संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः| षटसप्ततितमोऽध्यायः श्री नारदीयमहापुराणम् : पूर्वभागः प्रथमोऽध्यायः द्वितीयोध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पंचविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पंचत्रिशोंऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशत्तमोऽध्यायः पश्वचत्वारिशत्तमोऽध्यायः षट्रचत्वारिंशत्तमोऽध्यायः सप्तचत्वारिंशत्तमोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोध्यायः पञ्चाशत्तमोऽध्यायः एकपंचाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुःपञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषाष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुष्षष्टितमोऽध्यायः पञ्चषष्टिमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षटसप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्याय एकोनाशीतितमोऽध्यायः नामाशीतितमोऽध्यायः नामैकाशीतितमोऽध्यायः व्द्यशीतितमोऽध्यायः त्र्यशीतितमोऽधायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः नामाष्टाशीतितमोऽध्यायः नामैकोननवतितमोऽध्यायः नवतितमोऽध्यायः नामैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः नामाष्टनतितमोऽध्यायः नामैकोनशततमोऽध्यायः शततमोऽध्यायः नामैकोत्तरशततमोऽध्यायः द्वयुत्तरशततमोऽध्यायः त्र्युत्तरशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडुत्तशततमोऽध्यायः सप्तोत्तशततमोऽध्यायः नामाष्टोत्तरशततमोऽध्यायः नवोतरशततमोऽध्यायः दशोत्तरशततमोऽध्यायः नामैकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाघिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशदधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशतमोऽध्यायः पंचविंशोत्तरशततमोऽध्यायः श्री नारदीयमहापुराणम् - षटसप्ततितमोऽध्यायः `नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है। Tags : naradnaradapuranpuranनारदनारदपुराणपुराण षटसप्ततितमोऽध्यायः Translation - भाषांतर नारद उवाच ॥कार्तवीर्यप्रभृतयो नृपा बहुविधा भुवि ॥ जायंतेऽथे प्रलीयंते स्वस्वकर्मनुसारतः ॥१॥तत्कथं राजवर्योऽसौ लोके सेव्यत्वमागतः समुल्लंघ्य नृपानन्यानेतन्मे नुद संशयम् ॥२॥सनत्कुमार उवाच ॥श्रृणु नारद वक्ष्यामि संदेहविनिवृत्तये ॥ यथा सेव्यत्वमापन्नः कार्तवीर्याजुनो भुवि ॥३॥यः सुदर्शनचक्रस्यावतारः पृथिवीतलेः दत्तत्रेयं समाराध्य लब्धवांस्तेज उत्तमम् ॥४॥तस्य क्षितीश्व रद्रेस्य स्मरणादेव नारद ॥ शत्रूञ्जयति संग्रामे नष्टं प्राप्नोति सत्वरम् ॥५॥तेनास्य मंत्रपूजादि सर्वतत्रेषु गोपितम् ॥ तुभ्यं प्रकाशयिष्येऽहं सर्व सिद्धिप्रदायकम् ॥६॥वह्रितारयुता रौद्री लक्ष्मीग्रींदुशांतियुक् ॥ वेधाधरेन्दुशांत्याढ्यो निद्रयाशाग्रि बिंदुयुक् ॥७॥पाशो मायांकुशं पद्मावर्मास्त्रे कार्तवीपदम् ॥ रेफोवा द्यासनोऽनन्तो वह्रिजौ कर्णसंस्थितौ ॥८॥मेषः सदीर्घः पवनो मनुरुक्तो त्दृदंतिमः ॥ ऊनर्विशतिवर्णोऽयं तारादिर्नखवर्णकः ॥९॥दत्तात्रेयो मुनिश्वास्यच्छन्दोऽनुष्टुबुदाह्रतम् ॥ कार्तवीर्याजुनी देवो बीजशक्तिर्ध्रुवश्व त्दृत् ॥१०॥शेषाढयबीजयुग्मेन हदयं विन्यसेदधः ॥ शांतियुक्तचतुर्थेन कामाद्येन शिरोंऽगकम् ॥११॥इन्द्वाढ्यं वामकर्णाद्यमाययोर्विशयुक्तया ॥ शिखामंकुशपद्माभ्यां सवाग्भ्यां वर्म विन्यसेत् ॥१२॥वर्मास्त्राभ्यामस्त्रमुक्तं शेषार्णैर्व्यापकं पुनः ॥ त्दृदये जठरे गुह्यदेशतः ॥१३॥दक्षपादे वामपादे सक्त्थ जानुनि जंघयोः ॥ विन्यसेद्वीजदशकं प्रणवद्वयमध्यगम् ॥१४॥ताराद्यानथ शेषार्णान्मस्तके च ललाटके ॥ भ्रुवोः श्रुयोस्तथैवाक्ष्णोर्नसि वक्रेगलेंऽसके ॥१५॥सर्वमन्त्रेण सर्वांगे कृत्वा व्यापकमादृतः ॥ सर्वेष्टसिद्धये ध्यायेत्कार्तवीर्यं जनेश्वरम् ॥१६॥उद्यदर्कसहस्त्राभं सर्वभूपतिवन्दितम् ॥ दोर्भिः पञ्चाशता दक्षैर्बाणान्वामैर्धनूंषि च ॥१७॥दधतं स्वर्णमालाढ्यं रक्तवस्त्रसमावृतम् ॥ चक्रावतारं श्रीविष्णोर्ध्यायेदर्जुनभूपतिम् ॥१८॥लक्षमेकं जपेन्मंन्त्रं दशांशं जुहुयात्तिलैः ॥ सतण्डुलैः पायसेन विष्णुपीठे यजेत्तु तम् ॥१९॥षटोणेषु षडंगानि ततो दिक्षु विदिक्षु च ॥ चौरमदवि भञ्जनं मारीमदविभंजनम् ॥२०॥अरिमदविभंजनं दैत्यमदविभंजनम् ॥ दृष्टनाशं दुःखनाशं दुरितापद्विनाशकम् ॥२१॥दिक्ष्वष्टशक्तयः पूज्याः प्राच्यादिष्वसितप्रभाः ॥ क्षेमंकरी वश्यकरी श्रीकरी च यशस्करी ॥२२॥आयुःकरी तथा प्रज्ञाकरी विद्याकरी पुनः । धनकर्यष्टमी पश्वाल्लोकेशा अस्त्रंसंयुताः ॥२३॥एवं संसाधितो मंत्रः प्रयोगार्हः प्रजायते ॥ कार्तवीर्यार्जुनस्याथ पूजायंत्रमिहोच्यते ॥२४॥स्वबीजानंगध्रुवावाक्कर्णिकं दिग्दलं लिखेत् ॥ तारादिवर्मांतदलं शेषदलांतरम् ॥२५॥ऊष्मान्त्यस्वरकिंजल्कं शेषार्णैः परिवेष्टितम् ॥ कोणालंकृतभूतार्णभूगृहं यन्त्रमीशितुः ॥२६॥शुद्धभूमावष्टगन्धैर्लिखित्वा यन्त्रमादरात् ॥ तत्र कुंभं प्रतिष्ठाप्य तत्रावाह्यार्चयेन्नृपम् ॥