संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः| प्रथमोऽध्यायः श्री नारदीयमहापुराणम् : पूर्वभागः प्रथमोऽध्यायः द्वितीयोध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पंचविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पंचत्रिशोंऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशत्तमोऽध्यायः पश्वचत्वारिशत्तमोऽध्यायः षट्रचत्वारिंशत्तमोऽध्यायः सप्तचत्वारिंशत्तमोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोध्यायः पञ्चाशत्तमोऽध्यायः एकपंचाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुःपञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषाष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुष्षष्टितमोऽध्यायः पञ्चषष्टिमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षटसप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्याय एकोनाशीतितमोऽध्यायः नामाशीतितमोऽध्यायः नामैकाशीतितमोऽध्यायः व्द्यशीतितमोऽध्यायः त्र्यशीतितमोऽधायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः नामाष्टाशीतितमोऽध्यायः नामैकोननवतितमोऽध्यायः नवतितमोऽध्यायः नामैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः नामाष्टनतितमोऽध्यायः नामैकोनशततमोऽध्यायः शततमोऽध्यायः नामैकोत्तरशततमोऽध्यायः द्वयुत्तरशततमोऽध्यायः त्र्युत्तरशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडुत्तशततमोऽध्यायः सप्तोत्तशततमोऽध्यायः नामाष्टोत्तरशततमोऽध्यायः नवोतरशततमोऽध्यायः दशोत्तरशततमोऽध्यायः नामैकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाघिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशदधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशतमोऽध्यायः पंचविंशोत्तरशततमोऽध्यायः श्री नारदीयमहापुराणम् - प्रथमोऽध्यायः नारदपुराणात शिक्षण, कल्प, व्याकरण, छन्द शास्त्राचे आणि परमेश्वराच्या उपासनेचे विस्तृत वर्णन आहे. Tags : naradnaradapuranpuranनारदनारदपुराणपुराण प्रथमोऽध्यायः Translation - भाषांतर ॐ श्री गुरुभ्यो नमः ॥ ॐ श्रीगणेशाय नमः ॥ ॐ नमो भगवते वासुदेवाय ॥ ॐ नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ॥ देवीं सरस्वतीं चैवततो जयमुदीरयेत् ॥१॥ ॐ वेदव्यासाय नमः ॥ वृन्दे वृन्दावनासीनमिन्दिरानन्दमन्दिरम् ॥ उपेन्द्रं सांद्रकारुण्यं परानन्दं परात्परम् ॥१॥ ब्रह्मविष्णुमहेशाख्यां यस्यांशा लोकसाधकाः ॥ तमादिदेवं चिद्रूपं विशुद्धं परमं भजे ॥२॥ शौनकाद्या महात्मान ऋषयो ब्रह्मवादिनः ॥ नैमिषाख्ये महारण्ये तपस्ते पुर्मुमुक्षवः ॥३॥ जितेंन्द्रिया जिताहाराः सन्तः सत्यपराक्रमाः ॥ यजन्तः परया भक्तया विष्णुमाद्य सनातनम् ॥४॥ अनीर्ष्याः सर्वधर्म्मज्ञा लोकानुग्रह तत्पराः ॥ निर्म्ममा निरहंकाराः परस्मिन्रतमानसाः ॥५॥ न्यस्तकामा विवृजिनाः शमादिगुणसंयुताः ॥ कृष्णाजिनोत्तरीयास्ते जटिला ब्रह्मचारिणः ॥६॥ गृणन्तः परमं ब्रह्म जगच्चक्षुः समौजसः ॥ धर्म्मशास्त्रार्थत्त्वज्ञास्तेपुर्नैमिषकानने ॥७॥ यज्ञैर्यज्ञपतिं केचिज्ज्ञानैर्ज्ञानात्मकं परे ॥ केचिच्च परया भक्तया नारायणमपूजयन् ॥८॥ एकदा ते महात्मानः समाजं चक्रुरुत्तमाः ॥ धर्मार्थकाममोक्षाणामुपायाञ्ज्ञातुमिच्छवः ॥९॥ षड्विशतिसहस्राणि मुनीनामूर्द्धरेतसाम् ॥ तेषां शिष्यप्रशिष्याणां संख्या वक्तुं न शक्यते ॥१०॥ मुनयो भावितात्मानो मिलितास्ते महौजसः ॥ लोकानुग्रकर्त्तारो वीतरागा विमत्सगः ॥११॥ कानि क्षेत्राणि पुण्यानि कानि तीर्थानि भूतले ॥ कथं वा प्राप्यते मुक्तिर्नृणां तापार्तचेतसाम् ॥१२॥ कथं हरौ मनुष्याणां भक्तिरव्याभिचारिणी ॥ केन सिध्येत च फलं कर्मणिस्त्रिविधात्मनः ॥१३॥ इत्येवं प्रष्टुमात्मानमुद्यतान्प्रेक्ष्य शौनकः ॥ प्राञ्जलिर्वाक्यमाहेदं विनयावनतः सुधीः ॥१४॥ शौनक उवाच ॥ आस्ते सिद्धाश्रमे पुण्ये सूतः पौराणिकोत्तमः ॥ यजन्मखैर्बहुविधैर्विश्वरूपं जनार्दनम् ॥१५॥ स एतदखिलं वेत्ति व्यासशिष्यो महामुनिः ॥ पुराणंसंहितावक्ता शान्तो वै रोमहर्षणिः ॥१६॥ युगे युगेऽल्पकान्धर्मान्निरीक्ष्य मधुसूदनः ॥ वेदव्यास स्वरूपेण वेदभागं करोति वै ॥१७॥ वेदव्यासमुनिः साक्षान्नारायण इति द्विजाः ॥ शुश्रुमः सर्वशास्त्रेषु सूतस्तु व्यासशासितः ॥१८॥ तेन संशासितः सूतो वेदव्यासेन धीमता ॥ पुराणामि स वेत्त्येव नान्यो लोके ततः परः ॥१९॥ स पुराणार्थविल्लोके स सर्वज्ञः स बुद्धिमान् ॥ स शान्तो मोक्षधर्मज्ञः कर्मभक्तिकलापवित् ॥२०॥ वेदवेदाङ्गशास्त्राणां सारभूतं मुनीश्वराः ॥ जगद्धितार्थं तत्सर्वं पुराणेषूक्तवान्मुनिः ॥२१॥ ज्ञानार्णवो वै सूतस्तत्सर्वतत्त्वार्थकोविदः ॥ तस्मात्तमेव पृच्छाम् इत्यूचे शौनको मुनीन् ॥२२॥ ततस्ते मुनयः सर्वे शौनकं वाग्विदां वरम् ॥ समाश्र्लिष्य सुसंप्रिताः साधु साध्विति चाब्रुवन् ॥२३॥ अथ ते मुनयो जग्मुः पुण्यं सिद्धाश्रमं वने ॥ मृगव्रजसमाकीर्णं मुनिभिः परिशोभितम् ॥२४॥ मनोज्ञभूरुहल ताफलपुष्पविभूषितम् ॥ युक्तं सरोभिरच्छोदैरतिथ्यातिथ्यसंकुलम् ॥२५॥ ते तु नारायणं देवमनन्तमपराजितम् ॥ यजन्तमग्निष्टोमेन ददृशू रोमहर्षणिम् ॥२६॥ यथार्हमार्चितास्तेन सूतेन प्रथितौजसः ॥ तस्यावभृथमीक्षन्तस्तत्र तस्थुर्मखालये ॥२७॥ अधरावभृथस्रातं सूतं पौराणिकोत्तमम् ॥ पप्रच्छुस्ते सुखासीनं नैमिषारण्यवासिनः ॥२८॥ ऋषय ऊचुः ॥ वयं त्वतिथयः प्राप्ता आतिथेयास्तु सुव्रत ॥ ज्ञानदानोपचारेण पूजयास्मान्यथाविधि ॥२९॥ दिवौकसो हि जीवन्ति पीत्वा चन्द्रकलामृतम् ॥ ज्ञानामृतं भूसुरास्तु मुने त्वन्मुखनिः सृतम् ॥३०॥ येनेदमखिलं जातं यदा धारं यदात्मकम् ॥ यस्मिन्प्रतिष्ठितं तात यस्मिन्वा लयमेष्यति ॥३१॥ केन विष्णुः प्रसन्नः स्यात्स कथं पूज्यते नरैः ॥ कथं वर्णाश्रमाचार श्चातिथेः पूजनं कथम् ॥३२॥ सफलं स्याद्यथा कर्म मोक्षोपायः कथं नृणाम् ॥ भक्तया किं प्राप्यते पुंभिस्तथा भक्तिश्च कीदृशी ॥३३॥ वद सूत मुनिश्रेष्ठ सर्वमेतदसंशयम् ॥ कस्य नो जायते श्रद्धा श्रोतुं त्तद्वचनामृतम् ॥३४॥ सूत उवाच ॥ श़ृणुध्वमृषयः सर्वे यदिष्टं वो वदामि तत् ॥ गीतं सनकमुख्यैस्तु नारदाय महात्मने ॥३५॥ पुराणं नारदोपाख्यमेतद्वेदार्थसंमितम् ॥ सर्वपापप्रशमनं दुष्टग्रहनिवारणम् ॥३६॥ दुःस्वप्ननाशनं धर्म्यं भुक्तिमुक्तिफलप्रदम् ॥ नारायणकथोपेतं सर्वकल्याणकारणम् ॥३७॥ धर्मार्थकाममोक्षाणां हेतुभूतं महाफलम् ॥ अपूर्व पुण्यफलदं श़ृणुध्वं सुसमाहिताः ॥३८॥ महापातकयुक्तो वा युक्तो वाप्युपपातकैः ॥ श्रुत्वैतदार्षं दिव्यं च पुराणं शुद्धिमाप्नुयात् ॥३९॥ यस्यै काध्यायपठनाद्वाजिमेधफलं लभेत् ॥ अध्यायद्वयपाठेन राजसूयफलं तथा ॥४०॥ ज्येष्ठमासे पूर्णिमायां सूलक्षें प्रयतो नरः ॥ स्रात्वा च यमुना तोये मथुरायामुपोषितः ॥४१॥ अभ्यर्च्य विधिवत्कृष्णं यत्फलं लभते द्विजाः ॥ तत्फलं समावाप्नोति अध्यायत्रयपाठतः ॥४२॥ तत्प्रवक्ष्यामि वः सम्यक् शृणुध्वं गदतो मम ॥ जन्मायुतार्जितैः पापैर्मुक्तः कोटिकुलान्वितः ॥४३॥ ब्रह्मणः पदमासाद्य तत्रैव प्रतितिष्ठति ॥ श्रुत्वास्य तु दशा ध्यायान्भक्तिभावेत् मानवः ॥४४॥ निर्वाणमुक्तिं लभते नात्र कार्या विचारणा ॥ श्रेयसां परमं श्रेयः पवित्राणामनुत्तमम् ॥४५॥दुःस्वप्नना शतं पुण्यं श्रोतव्यं यत्नतो द्विजाः ॥ श्रद्धया सहितो मर्त्यः श्र्लोकं श्र्लोकार्द्धमेव वा ॥४६॥ पठित्वा मुच्यते सद्यो महापातकराशिभिः॥ सतामेव प्रवक्तव्यं गुह्याद्रह्यतरं यतः ॥४७॥ वावयेत्पुरतो विष्णोः पुण्यक्षेत्रे द्विजान्तिके ॥ ब्र्रह्मद्रोहपराणां च दंभाचारयुतात्मनाम् ॥४८॥ जनानां बकवृतीतां न ब्रूयादिदमुत्तमम् ॥ त्यक्तकामादिदोषाणां विष्णुभक्तिरतात्मनाम् ॥४९॥ सदाचारपराणां च वक्तव्यं मोक्षसाधनम् ॥ सर्वदेवमयो विष्णुः स्मरतामार्तिनाशनः ॥५०॥ सद्भक्तिवत्सलो विप्रा भक्तया तुष्यति नान्यथा ॥ अश्रद्धयापि यान्नाम्नि कीर्तितेत्थ स्मृतेऽपि वा ॥५१॥ विमुक्तः पात कैर्मर्त्यो लभते पदमव्ययम् ॥ संसारघोरकान्तारदावाग्निर्मध्रुसूदनः ॥५२॥ स्मरतां सर्वपापानि नाशयत्याशु सत्तमाः ॥ तदर्थद्योतकमिदं पुराणं श्राव्यमुत्तमम् ॥५३॥ श्रवणात्पठनाद्वापि सर्वपापविनाशकृत् ॥ यस्यास्य श्रवणे बुद्धिर्जायते भक्तिसंयुता ॥५४॥ स एव कृतकृत्यस्तु सर्व शास्त्रार्थकोविदः यदर्जित तपः पुण्यं तन्मन्ये सफलं द्विजाः ॥५५॥ यदस्य श्रवणे भक्तिरन्यथा नहि जायते ॥ सत्कथासु प्रर्वतन्ते सज्जना ये जगद्धिताः ॥५६॥ निन्दायां कलहे वापि ह्यसन्तः पापतत्पराः ॥ पुराणेष्वर्थवादत्वं ये वदन्ति नराधमाः ॥५७॥ तैरर्जितानि पुण्यानि क्षयं यान्ति द्विजोत्तमाः ॥ समस्तकर्मनिर्मूलसाधनानि नराधमः ॥५८॥पुराणान्यर्थवादेन ब्रुवन्नरकमश्नुते ॥ अन्यानि साधयन्त्येव कार्याणि विधिना नराः ॥५९॥श्रोतव्यानि पुराणानि तेन वै भक्तिभावतः ॥ पुराणश्रवणे बुद्धिर्यस्य पुंसः प्रवर्तते ॥६१॥ पुरार्जितानि पापानि तस्य नश्यन्त्यसंशयम् ॥ पुराणे वर्तमानेऽपि पापपाशेन यन्त्रितः ॥ आदरेणान्यगाथासु सक्तबुद्धिः पतत्यधः ॥६२॥ सत्सङ्गदेवार्चनसत्कथासु हितोपदेशनिरतो मनुष्यः ॥ प्रयति विष्णोः परमं पदं यद्देहावसानेऽच्युततुल्यतेजाः ॥६३॥ तस्मादिदं नारदनामधेयं पुण्यं पुराणं श़ृणुत द्विजेन्द्राः ॥ यस्मिञ्छ्रुते जन्मजरा दिहिनो नरो भवेदच्युतनिष्ठचेताः ॥६४॥ वरं वरेण्यं वरदं पुराणं निजप्रभाभावितसर्वलोकम् ॥ संकल्पितार्थप्रदमादिदेवं स्मृत्वा व्रजेन्मुक्तिपदं मनुष्यः ॥६५॥ ब्रह्मेशविष्ण्ववादिशरीरभेदैर्विश्वं सृजत्यत्ति च पाति विप्राः ॥ तमादिदेवं परमं परेशामाधाय चेतस्युपयाति मुक्तिम् ॥६६॥ यो नाम जात्यादिविकल्पहीनः परः पराणां परमः परस्मात् ॥ वेदान्तवेद्यः स्वजनप्रकाशः समीड्यते सर्वपुराणवेदैः ॥६७॥ तस्मात्तमीशं जगतां विमुक्तिमुपासनायालमजं मुरारिम् ॥ परं रहस्यं पुरुषार्थहेतुं स्मृत्वा नरो यति भवाब्धिपारम् ॥६८॥ वक्तव्यं धार्मिकेभ्यस्तु श्रद्दधानेभ्य एव च ॥ मुमुक्षुभ्यो यतिभ्यश्च वीतरागेभ्य एव च ॥६९॥ वक्तव्यं पुण्यदेशे च सभायां देवतागृहे ॥ पुण्यक्षेत्रे पुण्यतीर्थे देव ब्राह्मणसन्निधौ ॥७०॥ उच्छिष्टदेशे वक्तार आख्यानमिदमुत्तमम् ॥ पच्यन्ते नरके घोरे यावदाभूतसंप्लवम् ॥७१॥ मृषा श़ृणोति यो मूढो दम्भी भक्तिविवर्जितः ॥ सोऽपि तद्वन्महाघोरे नरके पच्यतेऽक्षये ॥७२॥ नरो यः सत्कथामध्ये संभाषां कुरुतेऽन्यतः ॥ स याति नरकं घोरं तदेकाग्रमना भवेत् ॥७३॥ श्रोता वक्ता च विप्रेन्द्रा एष धर्मः सनातनः ॥ असमाहितचित्तस्तु न जानाति हि किंचन ॥७४॥ तत एकमना भूत्वा पिबेद्धरिकथामृतम् कथं संभ्रान्तचित्तस्य कथास्वादः प्रजायते ॥७५॥ किं सुखं प्राप्यते लोके पुंसा संभ्रान्तचेतसा ॥ तस्मात्सर्वं परित्यज्य कामं दुःखस्य साध नम् ॥७६॥ समाहितमना भूत्वा कुर्यादच्युतचिन्तनम् ॥ येन केनाप्युपायेन स्मृतो नारायणोऽव्ययः ॥७७॥ अपि पातकयुक्तस्य प्रसन्नः स्यान्न संशयः ॥ यस्य नारायणे भक्तिर्विभौ विश्वेश्वरेऽव्येये ॥ तस्य स्यात्सफलं जन्म मुक्तिश्चैव करे स्थिता ॥७८॥ धमार्थकाममोक्षाख्यपुरुषार्था द्विजोत्तमाः ॥ हरिभक्तिपराणां वै संपद्यन्ते न संशयः ॥७९॥ इति श्री बृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे सूतर्षिसंवादो नाम प्रथमोऽध्यायः॥१॥ N/A References : N/A Last Updated : June 05, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP