविभागहेतुं गुणत्रयातीतमहं गुणज्ञम् ॥ गुणप्रियं कामदमस्तसंगमतींद्रिय विश्र्वभुजं वितृष्णम् ॥३५॥

निरीहमग्रयं मनसाप्यगम्यं मनोमयं चान्नमयं निरूढम् ॥ विज्ञानभेदं प्रतिपन्नकल्पं न वाङ्मयं प्राणम यं भजामि ॥३६॥

न यस्य रूपं न बलप्रभावो न यस्य कर्माणि न यत्प्रमाणम् ॥ जानंति देवा कमलोद्भवाद्यस्तोष्याम्यहं तं कथमात्मरूपम् ॥३७॥

संसारसिंधौ पतितं कदर्यं मोहाकुलं कामशतेन बद्धम् ॥ अकीर्तिभाजं पिशुनं कृतघ्नं सदाशुचिं पापरतं प्रमन्युम् ॥ दयांबुधे पाहि भयाकुलं मां पुनः पुनस्त्वां शरणं प्रपद्ये ॥३८॥

इति प्रसादितस्तेन दयालुः कमलापतिः॥ प्रत्यक्षतामगात्तस्य भगवांस्तेजसां निधिः ॥३९॥

अतसी पुष्पसंकाशं फुल्लपङ्कजलोचनम् ॥ किरीटिनं कुण्डलिनं हारकेयूरभूषितम् ॥४

श्रीवत्सकौस्तुभधरं हेमयज्ञोपवीतिनम् ॥ नासाविन्यस्तमुक्ता भवधर्मानतनुच्छविम् ॥४

पीतांबरधरं देवं वनमालाविभूषितम् ॥ तुलसीकोमलदलैरर्चितांघ्रि महाद्युतिम् ॥४२॥

किंकीणीनुपुराद्यैश्र्च शोभितं गरूडध्वजम् ॥ दृष्ट्वा ननाम विप्रेन्द्रो दण्डवत्क्षितिमण्डले ॥४३॥

अभ्यषिंचद्धरेः पादावुत्तंको हर्षवारिभिः ॥ मुरारे रक्ष रक्षेति व्याहरन्नान्यधीस्तदा ॥४४॥

तमुत्थाप्य महाविष्णुरालिलिंग दयापरः ॥ वरं वृणुष्व वत्सेति प्रोवाच मुनिपुङ्गवम् ॥४५॥

असाध्यं नास्ति किंचित्ते प्रसन्ने मयि सत्तम ॥ इतीरितं समाकर्ण्य ह्युत्तंकश्र्चक्रपाणिना ॥ पुनः प्रण्यम्य तं प्राह देवदेवं जनार्दनम् ॥४६॥

किं मां मोहयसीश त्वं किमन्यैर्देव मे वरैः त्वयि भक्तिर्दृढा मेऽस्तु जन्मजन्मांतरेष्वपि ॥४७॥

कीटेषु पक्षिषु मृगेषु सरीसृपेषु रक्षःपिशाचमनुजेष्वपि यत्र तत्रजातस्य मे भवतु केशव ते प्रसाद्दात्त्वय्येव भक्तिरचलाव्यभिचारणी च ॥४८॥

एवमस्त्विति लोकेशः शङ्खप्रांतेन संस्पृशन् दिव्यज्ञानं ददौ तस्मै योगिनामपिदुर्लभम् ॥४९॥

पुनः स्तुवन्तं विप्रेंद्रं देवदेवो जनार्दनः इदमाह स्मितमुखो हस्तं तच्छिरसि न्यसन् ॥५

श्रीभगवानुवाच आराधय क्रियायोगैर्मां सदाद्विजसत्तम् ॥ नरनारायणस्थानं व्रजं मोक्षं गमिष्यसि ॥५

त्वया कृतमिदं स्तोत्रं यः पठेत्सततं नरः ॥ सर्वान्कामानवाप्यांते मोक्षभागी भवेत्ततः ॥५२॥

इत्युक्त्वा माधवो विप्रं तत्रैवांतर्दधे मुने ॥ नरनरायणस्थानमुत्तंकोऽपि ततो ययौ ॥५३॥

तस्माद्भक्तिः सदा कार्या देवदेवस्य चक्रिणः ॥ हरिभक्तिः परा प्रोक्ता सर्वकामफलप्रदा ॥५४॥

उत्तंको भक्तिभावेन क्रियायोगपरो मुने ॥ पूजयन्माधवं नित्यं नरनारायणश्रमे ॥५५॥

ज्ञानविज्ञानसंपन्नः संच्छिन्नद्वैतसंशयः ॥ आवाप दुरवापं वै तद्विष्णोः परमं पदम् ॥५६॥

पूजितो नमितो वापि संस्मृतो वापि मोक्षदः ॥ नारायणो जगन्नाथो भक्तानां मानवर्द्धनः ॥५७॥

तस्मान्नारायणं देवमनंतमपराजितम् ॥ इहामुत्र सुखप्रेप्सुः पूजयेद्भक्तिसंयुतः ॥५८॥

यः पठेदिदमाख्यानं श़ृणुयाद्वा समाहितः ॥ सोऽपि सर्वाघनिर्मुक्तः प्रयाति भवनं हरेः ॥५९॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे विष्णुमाहात्म्यं नामाष्टत्रिंशोऽध्यायः ॥३८

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-05T05:53:11.2130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

PAÑCĀPSARAS(पञ्चाप्सरस्)

  • A lake of distinction. During the exile of Śrī Rāma in the forests, Agastya showed Śrī Rāma this lake and described its origin thus: “In times of old a sage named Māṇḍakarṇi built this lake. This sage living on air alone stood in the waters of this lake and practised severe austerities for ten thousand years. Devas were frightened by the rigorous penance of Māṇḍakarṇi and they sent five devakanyakās (celestial damsels) to the earth to entice the sage and stop his penance. Tke sage was attracted by the divine beauty of the girls and he lived with them in a grand building constructed within the lake itself. Even after the passing away of the sage and the damsels people used to hear dance and music from inside the lake. Because five apsaras lived in that lake it became known as Pañcāpsaras. (Apsaras = celestial damsels who are servants of Indra). [Sarga 1, Araṇya Kāṇḍa, Vālmīki Rāmāyaṇa]. 
RANDOM WORD

Did you know?

जननशांती म्हणजे काय ? ती केव्हा करावी ?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.