२७॥स्पृष्ट्रा कुंभं जपेन्मंन्त्र सहस्त्रं विजितेंद्रियः ॥ आभिषि चेत्तदंभोभिः प्रियं सर्वेष्टासिद्धये ॥२८॥पुत्रान्युशो रोगनाशमायुः स्वजनरंजनम् ॥ वाक्सिद्धिं सुदृशः कुम्भाभिषिक्तो लभते नरः ॥२९॥शत्रूप द्रव आपन्ने ग्रामे वा पुटभेदने ॥ संस्थापंयेदिदं यन्त्रं शत्रुभीतिनिवृत्तये ॥३०॥सर्षपारिष्टलशुनकार्पासैर्मायेते रिपुः ॥ धत्तूरैः स्तभ्यते निम्बैर्द्वैष्यते वश्यतेंऽबुजैः ॥३१॥उच्चाटने विभीतस्य समिद्धिः खदिरस्य च ॥ कटुतैलुमहिष्याज्यैर्होमद्रव्यांजनं स्मृतम् ॥३२॥यवैर्हुते श्रियः प्राप्ति स्तिलैराज्यैघक्षयः ॥ तिलतंडुलसिद्धार्थजालैर्वश्यो नृपो भवेत् ॥३३॥अपामार्गर्कदूर्वाणां होमो लक्ष्मीप्रदोऽघनुत् ॥ स्त्रीवश्यकृत्प्रियंगूणां सुराणां भूतशांतिदः ॥३४॥अश्वत्थोदुंबरप्लक्षवटबिल्वसमुद्धवाः ॥ समिधो लभते हुत्वा पुत्रानायुर्द्धनं सुखम् ॥३५॥निर्मोकहेमसिद्धार्थलवणैश्वौरनाशनम् ॥ रोचनागोमयैस्तंभो भूप्राप्तिः शालिभिर्हुतैः ॥३६॥होमसंख्या तु सर्वत्र सहस्त्रादयुतावधि ॥ प्रकल्पनीया मन्त्रज्ञैः कार्य्यगौ ख्लाघवात् ॥३७॥कार्तवीर्य्यस्य मन्त्राणामुच्यते लक्षणं बुधाः ॥ कार्तवीर्यार्जुनं ङेंते सर्वमंत्रेषु योजयेत् ॥३८॥स्वबीजाद्यो दक्षार्णोऽसौ अन्ये नवशिवाक्षराः ॥ आद्यबीजद्वयेनासौ द्वितीयो मन्त्र ईरितः ॥३९॥स्वकामाभ्यां तृतीयोऽसौ स्वभ्रूभ्यां तु चतुर्थकः ॥ स्वपाशाभ्यां पञ्चमोऽसौ षष्ठः स्वेन च मायया ॥४०॥स्वांकुशाभ्यां सप्तमः स्यात्स्वमाभ्यामथाष्टमः ॥ स्ववाग्भभ्यां नवमो वर्मास्त्राभ्यामथांतिम् ॥४१॥द्वितीयादिनवांतेषु बीजयोः स्याद्वयतिक्रमः ॥ मंत्रे तु दशमे वर्णा नववर्नास्त्रमध्यगाः ॥४२॥एतेषु मंत्रवर्येषु स्वानुकूलं मनुं भजेत् ॥ एषामाद्ये विराट्छंदोऽन्येषु त्रिष्टुबुद्दाद्दतम् ॥४३॥दश मंत्रा इमे प्रोक्ता यदा स्युः प्रणवादिकाः ॥ तदादिमः शिर्वाणः स्यादन्ये तु द्वादशाक्षराः ॥४४॥त्रिष्टुप् छन्दस्तथाद्ये स्यादन्येषु जगती मता ॥ एवं विंशतिमंत्राणां यजनं पूर्ववन्मतम् ॥४५॥दीर्घामूलबीजन कुर्यादेषां षडंगकम् ॥ तारो ह्रत्कार्तवीर्यार्जुनाय वर्मास्त्रठद्वयम् ॥४६॥चतुर्दशार्णो मंत्रोऽयमस्येज्या पूर्ववन्मता ॥ भूमेत्रसमनेत्राक्षिवर्णैरस्यांगपंचकम् ॥४७॥तारो हद्धगवान् ङेंत कार्तवीयुर्जुनस्तथा ॥ धर्मास्त्राग्रिप्रियामंत्रः प्रोक्तो ह्र्ष्टादशार्णकः ॥४८॥त्रिवेदेसप्तयुग्माक्षिवर्णेः पंचांगकं मनोः ॥ नमो भगवते श्रीति कार्तवीर्यार्जुनाय च ॥४९॥सर्वदुष्टांतकायेति तपोबलपराक्रमः ॥ परिपालितसप्तांते द्वीपाय सर्वरापदम् ॥५०॥जन्यचूडा मर्णाते ये महाशक्तिमते ततः ॥ सहस्त्रदहनप्रांते वर्मास्त्रांतो महामनुः ॥५१॥त्रिषष्टिवर्णवान्प्रोक्तः स्मरणात्सर्वविघ्नत्दृत् ॥ राजन्यचक्रवतीं च वीरः शूरस्तृतीयकः ॥५२॥माहिष्मतीपतिः पश्वाच्चतुर्थः समुदीरितः ॥ रेवांबुपरितृप्तश्व काणो हस्तप्रबाधितः ॥५३॥दशास्येति च षडिः स्यात्पदैर्ङेतैः षडंगकम् ॥ सिंच्यमानं युवतिभिः क्रीडंतं नर्मदाजले ॥५४॥हस्तैर्जलौद्यं रुंधतं ध्यायेन्मत्तं नृपोत्तमम् ॥ एवं ध्यात्वा युतं मंत्रं जपेदन्यत्तु पूर्ववत् ॥५५॥पूर्वं तु प्रजपेल्लक्षं पूजायोगश्व पूर्ववत् ॥ कार्तवीर्यार्जुनी नाम राजा बाहुसहस्त्रवान् ॥५६॥तस्य संस्मरणादेव त्दृतं नष्टं च संवदेत् ॥ लभ्यते मंत्रवर्योऽयं द्वात्रिंशद्वर्णसंयुतः ॥५७॥पादैः सर्वेण पंचांगं ध्यानपूजादि पूर्ववत् ॥ कार्तवीर्याय शब्दांते विद्महे पद्ममुच्चरेत् ॥५८॥महावीर्याय वर्णंते धीमहीति पदं वदेत् ॥ तन्नोऽर्जुनः प्रवर्णांते चोदत्यात्पदमीरयेत् ॥५९॥गायत्र्येषार्जुन स्योक्ता प्रयोगादौ जपेत्तु ताम् ॥ अनुष्टुभं मनुं रात्रौ जपतां चौरसंचयाः ॥६०॥पलायंते गृहाद्दुरं तर्पणाद्धवनादपि ॥ अथो दीपविधिं वक्ष्ये कार्तवीर्याप्रियंकरम् ॥६१॥वैशाखं श्रावणे मार्गे कार्तिकाश्विनपौषतः ॥ माघफाल्गुनयोमार्सर्दीपारंभं समाचरेत् ॥६२॥तिथौ रिक्ताविहीनायां वारे शनिकुजौ विना ॥ हस्तोत्तराश्विरौद्रेयपुष्यवैष्णववायुभे ॥६३॥द्विदैवते च रोहिण्यां दीपारंभो हितावहः ॥ चरमे च व्यतीपाते धृतौ वृद्धौ सुकर्मणि ॥६४॥प्रीतौ हर्षं च सौभाग्य शोभानायुषतोरपि ॥ करणे विष्टिरहिते ग्रहणेऽर्द्धोदयादिषु ॥६५॥योगेषु रात्रौ पूर्वाह्रे दीपारंभः कृतः शुभः ॥ कार्तिके शुल्कसप्तम्यां निशीथेऽतीव शोभनः ॥६६॥यदि तत्र खेवार्वारः श्रवणं भं च दुर्लभम् ॥ अत्या वश्यककार्येषु मासादीनां न शोधनम् ॥६७॥आद्ये ह्युपोष्य नियतो ब्रह्मचारी सपीतकैः ॥ प्रातः स्तात्वा सुद्धभूमौ लिप्तायां गोमयोदकैः ॥६८॥प्राणानायम्य संकल्प न्यासान्पूर्वोदितांश्वरेत् ॥ षट्कोणं रचयेद्धूमौ रक्तचंदनतंडुलैः ॥६९॥अतः स्मर स्मालिख्य षट्रकोणेषु समा लिखेत् ॥ नवार्णैर्वेष्टयेत्तच्च त्रिकोणं तद्वहिः पुन्ह ॥७०॥एवं विलिखिते यन्त्रे निदध्याद्दीपभाजनम् ॥ स्वर्णजं रजतोत्थं वा ताम्रजं तदभावतः ॥७१॥कांस्यपात्रं मृण्मयं कनिष्ठं लोहजं मृतौ ॥ शांतये मुद्रचूर्णोत्थ संधौ गोधूमचूर्णजम् ॥७२॥आज्ये पलसहस्त्रे तु पात्र शतपलं स्मृतम् ॥आज्येऽयुतपले पात्रं पलपंचशता स्मृतम् ॥७३॥पंचसप्ततिसंख्ये तु पात्रं षष्टिपलं स्मृतम् ॥ त्रिसाहस्त्री घृतपले शर्करापलभाजनम् ॥७४॥द्विसाहख्यां द्विशतमितं च भाजनमिष्यते ॥ शतेऽक्षिचरसंख्यातमेवमन्यत्र कल्पयेत् ॥७५॥नित्यदीपे वह्रिपलं पात्रमाज्यं पलं स्मृतम् ॥ एवं पात्रं प्रतिष्ठाप्यः वर्तीः सुत्रोत्थिताः क्षिपेत् ॥७६॥एका तिस्त्रोऽथवा पंचसप्ताद्या विषमा अपि ॥ तिथिमानादासहस्त्रं तंतुंसख्या विनिर्मिता ॥७७॥गोघृतं प्रक्षिपेत्तत्र शुद्धवस्त्रविशोधितम् ॥ सहस्त्रपलसंख्यादिदशांशं कार्यगौरवात् ॥७८॥सुवर्णादिकृतां रम्यां शलाकां षोडशांगुलाम् ॥ तदर्द्धां वा सूक्ष्माग्रां स्थूलमूलिकाम् ॥७९॥विसुंचेद्दक्षिणे पात्रमध्ये चाग्रे कृताग्रिकाम् ॥ पात्रदक्षिणादिग्देशे मुक्तां गुलचतुष्टयम् ॥८०॥अधोग्रां दक्षिणाधारां निखनेच्छुरिकां शुभाम् ॥ दीपं प्रज्वालयेत्तत्र गणेशस्मृतिपूर्वकम् ॥८१॥दीपात्पूर्वत्र दिग्भागे सर्वतोभद्रमंडले ॥ तंडुलाष्टादले वापि विधिवत्स्थापयेद्द्धटम् ॥८२॥तत्रावाह्य नृपाधीषं पूजयेत्पूर्ववत्सुधीः ॥ जलाक्षतान्समादाय दीपं संकल्पयेत्ततः ॥८३॥दीपसंकल्पमंत्रोऽयं कथ्यते द्वीषभूमितः ॥ प्रणवः पाशमाये च शिखा कार्ताक्षराणि च ॥८४॥वीर्या र्जुनाय माहिष्मतीनाथाय सहस्त्र च ॥ बाहवे इति वर्णांते सहस्त्रपदमुच्चरेत् ॥८५॥क्रतुदीक्षितहस्ताय दत्तात्रेयप्रियाय च ॥ आत्रेयायानुसूयांते गर्भरत्नाय तत्परम् ॥८६॥नमो ग्रीवामकर्णैदुस्थितौ पाश इमं ततः ॥ दीपं गृहाणं अमुकं रक्ष रक्ष पदं पुनः ॥८७॥दुष्टान्नाशययुग्मं स्यात्तथाअ पातय घातय ॥ शत्रून जहिद्वंय माया तार्ह स्वं बीजमात्मभूः ॥८८॥वह्रिप्रिया अनेनाथ दीपवर्येण पश्विमा ॥ भिमुखेनामुकं रक्ष अमुकांते वरप्रद ॥८९॥मायाकाशद्वयं वामनेत्रचंद्रयुतं शिवा ॥ वेदादिकामचामुंडाः स्वाहा तु पूसबिंदुकौ ॥९०॥प्रणवोऽग्निप्रिया मंत्रो नेत्रबाणाधराक्षरः ॥ दत्तात्रेयो मुनिर्मालामंत्रस्य परिकीर्तितः ॥९१॥छन्दोऽमितं कार्तवीर्यार्जुनी देवोऽखिलाप्ति कृत ॥ चामुंड्या षडंगानि चरेत्षड्दीर्घयुक्तया ॥९२॥ध्यात्वा देव्म ततो मंत्रं पठित्वांते क्षिपेज्जलम् ॥ गोविंदाढ्यो हली सेंदुश्वामुंडाबीजमीरितम् ॥९३॥ततो नवाक्षरं मंत्रं सहस्त्रं तत्पुरो जपेत् ॥ तारोऽनंतो बिंदुयुक्तो मायास्वं वामनेत्रयुकू ॥९४॥कूर्माग्नी शांतिबिंद्वाढ्यौ वह्रि जायांकुशं ध्रुवम् ॥ ऋषिः पूर्वोदितोनुष्टुप्छंदोऽन्यत्पूर्वत्पुनः ॥९५॥सहस्त्रं मंत्रराज्म च जपित्वा कवच्म पठेत् ॥ एवं दीपप्र्दाननस्य कतीप्नोखिलेऽप्सितम् ॥९६॥दीपप्रबोधनकाले तु वर्जयेदशुभां गिरम् ॥ विप्रस्य दर्शनं तत्र शुभदं परिकीर्तितम् ॥९७॥शूद्राणां मध्यमं प्रोक्तं ग्लेच्छस्य वधबन्धनम् ॥ अख्वोत्वोर्दर्शत्म दुष्टं रावाश्वस्य सुखावहम् ॥९८॥दीपज्वाला समा सिध्दयै वक्रा नाशविधायिनी ॥ शब्दा भयदा कर्तुरुज्ज्वला सुखदा मता ॥९९॥कृष्णा शङभयोत्पत्त्यैं वमंती पशुनाशिनी ॥ कृते दीपे यदा पात्रं भग्रं दृश्येत दैवतः ॥१००॥पक्षदर्वाक्तदा गच्छेद्यजमानो यमालयम् ॥ वर्त्यंतरं यदा कुर्यात्कार्यं सिद्धयेद्विलंबतः ॥१०१॥नेत्रहीनो भवेत्कर्ता तस्मिन्दी पांतरे कृते ॥अशुचिस्पर्शने व्याधिर्दिपनाशे तु चौरभीः ॥१०२॥श्वमार्जारासुखसंस्पर्शे भवेद्धपतितो भयम् ॥ पात्रारंभे वसुपलैः कृतो दीपोऽखिलेष्टदः ॥१०३॥तस्माद्दीपः प्रयत्नेन रक्षणीयोंऽतरायतः ॥ आसमाप्तेः प्रकुर्वित ब्रह्मचर्यं च भूशयः ॥१०४॥स्त्रीशूद्रपतितादीनां संभाषमपि वर्जयेत् ॥ जपेत्सहस्त्रं प्रत्येकं मंत्रराजं नवाक्षरम् ॥१०५॥स्तोत्रपाठं प्रतिदिनं निशीथिन्यां विशेषतः ॥ एकपादेन दीपाग्रे स्थित्वा यो मंत्रना यकम् ॥१०६॥सहंस्त्र प्रजपेद्रात्रौ सोऽभीष्टं क्षिप्रमाप्नुयात् ॥ समाप्य शोभनदिने संभोज्य द्विजसत्तमान् ॥१०७॥कुंभोदकेन कर्तारमभि षिंचन्मनुं जपेत् ॥ कर्ता तु दक्षिणां दद्यात्पुष्कलां तो षहेतवे ॥१०८॥गुरौ तुष्टे ददातीष्टं कृतवीर्यसुतो नृपः ॥ गुर्वाज्ञयां स्वयं कुर्याद्यदि वा कारये द्रुरुः ॥१०९॥दत्त्वा धनादिकं तस्मै दीपदानाय नारद । गुर्वाज्ञामन्त्ररा कुर्याद्यो दीपं स्वेष्टसिद्धये ॥११०॥सिद्धिर्न जायते तस्य हान्रेव पदे पदे ॥ उत्तमं गोघृतं पोक्तं मध्यमं महषीभवम् ॥१११॥तिलतैलं तु तादृक स्यात्कनीयोऽजादिजं घृतम् ॥ आस्यरोगे सुगंधेन दद्यात्तेलेन दीपकम् ॥११२॥सिद्धार्थसंभवेनाथ द्विषतां नाशनाय च ॥ सहस्त्रेण पलैर्दीप विहिते न दृश्यते ॥११३॥कार्यसिद्धिस्तदा कुर्यातिवारं दीपजं विधिम् ॥ तदा सुदुर्लभमपि कार्य्यं सिद्धयेन्न संशयः ॥११४॥दीपप्रियः कार्तवीर्यो मार्तंडो नतिवल्लभे ॥ स्तुतिप्रियो महविष्णुर्गणेश स्तर्पणाप्रियः ॥११५॥दुर्गार्चनप्रिया नूनमभिषेकप्रियः शिवः ॥ तस्मात्तेषां प्रतोषाय विदध्यात्तत्तदादरात् ॥११६॥इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे कार्तवीर्यमाहात्म्यमन्त्रदीपकथनं नाम षटसप्ततितमोऽध्यायः ॥७६॥ N/A References : N/A Last Updated : June 06, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP