संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः| पश्वचत्वारिशत्तमोऽध्यायः श्री नारदीयमहापुराणम् : पूर्वभागः प्रथमोऽध्यायः द्वितीयोध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पंचविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पंचत्रिशोंऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशत्तमोऽध्यायः पश्वचत्वारिशत्तमोऽध्यायः षट्रचत्वारिंशत्तमोऽध्यायः सप्तचत्वारिंशत्तमोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोध्यायः पञ्चाशत्तमोऽध्यायः एकपंचाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुःपञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषाष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुष्षष्टितमोऽध्यायः पञ्चषष्टिमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षटसप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्याय एकोनाशीतितमोऽध्यायः नामाशीतितमोऽध्यायः नामैकाशीतितमोऽध्यायः व्द्यशीतितमोऽध्यायः त्र्यशीतितमोऽधायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः नामाष्टाशीतितमोऽध्यायः नामैकोननवतितमोऽध्यायः नवतितमोऽध्यायः नामैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः नामाष्टनतितमोऽध्यायः नामैकोनशततमोऽध्यायः शततमोऽध्यायः नामैकोत्तरशततमोऽध्यायः द्वयुत्तरशततमोऽध्यायः त्र्युत्तरशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडुत्तशततमोऽध्यायः सप्तोत्तशततमोऽध्यायः नामाष्टोत्तरशततमोऽध्यायः नवोतरशततमोऽध्यायः दशोत्तरशततमोऽध्यायः नामैकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाघिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशदधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशतमोऽध्यायः पंचविंशोत्तरशततमोऽध्यायः श्री नारदीयमहापुराणम् - पश्वचत्वारिशत्तमोऽध्यायः `नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है। Tags : naradnaradapuranpuranनारदनारदपुराणपुराण पश्वचत्वारिशत्तमोऽध्यायः Translation - भाषांतर सूत उवाच ॥ सनंदनवचः श्रुत्वा मोक्षधर्माश्रितं द्विजाः ॥ पुनः पप्रच्छ तत्त्वज्ञो नारदोऽध्यात्म सत्कथाम् ॥१॥नारद उवाच ॥श्रुतं मया महाभाग मोक्षशास्त्रं त्वयोदितम् ॥ न च मे जायते तृप्तिर्भूयोभूर्योऽपि श्रृण्वतः ॥२॥यथा संमुच्यते जंतुरविद्याबंधनान्मुने ॥ तथा कथय सर्वज्ञ मोक्षधर्म सदाश्रितम् ॥३॥सनंदन उवाच ॥ अत्राप्युदाहरंतीममिहासं पुरातनम् ॥ यथा मोक्षमनु प्राप्तो जनको मिथिलाधिपः ॥४॥जनको जनदेवस्तु मिथिलाया अधीश्वरः ॥ और्ध्वदहिकधर्माणामासीद्युक्तो विचिंतने ॥५॥तस्य श्मशान माचार्या वसति सततं गृहे ॥ दर्शयंतः पृथग्धर्मान्नानापाषंवादिनः ॥६॥स तेषा प्रेत्यभावे च प्रेत्य जातौ विनिश्वये आगमस्थः स भूयिष्ठ मात्मतत्त्वेन तुष्यति ॥७॥तत्र पंचशिखो नाम कपिलेयो महामुनिः ॥ परिधावन्महीं कृत्स्नां जगाम मिथिलामथ ॥८॥सर्वसंन्यासधर्माणः तत्त्वज्ञानविविश्वये ॥ सुपर्यवसितार्थश्व निर्द्वंद्वो नष्टसंशयः ॥९॥ऋषीणामाहुरेकं यं कामादवसितं नृषु ॥ शाश्वतं सुखमत्यंतमन्विच्छन्स सुदुर्लभम् ॥१०॥यमाहुः कपिल्म सांख्याः परमर्षिं प्रजापतिम् ॥ स मन्य तेन रुपेण विख्यापयति हि स्वयम् ॥११॥आसुरेः प्रथमं शिष्यं यमाहुश्चिरजी विनम् ॥ पंचस्त्रोतसि यः सत्रमास्ते वर्षसहस्त्रकम् ॥१२॥ पंचस्त्रोतसमागम्य कापिलं मंडलं महत् ॥ पुरुषावस्थमव्यक्तं परमार्थं न्यवेदयत् ॥१३॥ इष्टिमंत्रेण संयुक्तो भूयश्च तपसासुरिः ॥ क्षेत्रक्षेत्रज्ञयोर्वक्तिं विबुधे देहदर्शनः ॥१४॥यत्तदेकाक्षरं ब्रह्म नानारुपं प्रदृश्यते ॥ आसुरिर्मंडले तस्मिन्प्रतिपेदे तमव्यवयं ॥१५॥तस्य पंचशिखः शिष्यो मानुष्या पयसा भृतः ॥ ब्राह्मणी कपिली नाम काचिदासीत्कुटुम्बिनी ॥१६॥तस्यः पुत्रत्वमागत्य स्त्रियाः स पिबति स्तनौ ॥ ततश्व कपिलेयत्वं लेभे बुद्धिं च नैष्टिकीम् ॥१७॥एतन्मे भगवानाह कापिलेयस्य संभवम् ॥ तस्य तत्कापिलेयत्वं सर्ववित्त्वमनुत्तमम् ॥१८॥सामात्यो जनको ज्ञात्वा ज्ञानिनं सुने ॥ उपेत्य शतमाचार्यान्मोहयामास हेतुभिः ॥१९॥जनकस्तभिसंरक्तः कापि लेयानुदर्शनम् ॥ उत्सृज्य शतमाचार्यान्पृष्ठतोऽनुजगाम तम् ॥२०॥तस्मै परमकल्याणं प्रणताय च. धर्मतः ॥ अब्रवीत्परमं मोक्षं यत्तत्सांख्यं विधी यते ॥२१॥जातिनिर्वेदमुक्ता स कर्मनिर्वेदसुक्ता स कर्मनिर्वेदमब्रवीत् ॥ कर्मनिर्वेदमुक्ता च सर्वनिर्वेदमब्रवीत ॥२२॥यदर्थं धर्मसंसर्गः कर्मणां च फलोदयः ॥ तमनाश्वासिकं मोहं विनाशि चलमध्रुवम् ॥२३॥दृश्यमाने विनाशे च प्रत्यक्षे लोकसाक्षिके ॥ आगमात्परमस्तीति ब्रुवन्नपि पराजितः ॥२४॥अनात्मा ह्यात्मनो मृत्युः क्लशो मृत्युर्जरामयः ॥ आत्मानं मन्यते मोहात्तदसम्यक परं मतम् ॥२५॥अथ चेदेवमप्यस्ति यल्लोके नोपपद्यते ॥ अजरोऽममृत्युश्व राजासौ मन्यते यथा ॥२६॥अस्ति नास्तीति चाप्येतत्तस्मिन्नसितलक्षणे ॥ किमधिष्ठाय तद ब्रूयाल्लोकयात्राविनिश्वयम् ॥२७॥प्रत्यक्षं ह्येतयोर्मूलं कृतांत ह्येतयोरपि ॥ प्रत्यक्षो ह्यागमो भिन्नः कृतांतो वा न किंचन ॥२८॥यत्र तत्रानुमानेऽस्मिन्कृतं भावयतेऽपि च ॥ अन्यो जीवः शरीरस्य नास्तिकानां मते स्थितः ॥२९॥रेतोवटकणीकायां घृतपाकाधिवसनम् ॥ जातिस्मृतिरयस्कांतः सूर्यकांतोंऽबुभक्षणम् ॥३०॥प्रेतभूतप्रियश्वैव देवता ह्युपयाचनम् ॥ मृतकर्मनिवृत्तिं च प्रमाणमिति निश्चयः ॥३१॥नन्वेते हेतवः संति ये केचिन्मूर्तिसंस्थिताः ॥ अमूर्तस्य हि मूर्तेन सामान्यं नोपलभ्यते ॥३२॥अविद्या कर्म तृष्णा च केचिदाहुः पुनर्भवम् ॥ तस्मिन्नष्टे च दग्धे च चित्ते मरणधर्मिणि ॥३३॥अन्योऽस्माज्जायते मोहस्तमाहुः सत्त्वसंक्षयम् ॥ यदा सरुपश्चान्यो जातितः श्रुततोऽर्थतः ॥३४॥कथमस्मिन्स इत्येव संबंधः स्यादसंहितः ॥ एवं सति च का प्रीतिर्ज्ञानविद्यापतोपबलैः ॥३५॥ यदस्याचरितं कर्म सामान्यात्प्रतिपद्यते ॥ अपि त्वर्यमिहैवान्यैः प्राकृतैर्दुःखितो भवेत् ॥३६॥सुखितो दुःखितो वापि दृश्यादृअश्यविनिर्णयः ॥ यथा हि मुशलैर्हन्युः शरीरं तत्पुनर्भवेत् ॥३७॥वृथा ज्ञानं यदन्यच्च येनैतन्नोपलभ्यते ॥ ऋम संवत्सरौ तिष्यः शीतोष्णोऽथ प्रियाप्रिये ॥३८॥यथा तातानि पश्यति तादृशः सत्त्वसंक्षयः॥ जरयाभिर्परीतस्य मृत्युना च विनाशितम् ॥३९॥दुर्बलं दुर्बलं पूर्वं गृहस्येव विनश्यति ॥ इन्द्रियाणि मनो वायुःशोणितं मांसमस्थि च ॥४०॥आनुपूर्व्या विनश्यंति स्वं धातुमुपयाति च ॥ लोक यात्राविद्यातश्व दान धर्मफलागमे ॥४१॥तदर्थ वेदशब्दाश्व व्यवहाराश्व लौकिकाः ॥ इति सम्यङ् मनस्येते बहवः संति हेतवः ॥४२॥ऐत दस्तीति नास्तीति न कश्चित्प्रतिदृश्यते ॥ तेषां विमृशतामेव तत्सम्यगभिधावताम् ॥४३॥क्कचिन्निवसते बुद्धिस्तत्र जीर्यति वृक्षवत् ॥ एवतु र्थैरनर्थैश्व दुःखिता सर्वजंतवः ॥४४॥आगमरैपकृष्यंते हस्तिपैर्हस्तिनो यथा ॥४५॥अथांस्तथा हंति सुखावहांश्व लिहत एते बहवोपशुष्काः ॥ महत्तरं दुःखमभिप्रपन्ना हित्वामिंह मृत्युवंश प्रयांति ॥४६॥विनाशिनो ह्यध्रुवजीविनः किं किं बंधुभिर्मित्रपरिग्रहैश्च ॥ विहाय यो गच्छति नाप्यस्य क्षणेन गत्वा न निवर्तते च ॥४७॥भूव्योमतोयानलवायवोऽपि सदा शरीरं प्रतिपालयंति ॥ इतीदमालक्ष्य रतिः कुतो भवेद्विनाशि नाप्यस्य न शम विद्यते ॥४८॥इदमनुपधिवाक्यमच्छलं परमनिरामयमात्मसाक्षिकम् ॥ नरपतिरभिवीक्ष्य विस्मितः पुनरनुयोक्तुमिदं प्रचक्रमे ॥४९॥जनक उवाच ॥भगवन्यदि न प्रेत्य संज्ञा भवति कस्यचित् ॥ एवं सति किमज्ञानं ज्ञांन वा किं करिष्यति ॥५०॥सर्वमुच्छेदनिष्ठं स्यात्पश्य चैतद्दिजोत्तम॥ अप्रमत्तः प्रमत्तो वा किं विशेषं करिष्यति ॥५१॥असंसर्गो हि भूतेषु संसर्गो बा विनाशिषु ॥ कर्स्मे क्रियत कल्पेत निश्चयः कोऽत्र तत्तवः ॥५२॥सनंदन उवाच ॥तमसा हि मतिच्छत्रं विभ्रांमिव चातुरम् ॥ पुनः प्रशमयन्वाक्यैः कविः पंचशिखोऽब्रवीत ॥५३॥पंच शिख उवाच ॥उच्छेदनिष्ठा नेहास्ति भावनिष्ठा न विद्यते ॥ अयं ह्यपि समाहारः शरीर्रोद्रियचेतसाम् ॥५४॥वर्तते पृथगन्योन्यमप्युपाश्रित्य कर्मसु ॥ धातवः पंचधा तोयं खे वायुर्ज्योतिषो धरा ॥५५॥तेषु भावेन तिष्ठंति वियुज्यंते स्वभावतः ॥ आकाशं वायुरुष्मा च स्त्रेहो यश्वापि पाथिवः ॥५६॥एष पञ्चसमाहारः शरीरमपि नैकधा ॥ ज्ञानमूष्मा च वायुश्व त्रिविधः कायसंग्रहः ॥५७॥इंद्रियाणींद्रियार्थाश्व स्वभावश्चेतना मनः ॥ प्राणापानौ विकारश्व धातश्वात्र निःसृताः ॥५८॥श्रवण्म स्पर्शनं जिह्रा दृष्टिर्नासा तथैव च ॥ इंद्रियाणीति पंचैते चित्तपूर्वंगमा गुणाः ॥५९॥तत्र विज्ञानसंयुक्ता त्रिविधा चेतना ध्रुवा ॥ सुखदुःखेति यामाहुनदुःखासुखेति च ॥६०॥शब्दः स्पर्शश्व रुपं च मूर्त्यर्थंमेव ते त्रयः ॥ एते ह्यामरणात्पंच सद्धुणा ज्ञानसिद्धये ॥६१॥तेषु कर्मणि सिद्धिश्व सर्वतत्त्वार्थनिश्वयः ॥ तमाहुह परमं शुद्धं बुद्धिरित्यव्ययं महत् ॥६२॥इमं गुणसमाहरामात्मभावेन पश्यतः ॥ असम्यदर्शनैर्दुःखमंनतं नोपशाम्यति ॥६३॥अनात्मेति च यदृष्टं तेनाह्म न ममेत्यपि ॥ वर्तते किमधिष्ठानार्प्रसक्ता दुःखसंततिः ॥६४॥तत्र सम्यग्जनो नाम त्यागशास्त्रमनुत्तमम् ॥ श्रृणुयात्तच मोक्षाय भाष्यमाणं भविष्यति ॥६५॥त्याग एव हि सर्वेषामुक्तानामपि कर्मणाम् ॥ नित्यं मिथ्याविनीतानां क्लेशो दुःखावहो मतः ॥६६॥द्रव्यत्यागे तु कर्मंणि भोगत्यागे व्रतानि च ॥ सुख त्यागे तपो योगं सर्वत्यागे समापना ॥६७॥तस्य मार्गोऽयमद्वैधः सर्वत्यागस्य दर्शितः ॥ विप्रहाणाय दुःखस्य दुर्गतिर्हि तथा भवेत् ॥६८॥पंच ज्ञानेंद्रियाण्युक्ता मनःषष्ठानि चेतसि ॥ बलषष्ठानि वक्ष्यामि पंच कर्मेद्रियाणि तु ॥६९॥हस्तौ कर्मेद्रियं ज्ञेयमथ पादौ गतींद्रियम् ॥ प्रज नानदयोमेढ्रो विसर्गी पायुरींद्रीयम् ॥७०॥वाक्च शब्दविशेषार्थमिति पंचान्वितं विदुः ॥ एवमेकादशैतानि बुद्धया त्ववसृजन्मनः ॥७१॥कर्णो शब्दश्व चित्तं च त्रयः श्रवणासंग्रहे ॥ तथा स्पशें तथा रुपे तथैव रसगंधयोः ॥७२॥एवं पंच त्रिका ह्येते गुणस्तदुपलब्धये ॥ येनायं त्रिविधो भावः पर्यायात्समुपस्थितः ॥७३॥सात्त्विको राजसश्वापि तामसश्वापि त्रयः ॥ त्रिविधा वेदना येषु प्रसृता सर्वसाधिनी ॥७४॥प्रहर्षः प्रीतिरानंदः सुखं संशान्तचित्तता॥ अकुतश्वित्कुतश्विद्वा चित्ततः सात्त्विको गुणः ॥७५॥अतुष्टिः परितापश्व शोको लोभस्तथाऽक्षमा लिंगानि रजस्तानि दृश्यंते हेत्वहेतुतः ॥७६॥अविवेकस्तथा मोहः प्रमादःस्वप्नतंद्रिता ॥ कथंचिदपि वर्तंते विविधास्तामसा गुणाः ॥७७॥इमां च यो वेद विमोक्षबुद्धिमात्मानमन्विच्छति चाप्रमत्तः ॥ न लिप्यते कर्मफलैरनिष्टैः पत्रं विषस्येव जलेन सिक्तम् ॥७८॥दृढैर्हि पाशेर्विवि धैर्विमुक्तः प्रजानिमित्तैरपि दैवतैश्व ॥ यदा ह्यसौ दुःखसौख्ये जहाति मुक्तस्तदाऽग्र्यां गतिमेत्यलिंगः ॥७९॥श्रुतिप्रमाणगममंगलैश्व शेते जरानृ त्युभयादतीतः ॥ क्षीणे च पुण्ये विगते च पापे तनोर्निमित्ते च फले विनष्टे ॥८०॥अलेपमाकाशमलिंगमेवमास्थाय पश्यंति महत्यशक्त्ता ॥ यथोर्णनाभिः परिवर्तमानस्तंतुक्षये तिष्ठति यात्यमानः ॥८१॥तथा विमुक्तः प्रजहाति दुःखं विध्वंसते लोष्टमिवादिमृच्छन् ॥ यथा रुरुः शृंग मथो पुराणं हित्वा त्वचं वाप्युरगो यथा च ॥८२॥विहाय गच्छन्नवेक्षमाणस्तथा विसुक्तो विजहाति दुःखम् ॥ मत्स्यं यथा वाप्युदके पतंतसुत्सृज्य पक्षी निपतत्यशक्तः ॥८३॥तथा ह्यसौ दुःखसौख्ये विहाय मुक्तः पराद्धर्यां गतिमेत्यलिंगः ॥८४॥इदममृतपदं निशम्य राजा स्वयमिह पंचशिखेन भाष्यमाणम् ॥ निखिलमभिसमीक्ष्य निश्वितार्थः परमसुखी विजहार वीतशोकः ॥८५॥अपि च भवति मैथिलेन गति नगरमुपाहितम ग्निनाभिवीक्ष्य ॥ न खलु मम हि दह्यतेऽत्र किंचित्स्वयमिदमाह किल स्म भूमिपालः ॥८६॥इमं हि यः पठति विमोक्षनिश्वर्यं महामुने सततमवेक्षते तथा ॥ उपद्रवाननुभवते ह्यदुः खितः प्रमुच्यते कपिलमिवैत्य मैथिलः ॥८७॥इति श्रीबृहन्नारदीपुराने पूर्वभागे बृहदुपाख्याने द्वितीयपादे पश्वचत्वारिशत्तमोऽध्यायः ॥४५॥ N/A References : N/A Last Updated : May 13, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP