TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
षोडशोऽध्यायः

श्री नारदीयमहापुराणम् - षोडशोऽध्यायः

नारदपुराणात शिक्षण, कल्प, व्याकरण, छन्द शास्त्राचे आणि परमेश्वराच्या उपासनेचे विस्तृत वर्णन  आहे.


षोडशोऽध्यायः

नारद उवाच ॥

हिमवद्रिरिमासाद्य किं चकार महीपतिः ॥ कथमानीतवान्गङ्गामेतन्मे वक्तुमर्हसि ॥१॥

सनक उवाच ॥

भगीरथो महाराजो जटाचीरधरो मुने ॥ गच्छन्हिमाद्रिं तपसे प्राप्तो गोदावरी तटम् ॥२॥

तत्रापश्यन्महाराण्ये भृगोराश्रममुत्तमम् ॥ कृष्णसारसमाकीर्णं मातङ्गगणसेवितम् ॥३॥

भ्रमद्भमरसंघुष्टं कूजद्विहगसंकुलम् ॥ व्रजद्वरहनिकरं चमरीपुच्छवीजितम् ॥४॥

नृत्यन्मयूरनिकरं सारङ्गादिनिषेवितम् ॥ प्रवर्द्धितमहावृक्षं मुनिकन्याभिरादरात् ॥५॥

शालतालतमालाढ्यं नूनहिन्तालमण्डितम् ॥ मालतीयूथिकाकुन्दचम्पकाश्वत्थभूषितम् ॥६॥

उत्पुल्लकुसुमोपेत मृषिसङ्घनिषेवितम् ॥ वेदशास्त्रमहा घोषमाश्रमं प्राविशद्भ्रृगोः ॥७॥

गृणन्तं परम ब्रह्म वृतं शिष्यगणैर्मुनिम् ॥ तेजसा सूर्यसदृशं भृगुं तत्र ददर्श सः ॥८॥

प्रणनामाथ विप्रेन्द्रं पाद संग्रहणादिना ॥ आतिथ्य भृगुरप्यस्य चक्रे सन्मानपूर्वकम् ॥९॥

कृतातिथ्यक्रियो राजा भृगुणा परमिर्षिणा ॥ उवाच प्राञ्जलिर्भूत्वा विनयान्मुनि पुङ्गवम् ॥१०॥

भगीरथ उवाच ॥ भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद ॥ पृच्छामि भवभीतोऽहं नृणामुद्धारकारणम् ॥११॥

भगवांस्तुष्यते येन कर्मणा मुनिसत्तम ॥ तन्ममाख्याहि सर्वज्ञ अनुग्राह्योऽस्मि ते यदि ॥१२॥

भृगुरुवाच ॥

राजंस्तवेप्सितं ज्ञातं त्वं हि पुण्यवतां वरः ॥ अन्यथा स्वकुलं सर्वं कथमुद्धर्त्तुमर्हसि ॥१३॥

यो वा को वापि भूपाल स्वकुलं शुभकर्मणा ॥ उद्धर्त्तुकामस्तं विद्यान्नरूपधरं हरिम् ॥१४॥

कर्मणा येन देवेशो नृपाणमिष्टफलप्रदः ॥ तत्प्रवक्ष्यामि राजेन्द्र श़ृणुष्व सुसमाहितः ॥१५॥

भव सत्यपरो हिंसानिरतस्तथा ॥ सर्वभूतहितो नित्यं मानृतं वद वै क्कचित् ‍ ॥१६॥

त्यज दुर्जनसंसर्गं भज साधुसमामम् ‍ ॥ कुरु पुण्यमहोरात्रं स्मर विष्णुं सनातनम् ‍ ॥१७॥

कुरु पूजां महाविष्णोर्यहि शान्ति मनुत्तमाम् ‍ ॥ द्वादशाष्टाक्षरं मन्त्रं जप श्रेयो भविष्याति ॥१८॥

भगिरथ उवाच ॥ सत्यं तु कीदृशं प्रोक्तं सर्वभूतहितं मुने ॥ अनृतं कीदृशं प्रोक्तं दुर्जनाश्चापि कीदृशाः ॥१९॥

साधवः कीदृशाः प्रोक्तास्तथा पुण्यं च कीदृशम् ॥ स्मर्तव्यश्च कथं विष्णुस्तस्य पूजा च कीदृशी ॥२०॥

शान्तिश्च कीदृशी प्रोक्ता कोमंत्रोऽष्टक्षरो मुने ॥ को वा द्धादशवर्णश्च मुने तत्त्वार्थकोविद ॥२१॥

कृपां कृत्वा मयि परां सर्वं व्याख्यातुमर्हसि ॥ भृगुरुवाच ॥ साधु साधुमहाप्राज्ञ तव बुद्धिरनुत्तमा ॥२२॥

यत्पृष्टोऽहं त्वया भूप तत्सर्वं प्रवदामि ते ॥ यथार्थकथनं यत्तत्सत्यमाहुर्विपश्चितः ॥२३॥

धर्माविरोधतो वाच्यं तद्धि धर्मपरायणैः ॥ देशकालादि विज्ञाय सव्यमस्याविरोधतः ॥२४॥

यद्धचः प्रोच्यते सद्भिस्तत्सत्यमभिधीयते ॥ सर्वेषामेव जंतूनामक्लेशजननं हि तत् ॥२५॥

अहिंसा सा नृप प्रोक्ता सर्वकामप्रदायिनी ॥ कर्मकार्यसहायत्वमकार्यपरि पन्थिता ॥२६॥

सर्वलोकहितत्वं वै प्रोच्यते धर्मकोविदैः ॥ इच्छानु वृत्तकथनं धर्माधर्मविवेकिनः ॥२७॥

अनृतं तद्धि विज्ञेय सर्वश्रेयोविरोधि तत् ॥ ये लोके द्वेषिणो मूर्खाः कुमार्गरतबुद्धयः ॥२८॥

ते राजन्दुर्ज्जना ज्ञेयाः सर्वधर्मबहिष्कृताः ॥ धर्माधर्मविवेकन वेदमार्गानुसारिणः ॥२९॥

सर्वलोकहितासक्ताः साधवः परिकीर्तताः ॥ हरि भक्तिकरं य तत्सद्भिश्च परिरञ्जितम् ॥३०॥

आत्मनः प्रीतिजनकं तत्पुण्यं परिकीर्त्तितम् ॥ सर्वं जगदिदिं विष्णुर्विष्णुः सर्वस्य कारणम् ॥३१॥

अहं च विष्णुर्यज्ज्ञानं तद्विष्णुस्मरणं विदुः ॥ सर्वदेवमयो विष्णुर्विधिना पूजयामि तम् ॥३२॥

इति या भवति श्रद्धा सा तद्भक्तिः प्रकीर्त्तिता ॥ सर्वभूतमयो विष्णुः परिपूर्णः सनातनः ॥३३॥

इत्यभेदेन या बुद्धिः समता सा प्रकीर्त्तिता ॥ समता शत्रुमित्रेषु वशित्वं च तथा नृप ॥३४॥

यदृच्छालाभसंतुष्टिः सा शान्तिः परिकीर्त्तिता ॥ एते सर्वे समाख्यातास्तपः सिद्धिप्रदा नृणाम् ॥३५॥

समस्तपापराशीनां तरसा नाशहेतवः ॥ अष्टाक्षरं महामन्त्रं सर्वपापप्रणाशनम् ॥३६॥

वक्ष्यामि तव राजेन्द्र पुरुषार्थैकसाधनम् ॥ विष्णोः प्रियकरं चैव सर्वसिद्धिप्रदायकम् ॥३७॥

नमो नारायणायेति जपेत्प्रणवपूर्वकम् ॥ नमो भगवते प्रोच्य वासुदेवाय तत्परम् ॥३८॥

प्रणवाद्यं महाराज द्वादशार्णमुदाहृतम् ॥ द्वयोः सम फलं राजन्नष्टद्वादशवर्णयोः ॥३९॥

प्रवृत्तौ च निवृत्तौ च साम्यमु दिष्टमेतयोः ॥ शङ्खचक्रधरं शान्तं नारायणमनामयम् ॥४०॥

लक्ष्मीसंश्रितवामाङ्खं तथाभयकरं प्रभुम् ॥ किरीटकुण्डलधरं नानामण्डनशोभितम् ॥४१॥

भ्राजत्कौस्तुभमालाढ्यं श्रीवत्साङ्कितवक्षसम ॥ पीताम्बररधरं देवं सुरासुरनमस्कृतम् ‍ ॥४२॥

ध्यायेदनादिनिधनं सर्वकामफलप्रदम ॥ अन्तर्यामी ज्ञानरुपी परिपूर्णः सनातनः ॥४३॥

एतत्सर्वं यत्तु पृष्टं त्वया नृप ॥ स्वस्ति तेऽस्तु तपःसिद्धिं गच्छ लब्धुं यथासुखम् ॥४४॥

एवमुक्तो महीपालो भृगुणा परमर्षिणा ॥ परमाश प्रीतिमापन्नः प्रपेदे तपसे वनम् ॥४५॥

हिमवद्रिरिमासाद्य पुण्यदेशे मनोहरे ॥ नादेश्वरे महाक्षेत्रे तपस्तेपेऽतिदुश्चरम् ॥४६॥

राजा त्रिषवणस्रायी कन्दमूलफलाशनः ॥ कृतातिथ्यर्हणश्चापि नित्यं होमपरायणः ॥४७॥

सर्वभूतहितः शान्तो नारायणपरायणः ॥ पत्रैः पुष्पैः फलैस्तोयैस्रिकालं हरिपूजकः ॥४८॥

एवं बहुतिथं कालं नीत्वा चात्यन्तधैर्यवान् ॥ ध्यायन्नारायणं देवं शीर्णपर्णाशनोऽभवत् ॥४९॥

प्राणायामपरो भूत्वा राजा परमधार्मिक ॥ छ्वासस्तपस्तप्तुं ततः समुपचक्रमे ॥५०॥

ध्यायन्नारायणं देवमनं तमपराजितम् ॥ षष्टिवर्षसहस्राणि निरुच्छ्वासपरोऽभवत् ॥५१॥

तस्य टाद्राज्ञो वह्निर्जज्ञं भयंकरः ॥ तं दृष्ट्वा देवताः सर्वे वित्रस्ता वह्नितापिताः ॥५२॥

अभिजग्मुर्महाविष्णुं यत्रास्ते जगतां पतिः ॥ क्षीरोदस्योत्तरं संप्राप्य त्रिदशेश्वराः ॥

अस्तुवन्देवदेवेशं शरणागतपालकम् ॥५३॥

देवा ऊचुः ॥

नताः स्म विष्णुं जगदेकनाथं स्मरत्समस्तार्तिहरं परेशम् ॥ स्वभावशुद्धं परिपूर्णभावं वदन्ति यज्ज्ञानतनुं च तज्ज्ञाः ॥५४॥

ध्येयः सदा योगिवरैर्महात्मा स्वेच्छाशरीरैः कृतदेवकार्यः ॥ जगत्स्वरूपो जगदादिनाथस्तस्मै नताः स्मः पुरुषोत्तमाय ॥५५॥

यन्नामसंकीर्त्तनतो खलानां समस्तं पापानि लयं प्रयान्ति ॥ तमीशमीड्यं पुरुषं पुराणं नताः स्म विष्णु पुरुषाथसिद्ध्य़ै ॥५६॥

यत्तेजसा भान्ति दिवाकराद्या नातिक्रमं त्यस्य कदापि शिक्षाः ॥ कालात्मकं तं त्रिदशाधिनाथं नमामहे वै पुरुषार्थरूपम् ॥५७॥

जगत्करोऽत्यज्बभवोऽत्ति रुद्रः पुनाति लोकाञश्रुतिभिश्च विप्राः ॥ तमादिदेवं गुणसन्निधानं सर्वोपदेष्टारमिताः शरण्यम् ॥५८॥

वरं वरेण्यं मधुकैटभारिं सुरासुराभ्यर्चितपादपीठम् ॥ सद्भक्तसंकल्पितासिद्धिहेतुं ज्ञानैकवेद्यं प्रणताः स्म देवम् ॥५९॥

अनादिमध्यान्तमजं परेशमनाद्यविद्याख्यतमोविनाशम् ॥ सच्चित्परानन्दघनस्वरूपं रूपादिहीनं प्रणताः स्म देवम् ॥६०॥

नारायणं विष्णुमनन्तमीशं पीताम्बरं पद्मभवादिसेव्यम् ॥ यज्ञप्रियं यज्ञकरं विशुद्धंनताः स्म सर्वोत्तममव्ययं तम् ॥६१॥

इति स्तुतो महाविष्णुर्देवैरिन्द्रादिभिस्तदा ॥ चरितं तस्य राजर्षेर्देवानां संन्यवेदयत् ॥६२॥

ततो देवान्समाश्वास्य द वाभयमनञ्जनः ॥ जगाम यत्र राजर्षिस्तपस्तपति नारद ॥६३॥

शङ्खचक्रधरो देवः सच्चिदानन्दविग्रहः ॥ प्रत्यक्षतामगात्तस्य राज्ञः सर्वजगद्गुरुः ॥६४॥

तं दृष्ट्वा पुण्डरीकाक्षं भाभातितदिग्न्तरम् ॥ अतसीपुष्पंसंकाशं स्फुरत्कुण्डलमण्डितम् ॥६५॥

स्रिग्धकुन्तलवक्राब्जं विभ्राजन्मुकुटोज्जवलम् ॥ श्रीवत्सकौस्तुभधरं वनमालाविभूषितम् ॥६६॥

दीर्घबाहुमुदाराङ्गं लोकेशार्चितपत्कजम् ॥ ननामदण्डवद्भमौ भूपतिर्नम्रकंधरः ॥६७॥

अत्यन्तहर्षसंपूर्णः सरोमाञ्चः सगद्रदः ॥ कृष्ण कृष्णोति कृष्णोति श्रीकृष्णेति समुच्चरन् ॥६८॥

तस्य विष्णुः प्रसन्नात्मा हृन्तर्यामी जगद्गुरुः ॥ उवाच कृपयाविष्टो भगवान्भूतभावनः ॥६९॥

श्रीभगवानुवाच ॥ भगीरथ महाभाग तवाभीष्टं भविष्यति ॥ आगामिष्यन्ति मल्लोकं तव पूर्वपितामहाः ॥७०॥

मम मूर्त्यन्तरं शम्भुं राजन्स्तोत्रैः स्वशक्तिः ॥ स्तुहि ते सकलं कामं सवै सद्यः करिष्यति ॥७१॥

यस्तु जग्राह शशिनं शरणं समुपागतम् ॥ तस्मादाराधयेशानं स्तोत्रैः स्तुत्यं सुखप्रदम् ॥७२॥

अनादिनिधनो देवः सर्वकाम फलप्रदः ॥ त्वया संपूजितो राजन्सद्यः श्रेयो विधास्यस्ति ॥७३॥

इत्युक्त्वा देवदेवेशो जगतां पतिरच्युतः ॥ अन्तर्दधे मुनिश्रेष्ठ उत्तस्तथौ सोऽपि भूपतिः ॥७४॥

किमिदं स्वप्नं आहोस्वित्सत्यं साक्षाद्विजोत्तम् ॥ भूपतिर्विस्मयं प्राप्तः किं करोमिति विस्मितः ॥७५॥

अथान्तरिक्षे वागुच्चैः प्राह तं भ्रान्तचेतसम् ॥ सत्यमेतदिति व्यक्तं न चिन्तां कर्तुमर्हसि ॥७६॥

तन्निशम्यावनीपाल ईशानं सर्वकारणम् ॥ समस्तदेवताराजमस्तौषीद्भक्तितत्परः ॥७७॥

भगीरथ उवाच ॥ प्रणमामि जगन्नाथं प्रणतार्तिप्रणाशनम् ॥ प्रमाणागोचरं देवमीशानं प्रणवात्मकम् ॥७८॥

जगद्रूप मजं नित्यं सर्गस्थित्यंतकारणम् ॥ विश्वरूपं विरूपाक्ष प्रणतोऽस्म्युग्ररेतसम् ॥७९॥

आदिमध्यान्तरहितमनन्तमजमव्ययम् ॥ समामनन्ति योगीन्द्रास्तं वन्दे पुष्टिवर्धनम् ॥८०॥

नमो लोकाधिनाथाय वञ्चते परिवञ्चते ॥ नमोऽस्तु नीलग्रीवाय पशूनां पतये नमः ॥८१॥

नमश्वैतन्यरुपायं पुष्टानां पतये नमः ॥ नमोऽकल्पप्रकल्पाय भूतानां पतये नमः ॥८२॥

नमः पिनाकहस्ताय शूलहस्ताय ते नमः ॥ नमः कपालहस्ताय पाश मुद्रधारिणे ॥८३॥

नमस्ते सर्वभूताय घण्टाहस्ताय ते नमः ॥ नमः पञ्चास्यदेवाय क्षेत्राणां पतये नमः ॥८४॥

नमः समस्तभूतानामादिभूताय भृभृते ॥ अनेकरूपरूपाय निर्गुणाय परात्मने ॥८५॥

नमो गणाधिदेवाय गणानां पतये नमः ॥ नमो हिरण्यगर्भाय हिरण्यपतये नमः ॥८६॥

हिरण्यरेतसे तुभ्यं नमो हिरण्यबाहवे ॥ नमो ध्यानस्वरूपाय नमस्ते ध्यानसाक्षिणे ॥८७॥

नमस्ते ध्यानसंस्थाय ध्यानगम्याय ते नमः ॥ येनेदं विश्वमखिलं चराचरविराजितम् ॥८८॥

वर्षेवाभ्रेण जनितं प्रधानपुरुषात्मना ॥८९॥

स्वप्रकाशं महात्मानं परं ज्योतिः सनातनम् ॥ यमामनन्ति तत्त्वज्ञाः सवितारं नृच क्षुषाम् ॥९०॥

उमाकान्तनन्दिकेशंतं नीलकण्ठं सदाशिवम् ॥ मृत्युंजय महादेवं परात्परतरं विभुम् ॥९१॥

परं शब्दब्रह्मरूपंतं तं वन्देऽखिलकारणम् ॥ कपार्द्दिने नमस्तुभ्यं सद्योजाताय वै नमः ॥९२॥

भवोद्भवाय शुद्धाय ज्येष्ठाय च कनीयसे ॥ मन्यवे त इषे त्रय्याः पतये यज्ञतन्तवे ॥९३॥

ऊर्जे दिशां च पतये कालायाघोररूपिणे ॥ कृशानुरेतसे तुभ्यं नमोऽस्तु सुमहात्मने ॥९४॥

यतः समुद्राः सरितोऽद्रयश्च गन्धर्वयक्षासुरसिद्धसङ्घाः ॥ स्थाणु श्चरिष्णुर्महदल्पकं च असच्च सज्जीवमजीवमास ॥९५॥

नतोऽस्मि तं योगिनतांघ्रिपद्मं सर्वान्तरात्मानमरूपमीशम् ॥ स्वतन्त्रमेकं गुणिनां गुणं च नमामि भूयः प्रणमामि भूयः ॥९६॥

इत्थं स्तुतो महादेवः शंकरो लोकशंकरः ॥ आविर्बभूव भूपस्य संतप्ततपसोग्रतः ॥९७॥

पञ्चवक्रं दशभुजं चन्द्रार्द्धकृतशेखरम् ॥ त्रिलोचनमुदाराङ्गं नागयज्ञोपवीतिनम् ॥९८॥

विशालवक्षसं देवं तुहिनाद्रिसमप्रभम् ॥ गजचर्माम्बरधरं सुरार्चितपदाम्बुजम् ॥९९॥

दृष्ट्वा पपात पादाग्रे दण्डवद्भुवि नारद ॥ तत उत्थाय सहसा शिवाग्रे विहिताञ्जलिः ॥१००॥

प्रणनाम महादेवं कीर्तयञ्शंकराह्वयम् ॥ विज्ञाय भक्तिं भूपस्य शंकरः शशिशेखरः ॥१॥

उवाच राज्ञे तुष्टोऽस्मि वरं वरय वाञ्छितम् ॥ तोषितोऽस्मि त्वया सम्यक् स्तोत्रेण तपसा तथा ॥२॥

एवमुक्तः स देवेन राजा संतुष्टमानसः ॥ उवाच प्राञ्जलिर्भूत्वा जगतामीश्वरेश्वरम् ॥३॥

भगीरथ उवाच ॥ अनुग्राह्योऽस्मि यदि ते वरदनान्महेश्वर ॥ तदा गङ्गां प्रयच्छास्मत्पितृणां मुक्तिहेतवे ॥४॥

श्रीशिव उवाच ॥ दत्ता गङ्गा मया तुभ्यं पितृणां ते गतिः परा ॥ तुभ्यं मोक्षः परश्चेति तमुक्त्वार्न्दधे शिवः ॥५॥

कपर्दिनो जटास्रस्ता गङ्गा लोकैकपाविनी ॥ पावयन्ती जगत्सर्वमनवगच्छद्भगीरथम् ॥६॥

ततः प्रभृति सा देवी निर्मला मलहारिणी ॥ भागीरथीति विख्याता त्रिषु लोकेष्वभून्मुने ॥७॥

सगरस्यात्मजाः पूर्वं यत्र दग्धाः स्वपाप्मना ॥ तं देशं प्लावयामास गङ्गा सर्वसरिद्वरा ॥८॥

यदा संप्लवितं भस्म सागराणां तुं गङ्गया ॥ तदैव नरके मग्ना उद्धृताश्च गतैनसः ॥९॥

पुरा संक्रुश्यमानेन ये यमेनातिपीडिताः ॥ त एव पूजितास्तेन गङ्गाजलपरिप्लुताः ॥१०॥

गतापापान्स विज्ञाय यमः सगरसंभवान् ॥ प्रणम्या भ्यर्च्य विविधत्प्राह तन्प्रीतमानसः ॥११॥

भो भो राजसुता यूयं नरकाद भृशदारुणात् ॥ मुक्ता विमानमारुह्या गच्छध्वं विष्णुमन्दिरम् ॥१२॥

इत्युक्तास्ते महात्मानो यमेन गतकल्मषाः ॥ दिव्यदेहधरा भूत्वा विष्णुलोकं प्रपेदिरे ॥१३॥

एवंप्रभावा सा गङ्गा विष्णुपादाग्रंसंभवा ॥ सर्वलोकेषु विख्याता महापातकनाशिनी ॥१४॥

य इदं पुण्यमाख्यानं महापातकनाशनम् ॥ पठेच्च श़ृणुयाद्वापि गङ्गास्नानफलं लभेत् ॥१५॥

यस्त्वे तत्पुण्यमाख्यानं कथयेद्ब्रह्मणाग्रतः ॥ स याति विष्णुभवनं पुनरावृत्तिवर्जितम् ॥१६॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गामहात्म्ये भगीरथ्ज्ञगङ्गानयनं नाम षोडशोऽध्यायः ॥१६॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-05T05:32:14.4900000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

flying trapeze

  • उडताटांगता झूला 
RANDOM WORD

Did you know?

चातुर्मासाचे महत्व स्पष्ट करावे.
Category : Hindu - Traditions
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site