TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
त्र्यशीतितमोऽधायः

श्री नारदीयमहापुराणम् - त्र्यशीतितमोऽधायः

`नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है।


त्र्यशीतितमोऽधायः
श्रीशौनक उवाच ॥
साधु सूत महाभागः जगदुद्धारकारकम् ॥ महातंत्रविधानं नः कुमारोक्तं त्वयोदितम ॥१॥
अलभ्यमेतत्तंत्रेषु पुराणेष्वपि मानद ॥ यदिहोदितमस्मभ्यं त्वयातिकरुणात्मना ॥२॥
नारदो भगवान्सूत लोकोद्धरणतत्परः ॥ भूयःपप्रच्छ किं साधो कुमारं विदुषां वरम् ॥३॥
सूत उवाच ॥
श्रुत्वा स नारदो विप्राः युग्मनामसहस्त्रकम ॥ सनत्कुमारमप्याह प्रणम्य ज्ञानिनां वरम् ॥४॥
नारद उवाच ॥
ब्रंह्मस्त्वया समाख्याता विधयस्तंत्रचोदिताः ॥ तत्रापि कृष्णमंत्राणां वैभवं ह्युदितं महत् ॥५॥
या तत्र राधिका देवी सर्वाद्या समुदात्दृता ॥ तस्या अंशावताराणां चरितं मंत्रपूर्वकम् ॥६॥
तंत्रोक्त वद सर्वज्ञ  त्वामहं शरणं गतः ॥ शक्तेस्तंत्राण्यनेकानि शिवोक्तानि मुनीश्वर ॥७॥
यानि तत्साअमुद्धृत्य साकल्येनाभिधेहि नः ॥ तच्छ्रत्वा वचनं तस्य नारदस्य महात्मनः ॥८॥
सनत्कुमारः प्रोवाच स्मृत्वा राधापदांबुजम् ॥ सनत्कुमार उवाच । श्रृणु नारद वक्ष्यामि राधांशानां समुद्धवम् ॥९॥
शक्तीनां परमार्श्वंय मंत्रसाधनपूर्वकम् ॥ या तु राधा मया प्रोक्ता कृष्णार्द्धांगसमुद्धवा ॥१०॥
गोलोक्वासिनी सा तु नित्या कृष्णसहायिनी ॥ तेजोमंडलमध्यस्था दृश्यादृश्यस्वरुपिणी ॥११॥
कदाचित्तु तया सार्द्धं स्थितस्य मुनिसत्तम ॥ कृष्णस्य वामभागात्तु जातो नारायणः स्वयम् ॥१२॥
राधिकायाश्व वामांगान्महालक्ष्मीर्बभूव ह ॥ ततः कृष्णो महालक्ष्मी दत्वा नारायणाय च ॥१३॥
वैकुंठे स्थापयामास शश्वत्पालनकर्मणि ॥ अथ गोलोकनाथस्य लोम्नां विवरतो मुने ॥१४॥
जाताश्वासंख्यगोपालास्तेजसा वयसा समाः ॥ प्राणातुल्यप्रियाः सर्वे बभूवुः पार्षदा विभोः ॥१५॥
राधांगलोमकूपेभ्यो बभूवुर्गोपकन्यकाः ॥ राधातुल्याः सर्वतश्व राधादास्यः प्रियंवदाः ॥१६॥
एतस्मिमंन्नतरे विप्र सहसा कृष्णदेहतः ॥ आविर्बभूव सा दुर्गा विष्णुमाया सनातनी ॥१७॥
देवीनां बीजरुपां च मूलप्रकृतिरीश्वरी ॥ परिपूर्णतमा तेजः स्वरुपा त्रिगुणात्मिका ॥१८॥
सहस्त्रभुजसंयुक्ता नानाशस्त्रा त्रिलोचना ॥ या तु संसारवृक्षस्य बीजरुपा सनातनी ॥१९॥
रत्नसिंहासनं तस्यै प्रददौ राधिकेश्वरः ॥ एतस्मिंन्नतरे तत्र सस्त्रीकस्तु चतुर्मुखः ॥२०॥
ज्ञानिनां प्रवरः श्रीमान् पुमानोंकारमुच्चरन् ॥ कमंडलुधरो जातस्तपस्वी नाभितो हरे ॥२१॥
स तु संस्तूय सर्वेशं सावित्र्या भार्यया सह ॥ निषसादासने रम्ये विभोस्त स्याज्ञया मुने ॥२२॥
अथ कृष्णो महाभाग द्विधारुपो बभूव ह ॥ वामार्द्धांगो महादेवो दक्षार्द्धो गोपिकापतिः ॥२३॥
पंचवक्रस्त्रिनेत्रोऽसौ वामार्द्धांगो मुनीश्वरः ॥ स्तत्वा कृष्णं समाज्ञप्तो निषसाद हरेः पुरः ॥२४॥
अथ कुष्णश्वतुर्वक्रं प्राह सृष्टिं कुरु प्रभो ॥ सत्यलोके स्थितो नित्यं गच्छ मां स्मर सर्वदा ॥२५॥
एवमुक्तस्तु हरिणा प्रणम्य जगदीश्वरम् ॥ जगाम भार्यया साकं स तु सृष्टिं करोति वै ॥२६॥
पितास्माकं मुनिश्रेष्ठ मानसीं कल्प दैहिकीम् ॥ ततः पश्वात्यं चवक्रं कृष्णः प्राह महामते ॥२७॥
दुर्गा ग्रहाण विश्वेश शिवलोके तपश्वर ॥ यावत्सृष्टिस्तदंते तु लोकान्संहर सर्वतः ॥२८॥
सोऽपि कृष्णं नमस्कृत्य शिलोकं जगाम ह ॥ ततः कालांतरे ब्रह्मन्कृष्णस्य परमात्मनः ॥२९॥
वक्रात्सरस्वती जागा वीनापुस्तकधारिणी ॥ तामादिदेश भगवान् वैकुंठ गच्छ मान्दे ॥३०॥
लक्ष्मीसमीपे तिष्ठ त्वं चतुर्भुजसमाश्रया ॥ सापि कृष्णं नमस्कृत्य गता नारायणांतिकम् ॥३१॥
एवं पञ्चविधा जाता सा राधा सृष्टिकारणम् ॥ आसां पूर्णस्वरुपाणां मंत्रध्यानार्चनादिकम् ॥३२॥
वदामि श्रृणु विप्रेंद्र लोकानां सिद्धिदायकम् ॥ तारः क्रियायुक्‍ प्रतिष्ठा प्रीत्याढ्या च ततः परम् ॥३३॥
ज्ञानमृता क्षुधायुक्ता वह्रिजायांतको मनुः ॥ सुतपास्तु ऋषिश्र्छन्दो गायत्री देवता मनोः ॥३४॥
राधिका प्रणवो बीजं स्वाहा शक्तिरुदाह्रता ॥ षडक्षरैः षंडगानि कुर्याद्विन्दुविभूषितैः ॥३५॥
ततो ध्यायन्स्वह्रदये राधिकां कृष्ण भामिनीम् ॥ श्वेतचंपकवर्णाभां कोटिचन्द्रसमप्रभाम् ॥३६॥
शरत्पार्वणचन्द्रास्यां नीलेंदीवरलो चनाम् ॥ सुश्रोणीं सुनितंबां च पक्कबिंबाधरांबराम्  ॥३७॥
मुक्ताकुंदाभदशनां वह्रिशुद्धांशुकान्विताम् ॥ रत्नकेयूरवलयहारकुण्डशोभिताम् ॥३८॥
गोपीभिः सुप्रियाभिश्व सेवितां श्वेतचामरैः ॥ रासमंडलमध्यस्थां रत्नसिंहासनस्थिताम् ॥३९॥
ध्यात्वा पुष्पांजलिं क्षिप्त्वा पूजयेदुपचारकैः ॥ लक्षषट्‌कं जपेन्मंत्रं तद्दशांशं हुनेत्तिलैः ॥४०॥
आज्याक्तैर्मातृकापीठे पूजा चावरणैः सह ॥ षट्‌कोणेषु षडंगानि तद्वाह्येऽष्टदले यजेत् ॥४१॥
मालावतीं माधवीं च रत्नमालां सुशीलिकाम् ॥ ततः शशिकलां पारिजातां पद्मावती तथा ॥४२॥
सुंदरीं च क्रमात्प्राच्या दिग्विदिक्षु ततो बहिः ॥ इन्द्राद्यान्सायुधानिष्ट्रा विनियोगांस्तु साधयेत् ॥४३॥
राधा कुष्णप्रिया रासेश्वरी गोपीगणाधिपा ॥ निर्गुणा कृष्णपूज्या च मूलप्रकृतिरीश्वरी ॥४४॥
सर्वेश्वरी सर्वपूज्या वैराजजननी तथा ॥ पूर्वाद्याशासु रक्षंतु पांतु मां सर्वतः सदा ॥४५॥
त्वं देवि जगतांमाता विष्णुमाय सनातनी ॥ कृष्णमायादिदेवी च कृष्णप्राणाधिके शुभे ॥४६॥
कृष्णभक्तिप्रदे राधे नमस्ते मंगलप्रदे ॥ इति सम्र्पार्थ्य सर्वेशीं स्तुत्वा ह्रदि विसर्जयेत् ॥४७॥
एवं यो भजते राधां सर्वाद्यां सर्वमंतलाम् ॥ भुक्तेह भोगानखिलान्सोऽन्ते गोलोकमाप्नुयात् ॥४८॥
अथ तुभ्यं महालक्ष्म्या विधानं वच्मि नारद ॥ यदाराधनतो भूयात्साधको भुक्तिमुक्तिमान् ॥४९॥
लक्ष्मीमायाकामवाणीपूर्वा कमलवासिनी ॥ ङेंता वह्रिप्रियांतोऽयं मंत्रकल्पद्रुमः परः ॥५०॥
ऋषिर्नारायणश्वास्य छन्दो हि जगती तथा ॥ देवता तु महालक्ष्मीर्द्विद्विवणैः षडंगकम् ॥५१॥
श्वेतचंपकवर्णाभां रत्नभूषिताम् ॥ ईषद्धास्यप्रसन्नास्यां भक्तानुग्रहकातराम् ॥५२॥
बिभ्रतीं रत्नमालां च कोटिचंद्रासमप्रभाम् ॥ ध्यात्वा जपेदर्कलक्षं पायसेन दशांशतः ॥५३॥
जुहुयादेधिते वह्रौ श्रीदुकाष्ठैः समर्चयेत् ॥ नवशक्तियुते पीठे ह्यंगै रावरणैः सह ॥५४॥
विभूतिरुन्नतिः कांतिः सृष्टिः कीर्तिश्व सन्नतिः ॥ व्युष्टिरुत्कृष्टिऋद्धिश्व संप्रोक्ता नव शक्तयः ॥५५॥
अत्रावाह्य च मूलेन मूर्ति संकल्प्य साधकः ॥ षट्‌कोणेषु षडंगानि दक्षिणे तु गजाननम् ॥५६॥
वामे कुसुमधन्वानं वसुपत्रे ततो यजेत् ॥ उमां श्रीं भारतीं दुर्गां धरणीं वेदमातरम् ॥५७॥
देवीमुषां च पूर्वादौ दिग्विदिक्षु क्रमेण हि ॥ जहुसूर्यसुते पूज्ये पादप्रक्षालनोद्यते ॥५८॥
शंखपद्मनिधी पूज्यौ पार्श्वयोर्धृत चामरौ ॥ धृतातपत्रं वरुणं पूजयेत्पश्चिमे ततः ॥५९॥
संपूज्य राशीन्परितो यथास्थानं नवग्रहान् ॥ चतुर्दन्तैरावतादीन् दिग्विदिक्षु ततोऽर्चयेत् ॥६०॥
तद्वहिर्लोकपालांश्व तदस्त्राणि च तद्वहिः ॥ दूर्वाभिराज्यसिक्ताभिर्जुहुयादायुषे नर ॥६१॥
गुडूचीमाज्यसंसिक्तां जुहुयात्सप्तवासरम् ॥ अष्टोत्तरसहस्त्र यः स जीवेच्छरदाम शतम् ॥६२॥
हुत्वा तिलान्घृताभ्यक्तान्दीर्घमायुष्यमाप्नुयात् ॥ आरभ्यार्कदिनं मंत्री दशाहं घृतसंप्लुतः ॥६३॥
जुहुयादर्कसमिधः शरीरोग्यसिद्धये ॥ शालिभिर्जुह्रतो नित्यमष्टोत्तरसहस्त्रकम् ॥६४॥
अचिरादेव महती लक्ष्मी संजायते ध्रुवम् ॥ उषाजां जीनालिकेरजोभिर्घृतमिश्रितैः ॥६५॥
हुनेदष्टोत्तरशतं पायसाशी तु नित्यशः ॥ मण्डलाज्जायते सोऽपि कुबेर इव मानवः ॥६६॥
हविषा गुड मिश्रेण होमतो ह्यान्नवान्भवेत् ॥ जपापुष्पाणि जुहुयादष्टोत्तरसहस्त्रकम् ॥६७॥
तांबूलससंमिश्रं तद्धस्मतिलकं चरेत् ॥ चतुर्णामपि वर्णानां मोह नाय द्विजोत्तमः ॥६८॥
एवं यो भजते लक्ष्मी साधकेंद्रो मुनीश्वर ॥ सम्पदस्तस्य जायंते महालक्ष्मीः प्रसीदति ॥६९॥
देहांते वैष्णंवं धाम लभते नात्र संशयः ॥ या दुर्गा द्विजश्रेष्ठ शिवलोकं गता सती ॥७०॥
सा शिवाज्ञामनुप्राप्य दिव्यलोकं विनिर्ममे ॥ देवीलो केति विख्यातं सर्वलोकवि लक्षणम् ॥७१॥
तत्र स्थिता जगन्माता तपोनियमास्थिता ॥ विविधान् स्वावतारान्हि त्रिकाले कुरुतेऽनिशम् ॥७२॥
मायाधिका ह्रादिनीयुक्‍ चन्द्राढ्या सर्गिणी पुनः ॥ प्रतिष्ठा स्मृतिसंयुक्ता क्षुधया सहिता पुनः ॥७३॥
ज्ञानामृता वह्रिजायांतस्ताराद्यो मर्नुमतः ॥ ऋषिः स्याद्वामदेवोऽस्य छंदो गायत्रमीरितम् ॥७४॥
देवता जगतामादुर्गा दुर्गतिनाशिनी ॥ ताराद्यैकैकवर्णेन ह्रदयादित्रयं मतम् ॥७५॥
त्रिभिर्वर्मेक्षणं द्वाभ्यां सर्वैरे स्त्रमुदीरितम् ॥ महामरकतप्रख्यां सहस्त्रभुजमंडिताम् ॥७६॥
नानाशस्त्राणि दधतीं त्रिनेत्रां शशिशेखराम् ॥ कंकणांगदहाराढ्यां क्कणन्नूपुरकान्वि ताम् ॥७७॥
किरीटकुंडलधरां दुर्गां देवीं विचिंतयेत् ॥७८॥
वसुलंक्ष जपेन्मंत्रं तिलैः समधुरैर्हुनेत् ॥ पयोंऽधसा वा सहस्त्रं नवपद्मात्मके यजेत् ॥७९॥
प्रभा माया जया सूक्ष्मा विशुद्धानंदिनी पुनः ॥ सुप्रभा विजया सर्वसिद्धिदा पीठशक्तयः ॥८०॥
अद्धिर्ह्रस्वत्रयक्लीबरहितैः पूजये दिमाः ॥ प्रणवो वज्रनरदंष्ट्रायुधाय महापदात् ॥८१॥
सिंहाय वमांस्त्रं हच्च प्रोक्तः सिंहमनुर्मुने ॥ दद्यादासनमेतेन मूर्तिं मूलेन कल्पयेत् ॥८२॥
अङुवृत्तिं पुराभ्यर्च्य शक्तिः पत्रेषु पूजयेत् ॥ जया च विजया कीर्तिः प्रीतिः पश्वात्प्रभा पुनः ॥८३॥
श्रद्धा मेधा श्रुतिश्वैव स्वनामाद्यक्षरादिकाः ॥ पत्राग्रेष्वर्चयेदष्टावायु धानि यथाक्रमात् ॥८४॥
शंखचक्रगदाखङुपाशांकुशशरान्धनुः ॥ लोकेश्वरस्ततो बाह्ये तेषाम स्त्राण्यनंतरम् ॥८५॥
इत्थं पजादिभिर्मंत्री मंत्रे सिद्धे विधानवित् ॥ कुर्यात्प्रयोगानमुना यथा स्वस्वमनीषितान् ॥८६॥
प्रतिष्ठाप्य विधानेन कलशान्नवशोभनान् ॥  रत्नहेमादिसंयुक्तान्घटेषु नवसु स्थितान् ॥८७॥
मध्यस्थे पूजयेद्देवीमितरेषु जयादिकाः ॥ संपूज्य गन्धपुष्पाद्यैरभिषिंचेन्नरा धिपम् ॥८८॥
राजा विजयते शत्रून्योऽधिको विजयश्रियम् ॥ प्राप्नोत्यरोगो दीर्घायुः सर्वव्याधिविवर्जितः ॥८९॥
वन्ध्याभिषिक्ता विधिना लभते तनयं वरम् ॥ मन्त्रेणानेन संअज्प्तमाज्यं क्षुद्रग्रहापहम् ॥९०॥
गर्भिणीनां विशेषण जप्तं भस्मादिकं तथा ॥ जृंभश्वासे तु कृष्णस्य प्रविष्टे राधिकामुखम् ॥९१॥
या तु देवीं समुद्धुता वीणापुस्तकधारिणी ॥ तस्या विधानं विप्रेंद्र श्रृणु लोकोपकारकम् ॥९२॥
प्रणवो वाग्भवं माया श्रीः कामः शक्तिरीरिता ॥ सरस्वती चतुर्थ्यंता स्वाहांतो द्वादशाक्षरः ॥९३॥
मनुर्नारायण ऋषिर्विराट्र छन्दः स्मीरितम् ॥ महासरस्वती चास्य देवता परिकीर्तिता ॥९४॥
वाग्भवेन षडंगानि कृत्वा वर्णान्न्यसेद्बुधः ॥ ब्रह्मरंध्रे न्यसेत्तारं लज्जां भ्रूमध्यगां न्यसेत् ॥९५॥  
मुखनासादिकर्णेषु गुदेषु श्रीमुखार्नकान् ॥ ततो वाग्देवतां ध्यायेद्वीणापुस्तकधारिणीम् ॥९६॥
कर्पूरकुंदधवलां पूर्णचंद्रोज्ज्वलाननाम् ॥ हंसाधिरुढां भालें दुदिव्यालंकारशोभिताम् ॥९७॥
जपेद्दादशलक्षाणि तत्सहस्त्रं सितांबुजैः ॥ नागपंचपकपुष्पैर्वा जुहुयात्साधकोत्तमः ॥९८॥
मातृकोक्ते यजेत्पीठे वक्ष्य माणक्रंएण ताम् ॥ वर्णाब्जेनासनं दद्यान्मूर्ति मूलेन कल्पयेत् ॥९९॥
देव्या दक्षिणतः पूज्या संस्कृता वाड्‌मयी शुभा ॥ प्राकृता वामतः पूज्या वाड्‌मयी  सर्वसिद्धिदा ॥१००॥
पूर्वमंगानि षट्‌कोणे प्रज्ञाद्याः प्रयजेद्वहिः ॥ प्रज्ञा मेधा श्रुतिः शक्तिः स्मृतिर्वागीश्वरी मतिः ॥१०१॥
स्वस्तिश्वेति समाख्याता ब्रह्माद्यासदनंतरम् ॥ लोकेशानर्चयेद्धूयस्तदस्त्राणि च तद्वहिः ॥१०२॥
एवं संपूज्य वाग्देवीं साक्षाद्वाग्वल्लभो भवेत् ॥ ब्रह्मचर्यरतः शुद्धः शुद्धदंतनखादिकः ॥१०३॥
संस्मरन् सर्ववनिताः सततं देवताधिया ॥ कवित्वं लभते धीमान् मासिर्द्वादशभिर्द्धुवम् ॥१०४॥
पीत्वा तन्मंत्रितं तोयं सहस्त्रं प्रत्यहं मुने ॥ महाकविभर्वन्मंत्री वत्सरेण न संशयः ॥१०५॥
उरोमात्रोदके स्थित्वा ध्यायन्मार्तंडमंडले ॥ स्थितां देवीं प्रतिदिनं त्रिसहस्त्रं जपेन्मनुम् ॥१०६॥
लभते मंडलात्सिद्धिं वाचामप्रतिमां भुवि ॥ पालाशबिल्वकुसुमैर्जुहुयान्मधुरोक्षितैः ॥१०७॥
समिद्धिर्वा तदुत्थाभिर्यशः प्राप्नोति वाक्पते ॥ राजवृक्षसमुद्धूतैः प्रसूनैर्मधुराप्लुतैः ॥१०८॥
तत्समिद्धिश्व जुहुयात्कवित्ममतुलं लभेत् ॥ अथ पवक्ष्ये विप्रेंद्र सावित्रीं ब्रह्मणः प्रियाम् ॥१०९॥
यां समाराध्य ससृजे ब्रह्मा लोकांश्वराचरान् ॥ लक्ष्मी माया कामपूर्वी सावित्री ङेसमन्विता ॥११०॥
स्वाहांतो मनुराख्यातः सावित्र्या वसुवर्नणवान् । ऋषिर्ब्रह्यास्य गायत्री छंदः पोक्तं च देवता ॥१११॥
सावित्री सर्वदेवानां सावित्री परिकीर्तिता ॥ ह्रदंतिकैर्ब्रह्म विष्णुदुर्द्रेश्वरसदाशिवैः ॥११२॥
सर्वात्मना च ङेयुक्तैरंगानां कल्पनं मतम् ॥ तप्तकांचनवर्णाभां ज्वलंतीं ब्रह्मतेजसा ॥११३॥
ग्रीष्ममध्याह्र मार्तंडसहस्त्रसमविग्रहाम् ॥ ईषद्धास्यप्रसन्नास्यां रत्नभूषणभूषिताम् ॥११४॥
बह्रिशुद्धांशुकाधानां भक्तानुग्रहकातराम् ॥ सुखदां मुक्तिदां चैव सर्व संपत्प्रदां शिवाम् ॥११५॥
वेदबीजस्वरुपां च ध्यायेद्वेदप्रसूं सतीम् ॥ ध्यात्वैवं मण्डले विद्वान् त्रिकोणोज्ज्वलकर्णिको ॥११६॥
सौरे पीठे यजेद्देवीं दीप्तादिनवशक्तिभिः ॥ मूलमंत्रेण क्लप्तायां मूर्तौ देवीं प्रपूजयेत् ॥११७॥
कोणेषु त्रिषु संपूज्या ब्राह्मयाद्याः शक्तयो बहिः आदित्याद्यास्ततः पूज्या उषादिसहिताः क्रमात् ॥११८॥
ततः षडंगान्यभ्यर्च्य केसरेषु यथाविधि ॥ प्रह्रादिनीं प्रभां पश्वान्नित्यां विश्वंभरां पुनः ॥११९॥
विलासिनीप्रभावत्यौ जयां शांतां यजेत्पुनः ॥ कांतिं दुर्गासरस्वत्यौ विद्यारुपां ततः परमं ॥१२०॥
विशालसंज्ञितामीशां व्यापिनीं विमलां यजेत् ॥ तमोपहारिणीं सूक्ष्मां विश्वयोनिं यजावहाम् ॥१२१॥
पद्मालयां परां शोभां ब्रह्मरुपां ततोऽर्चयेत् ॥ ब्राह्मयाद्याः शारना बाह्ये पूजयेत्प्रोक्तलक्षणाः ॥१२२॥
ततोऽभ्यर्च्येद्ग्रहान्बाह्ये शक्राद्यानायुधैः सह ॥ इत्थमावर्णैर्देवीः दशभिः परिपूजयेत् ॥१२३॥
अष्टलक्षं जपेन्मंत्रं तत्सहस्त्रं हुनेत्तिलैः ॥ सर्वपापविनिर्मुक्तो  दीर्घमायुः स विंदति ॥१२४॥
अरुणाब्जैस्त्रिमध्वक्तैर्जुहुयादयुतं ततः ॥ महालक्ष्मीर्भवेत्तस्य षण्मासान्नात्र संशयः ॥१२५॥
ब्रह्मवृक्षप्रसूनैस्तु जुहुयाद्वह्यतेजसे ॥ बहुना किमिहोक्तेन यथावत्साधिता सती ॥१२६॥
साधकानामियं विद्या भवेत्कामदुघा मुने ॥ अथ ते  संप्रवक्ष्यामि रहस्यं परमाद्धुतम् ॥१२७॥
सावित्रीपंजरं नाम सर्वरक्षाकरं नृणाम् ॥ व्योमकेशालंकासक्तां सुकिरीटविराजिताम् ॥१२८॥
मेघभ्रुकु टिलाक्रांतां विधिविष्णुशिवाननाम् ॥ गुरुभार्गकर्णांतां सोमसोर्याग्निलोचनाम् ॥१२९॥
इडापिंगलिकासूक्ष्मवायुनासापुटान्विताम् ॥ संध्याद्विजोष्ठपुटितां लसद्वागुपजिह्रिकाम् ॥१३०॥
संध्यासूर्यमणिग्रीवां मरुद्वाहुसमन्वितान् ॥ पर्जन्यत्दृदस्यासक्तां वस्वाख्यप्रतिमंडलाम् ॥१३१॥
आकाशोदरविभ्रांतां नाभ्यवांतरवीथिकाम् ॥ प्रजापत्याख्यजघनां कटींद्राणीसमश्रिताम् ॥१३२॥
ऊर्वोर्मलयमेरुभ्यां शोभमानां सरिद्वराम् ॥ सुजानुजहुकुशिकां वैश्वदेवाख्यसंज्ञिकाम् ॥१३३॥
पादांघ्रिनखलोमाख्यभूनागद्रुमलक्षिताम् ॥ ग्रहराश्यर्क्षयोगादिमूर्तावयवसंज्ञिकाम् ॥१३४॥
तिथिमासर्तुपक्षाख्यैः संकेतनिमिषात्मिकाम् ॥ मायाकल्पितवैचित्र्यसंध्याच्छदनावृताम् ॥१३५॥
ज्वलत्कालानलप्रख्यां तडित्कोटिसमप्रभाम् ॥ कोटिसूर्यप्रतीकाशां शशिकोटिशुशीतलाम् ॥१३६॥
सुधामंडलमध्यस्थां सांद्रानंदामृतात्मिकाम् ॥ वागतीतां मनोऽगम्यां वरदां वेदमातरम् ॥१३७॥
चराचरमयीं नित्यां ब्रह्माक्षरसमन्विताम् ॥ ध्यात्वा स्वात्माविभेदने सावित्रीपंजर न्यसेत् ॥१३८॥
पञ्जरस्य ऋषिः सोऽहं छंन्दो विकृतिरुच्यते ॥ देवता च परो हंसः परब्रह्मादिदेवता ॥१३९॥
धर्मार्थकाममोक्षाप्यै विनियोग उदाह्रतः ॥ षडंगदेवतामन्त्रैरंगन्यासं समाचरेत् ॥१४०॥
त्रिधामूलेन मेधावी व्यापकं हि समाचरेत् ॥ पूर्वोक्तां देवतां ध्यायेत्साकारां गुणसंयुताम् ॥१४१॥
त्रिपदा हरिजा पूर्वमुखी ब्रह्मस्त्रसंज्ञिका ॥ चतुर्विशतितत्त्वाढ्या पातु प्राचीं दिशं मम ॥१४२॥
चतुष्पदा ब्रह्मदंडा ब्रह्माणी दक्षिणानना ॥ षडिंशतत्त्वसंयुक्ता पातु मे दक्षिणां दिशम् ॥१४३॥
प्रत्यड्‌मुखी पञ्चपदी पञ्चाशत्तत्त्वरुपिणी ॥ पतु प्रतीचीमनिशं मम ब्रह्मशिरोंकिता ॥१४४॥
सौम्यास्या ब्रह्म तुर्याढ्या साथर्वांगिरसात्मिका ॥ उदीचीं षट्‍पदा पातु षष्टितत्त्वकलात्मिका ॥१४५॥
पञ्चाशद्वर्णरचिता नवपादा शताक्षरी ॥ व्योमा संपातु मे वोर्द्धं शिरो वेदांतसंस्थिता ॥१४६॥
विद्युन्निभा ब्रह्मसन्ध्या मृगारुढा चतुर्भुजा ॥ चापेषुचर्मासिधरा पातु मे पावकीं दिशम् ॥१४७॥
ब्राह्मी कुमारी गायत्री रक्तांगी हंसवाहिनी ॥ बिभ्रत्कमंडलुं चाक्षं स्त्रुवस्त्रुवौ पातु नैऋतिम् ॥१४८॥
शुल्कवर्णा च सावित्री युवती वृषवाहना । कपालशूलका क्षस्त्रग्‌धारिणी पातु वायवीम् ॥१४९॥
श्यामा सरस्वती वृद्धा वैष्णवी गरुडावसना ॥ शंखचक्राभयकरा पातु शैवीं दिशं मम ॥१५०॥
चतुर्भुजा देवमाता गौरांगी सिंहवाहना ॥ वराभयखङुचर्मभुजा पात्वधराम दिशम् ॥१५१॥
तत्तत्पार्श्वे स्थिताः स्वस्ववाहनायुधभूषणाः ॥ स्वस्वदिक्षु स्थिताः पांतु ग्रहशक्त्यंगसंयुताः ॥१५२॥
मंत्रादिदेवातारुपा मुद्राधिष्ठातृदेवताः ॥ व्यापकत्वेन पांत्वस्मानापादतलमस्तकम् ॥१५३॥
इदं ते कथितं सत्यं सावित्रीपंजरं मया ॥ संध्ययोः प्रत्यहं भक्त्या जपकाले विशेषतः ॥१५४॥
पठनीयं प्रयत्नेन भुक्तिं मुक्तिं समिच्छता ॥ भूतिदा भुवना वाणी महावसुमती मही ॥१५५॥
हिरण्यजननी नन्दा सविसर्गा तपस्विनी ॥ यशस्विनी सती सत्या वेदविच्चिन्मयी शुभा ॥१५६॥
विश्वा तुर्या वरेण्या च निसृणी यमुना भुवा ॥ मोदा देवी वरिष्ठा च धीश्व शांतिर्मती मही ॥१५७॥
धिषणा योगिनी युक्ता नदी प्रज्ञाप्रचोदनी ॥ दया च यामिनी पद्मा रोहिणी रमणी जया ॥१५८॥
सेनामुखा साममयी बगला दोषवर्जिता ॥ माया प्रज्ञा परा दोग्ध्री मानिनी पोषिणी क्रिया ॥१५९॥
ज्योत्स्त्रा तीर्थमयी रम्या सौम्यामृतमया तथा ॥ ब्राह्मी हैमी भुजंगी च वशिनी सुंदरी वनी ॥१६०॥
औकारहसिनी सर्वासुधा सा षडुणावती ॥ माया स्वधा रमा तन्वी रिपुघ्नी रक्षणी सती ॥१६१॥
हैमी तारा विधुगतिर्विषघ्नी च वरानना ॥ अमरा तीर्थदा दीक्षादुर्धर्षा रोगहारिणी ॥१६२॥
नानापापनृशंसघ्नी षट्‌पदी वज्रिणी रणी ॥ योगिनी विमला सत्या अबला बलदा जया ॥१६३॥
गोमती जाह्रवां रज्वी तपनी जातवेदसा ॥ अचिरा वृष्टिददा ज्ञेया ऋततंत्रा ऋतात्मिका ॥१६४॥
सर्वकामदुघा सौम्या भवाहंकारवजिता ॥ द्विपदा या चतुष्पदा त्रिपदा या च षट्‌पदा ॥१६५॥
अष्टापदी नवपदी सहस्त्राक्षाक्षरत्मिका ॥ अष्टोत्तशंत नाम्रां सावित्र्या यः पठेन्नरः ॥१६६॥
स चिरायुः सुखी पुत्री विजयी विनयी भवेत् ॥ एतत्ते कथितं विप्र पंचप्रकृतिलक्षणम् ॥१६७॥
मंत्राराधनपूर्व च विश्वकामप्रपूरणम् ॥१६८॥
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने तृतीयपादे पञ्चप्रकृतिमन्त्रादिनिरुपणं नाम त्र्यशीतितमोऽधायः ॥८३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-06T04:37:56.8100000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

CĀKṢUṢĪ(चाक्षुषी)

  • An art, the study of which will enable one to see anything in the three worlds. Cākṣuṣī was taught by Manu to Soma, by him to Viśvāvasu, by him to Citraratha, the Gandharva and by him to Arjuna, son of Pāṇḍu. [Ādi Parva]. 
RANDOM WORD

Did you know?

महावाक्य पंचीकरण हे पुस्तक कुठे मिळेल ?
Category : Hindu - Philosophy
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.