TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
द्वितीयोध्यायः

श्री नारदीयमहापुराणम् - द्वितीयोध्यायः

नारदपुराणात शिक्षण, कल्प, व्याकरण, छन्द शास्त्राचे आणि परमेश्वराच्या उपासनेचे विस्तृत वर्णन  आहे.


द्वितीयोध्यायः

ऋषय ऊचुः ॥

कथं सनत्कुमारस्तु नारदाय महात्मने ॥ प्रोक्तवान्सकलान्धर्मान्कथं तौ मिलितावुभौ ॥१॥

कस्मिन्स्थाने स्थितौ सूत तावुभौ ब्रह्मवादिनौ ॥ हरिगीतसमुद्राने चक्रस्तुस्तद्वदस्व नः ॥२॥

सूत उवाच ॥

सनकाद्या महात्मानो ब्रह्मणो मानसाः सुताः ॥ निर्ममा निरहंकाराः सर्व ते ह्यूध्वरेतसः ॥३॥

तेषां नामानि वक्ष्यानि वक्ष्यामि सनकश्च सनन्दनः ॥ सनत्कुमारश्च विभुः सनातन इति स्मृतः ॥४॥

विष्णुभक्ता महात्मनो ब्रह्मध्यानपायणाः ॥ सहस्रसूर्यसंकाशाः सत्यसन्धा मुमुक्षवः ॥५॥

एकदा मेरुश़ृङ्गं ते प्रस्थिता ब्रह्मणः सभाम् ॥ इष्टं मार्गेऽथ ददृशुः गङ्गा विष्णुपदीं द्विजाः ॥६॥

तां निरीक्ष्य सुमुद्युक्ताः स्नातुं सीताजलेऽभवन् ॥ एतस्मिन्नंतरे तत्र देवर्षिर्नारदो मुनिः ॥७॥

आजगाम द्विजश्रेष्ठा दृष्ट्वा भ्रान्तृन्स्वकाग्रजान् ॥ तान्दृष्ट्वा स्नातुमुद्युक्तान्नमस्कृत्य कृताञ्जलिः ॥८॥

गृणन्नामानि सप्रेमभक्तियुक्तो मधुद्विषः ॥ नारायणाच्युतानन्त वासु देव जनार्दन ॥९॥

यज्ञेश यज्ञपुरुष कृष्ण विष्णो नमोऽस्तु ते ॥ पद्माक्ष कमलाकान्त गङ्गाजनक केशव ॥

क्षीरोदशायिन्देवेश दामोदर नमोस्तु ते ॥१०॥

श्रीराम विष्णो नरसिंह वामन प्रद्युम्न संकर्षण वासुदेव ॥ अजानिरुद्धामलरुङ् मुरारे त्वं पाहि नः सर्वभयादजस्रम् ॥११॥

इत्युच्चरन्हरेर्नाम नत्वा तान्स्वाग्रजान्मुनीन् ॥ उपासीनश्च तैः सार्द्धं सस्नौ प्रीतिसमन्वितः ॥१२॥

ते षां चापि तु सीताया जले लोकमलाप हे ॥ स्नात्वा संतर्ष्य देवर्षिपितृन्विगतकल्मषाः ॥१३॥

उत्तीर्य्य संध्योपास्त्यादि कृत्वाचारं स्वकं द्विजाः ॥ कथां प्रचक्रुर्विविधाः नारायण गुणाश्रिताः ॥१४॥

कृतक्रियेषु मुनिषु गङ्गातीरे मनोरमे ॥ चकार नारदः प्रश्र्नं नानाख्यानकथान्तरे ॥१५॥

नारद उवाच ॥ सर्वज्ञाः स्थ मुनि श्रेष्ठाः भगवद्भक्तित्पराः ॥ सूयं सर्वे जगन्नाथा भगवन्तः सनातनाः ॥१६॥

लोकोद्धारपरान्युष्मान्दीनेषु कृतसौत्दृदान् ॥ पृच्छे ततो वदत मे भगवल्लक्षणं बुधाः ॥१७॥

येनेदमखिलं जातं जगत्स्थावरजङ्गमम् ॥ गङ्गापादोदकं यस्य स कथं ज्ञायते हरिः ॥१८॥

कथं च त्रिविधं कर्म सफलं जायते नृणाम् ॥ ज्ञानस्य लक्षण ब्रूत तपसश्चापि मानदाः ॥१९॥

अतिथेः पूजनं वापि येन विष्णुः प्रसीदति ॥ एवमादीनि गृह्यानि हरितुष्टिकराणि च ॥

अनुगृह्य च मां नाथास्तत्त्वतो वक्तुमर्हथ ॥२०॥

शौनक उवाच ॥ नमः पराय देवाय परस्मात्परमाय च ॥ परावर निवासाय सगुणायागुणाय च ॥२१॥

अमायायात्मसंज्ञाय मायिने विश्वरूपिणे ॥ योगीश्वराय योगाय योगगम्याय विष्णवे ॥२२॥

ज्ञानाय ज्ञानगम्याय सर्वज्ञानैकहेतवे ॥ ज्ञानेश्वराय ज्ञेयाय ज्ञात्रे विज्ञानसंपदे ॥२३॥

ध्यानाय ध्यानगम्याय ध्यातृपापहराय च ॥ ध्यानेश्वराय सुधिये ध्येयध्यातृस्वरूपिणे ॥२४॥

अदित्यचन्द्राग्निविधातृदेवाः सिद्धाश्च यक्षासुरनागसङ्घाः ॥ यच्छक्तियुक्तास्तमजं पुराणं सत्यं स्तुतीशं सततं नतोऽस्मि ॥२५॥

यो ब्रह्मरूपी जगतां विधाता स एव पाता द्विजविष्णुरूपी ॥ कल्पान्तरुद्राख्यतमुः स देवः शेतेंऽध्रिपानस्तमजं भजामि ॥२६॥

यन्नामसंकीर्त्तनतो गजेन्द्रो ग्राहोग्रबन्धान्मुमुचे स देवः ॥ विराजमानः स्वपदे पराख्ये तं विष्णुमाद्यं शरणं प्रपद्ये ॥२७॥

शिवस्वरूपी शिवभक्ति भाजां यो विष्णुरूपी हरिभावितानाम् ॥ संकल्पपूर्वात्मकदेहहेतुस्तंमेव नित्यं शरणं प्रपद्ये ॥२८॥

यः केशिहन्ता नरकान्तकश्च बालो भुजाग्रेण दधार गोत्रम् ॥ देवंच भूभारविनोदशीलं तं वासुदेवं सततं नतोऽस्मि ॥२९॥

लेभेऽवतीर्योग्रनृसिंहरूपी यो दैत्यवक्षः कठिनं शिलावत् ॥ विदार्य संरक्षितवान्स्वभक्तं प्रह्लादमीशं तमजं नमामि ॥३०॥

व्योमादिभिर्भूषितमात्मसंज्ञं निरञ्जनं नित्यममेयतत्त्वम् ॥ जगद्विधातारमकर्मक च परं पुराणं पुरुषं नतोऽस्मि ॥३१॥

ब्रह्मन्द्ररुद्रानिलवायुमर्त्यगन्धर्वयक्षासुरदेवसंधैः ॥ स्वमूर्तिभेदैः स्थित एक ईशस्तमादिमात्मा नमहं भजामि ॥३२॥

यतो भिन्नामिदं सर्व समुद्भतं स्थितं च वै ॥ यस्मिन्नेष्यति पश्चाच्च तमस्मि शरणं गतः ॥३३॥

यः स्थितो विश्वरूपेण सङ्गीवात्र प्रतीयते ॥ असङ्गी परिपूर्णश्च तमस्मि शरणं गतः ॥३४॥

हृदि स्थितोऽपि यो देवो मयया मोहितात्मनाम् ॥ न ज्ञायेत परः शुद्धस्तमस्मि शरणं गतः ॥३५॥

सर्वसंगनिवृत्तानां ध्यानयोगरतात्मनाम् ॥ सर्वत्र भाति ज्ञानात्मा तमस्मि शरणं गतः ॥३६॥

दधार मंदरं पृष्ठे निरोदेऽमृतमन्थने ॥ देवतानां हितार्थाय तं कूर्मं शरणं गतः ॥३७॥

दंष्ट्राङ्कुरेण योऽनन्तः समुद्धृत्यार्णवाद्धराम् ॥ तस्थाविदं जगत्कृत्स्नं वाराहं तं नतोऽस्महम् ॥३८॥

प्रह्लादं गोपयन्दैत्यं शिलातिकठिनोरसम् ॥ विदार्य हतवान्यो हि तं नृसिंह नतोस्म्यहम् ॥३९॥

लब्ध्वा वैरोचनेर्भूर्मि द्वाभ्यां पद्भ्य़ामतीत्य यः॥ आब्रह्मभुवनं प्रादात्सुररेभ्यस्तं नतोऽजितम् ॥४०॥

हैहयस्यापराधेन ह्येकविंशतिसंख्यया ॥ क्षत्रियान्वयभेत्ता यो जामदग्नयं नतोऽस्मि तम् ॥४१

आविर्भूतश्चतुर्द्धा यः कपिभिः परिवारितः ॥ ॥ हतवान्राक्षसानीकं रामचंन्द्रं नतोऽस्म्यहम् ॥४२॥

मूर्तिद्वयं समाश्रित्य भूभारमपहृत्य च ॥ संजहार कुलं स्वं यस्तं श्रीकृष्णाहं भजे ॥४३॥

भूम्यादिलोकत्रितयं संतृप्तात्मानमात्मनि ॥ पश्यन्ति निर्मलं शुद्धं तमीशानं भजाम्यहम् ॥४४॥

युगान्ते पापिनो शुद्धान्भित्त्वा तीक्ष्णसुधारया ॥ स्थापयामास यो धर्मं कृतादौ तन्नमाम्यहम् ॥४५॥

एवमादीन्यनेकानि यस्य रूपाणि पाण्डवाः ॥ न शक्यं तेन संख्यातुं कोट्यब्दैरपि तं भजे ॥४६॥

महिमानं तु यन्नाम्नः परं गंतुं मुनीश्वराः ॥ देवासुराश्च मनवः कथं तं क्षुल्लको भजे ॥४७॥

यन्नामश्रवणेनापि महापातकिनो नराः ॥ पवित्रतां प्रपद्यन्ते कथं स्तौमि चाल्पधीः ॥४८॥

यथाकथंचिद्यन्नाम्नि कीर्तिते वा श्रुतेऽपि वा ॥ पापिनस्तु विशुद्धाः स्युः शुद्धा मोक्षमवाप्नयुः ॥४९॥

आत्मन्यात्मानमाधाय योगिनो गतकल्मषाः॥ पश्यन्ति यं ज्ञानरूपं तमस्मि शरणं गतः ॥५०॥

साङ्खयाः सर्वेषु पश्यन्ति परिपूर्णात्मकं हरिम् ॥ तमादिदेवमजरं ज्ञानरूपं भजाम्यहम् ॥५१॥

सर्वसत्त्वमयं शान्तं सर्व द्रष्टारमीश्वरम् ॥ सहस्रशीर्षकं देवं वन्दे भावात्मकं हरिम् ॥५२॥

यद्भतं यच्च वै भाव्यं स्थावरं जङ्गमं जगत् ॥ दशाङ्गुलं योऽत्यतिष्ठत्तमीशमजरं भजे ॥५३॥

अणोरणीयांसमजं महतश्च महत्तरम् ॥ गुह्याद्रगुह्यतमं देवं प्रणमामि पुनःपुनः ॥५४॥

ध्यातः स्मृतः पूजितो वा श्रुतः प्रणमितोऽपि वा ॥ स्वपदं यो ददातीशस्तं वन्दे पुरुषोत्तमम् ॥५५॥

इति स्तुवन्तं परमं परेशं हर्षाम्बुसंरुद्धविलोचनास्ते ॥ मुनीश्वरा नारदसंयुतास्तु सनन्दनाद्याः प्रसुदं प्रजग्मुः ॥५६॥

य इदं प्रातरुत्थाय पठैद्वै पौरुषं स्तवम् ॥ सर्वपापविशुद्धात्मा विष्णुलोकं स गच्छति ॥५७॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे सनत्कुमारनारदसंवादे नारदकृतविष्णुस्तुतिर्नाम द्वितीयोध्यायः ॥२॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-05T05:19:05.4130000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

रेखाटा

  • पु. नकाशा ; आराखडा ; रेषाचित्र . 
RANDOM WORD

Did you know?

गणपतीला २१ दुर्वा वाहतांना काय मंत्र म्हणावा ?
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site

Ved - Puran
Ved and Puran in audio format.