संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः| सप्ततितमोऽध्यायः श्री नारदीयमहापुराणम् : पूर्वभागः प्रथमोऽध्यायः द्वितीयोध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पंचविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पंचत्रिशोंऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशत्तमोऽध्यायः पश्वचत्वारिशत्तमोऽध्यायः षट्रचत्वारिंशत्तमोऽध्यायः सप्तचत्वारिंशत्तमोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोध्यायः पञ्चाशत्तमोऽध्यायः एकपंचाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुःपञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषाष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुष्षष्टितमोऽध्यायः पञ्चषष्टिमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षटसप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्याय एकोनाशीतितमोऽध्यायः नामाशीतितमोऽध्यायः नामैकाशीतितमोऽध्यायः व्द्यशीतितमोऽध्यायः त्र्यशीतितमोऽधायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः नामाष्टाशीतितमोऽध्यायः नामैकोननवतितमोऽध्यायः नवतितमोऽध्यायः नामैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः नामाष्टनतितमोऽध्यायः नामैकोनशततमोऽध्यायः शततमोऽध्यायः नामैकोत्तरशततमोऽध्यायः द्वयुत्तरशततमोऽध्यायः त्र्युत्तरशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडुत्तशततमोऽध्यायः सप्तोत्तशततमोऽध्यायः नामाष्टोत्तरशततमोऽध्यायः नवोतरशततमोऽध्यायः दशोत्तरशततमोऽध्यायः नामैकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाघिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशदधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशतमोऽध्यायः पंचविंशोत्तरशततमोऽध्यायः श्री नारदीयमहापुराणम् - सप्ततितमोऽध्यायः `नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है। Tags : naradnaradapuranpuranनारदनारदपुराणपुराण सप्ततितमोऽध्यायः Translation - भाषांतर सनत्कुमार उवाच ॥अथ वक्ष्ये महाविष्णोर्मन्त्रान्लोकेषु दुर्लभान् ॥ यान्प्राप्य मानवास्तूर्ण प्राप्नुवंति निजेप्सितम् ॥१॥येषामुच्चारणेनैव पापसंघः प्रलीयते ॥ ब्रह्मादयोऽपि याञ्ज्ञात्वा समर्थाः स्युर्जगत्कृतौ ॥२॥तारह्रत्पूर्वकं ङेतं नारायणपदं भवेत् ॥ अष्टाक्षरो मनुश्वास्य साध्यो नारायणो मुनिः॥३॥छन्दः प्रोक्तं च गायत्री देवता विष्णुरव्ययः ॥ ॐ बीजं यं च तथा शक्तिर्विनियोगोऽखिलाप्तय ॥४॥क्रुद्धोल्काय ह्रदाख्यातं महोल्काय शिरः स्मृतम् ॥ वीरोल्काय शिखा प्रोक्ता द्युल्काय कवचं मतम् ॥५॥महोल्कायेति चास्त्रं स्यादित्थं पंचांगकल्पना ॥ पुनःषडंगमंत्रोत्थैः षडवर्णैश्व समाचरेत् ॥६॥अवशिष्टौ न्यसेत्कुक्षिपृष्ठयोर्मंत्रवर्णकौ ॥ सुदर्शनस्य मंत्रेन कुर्याद्दिग्बन्धनं ततः ॥७॥तारो नमश्वतुर्थ्यंत सुदर्शनपदं वदेत् ॥ अस्त्रायफडिति प्रोक्तो मंत्रो द्वादशवर्णवान् ॥८॥दशावृत्तिमय न्यासं वक्ष्ये विभूतिपञ्जरम् ॥ मूलार्णान्स्वतनौ न्यस्येदाधारे ह्रदये मुखे ॥९॥दोःपन्मूलेषु नासायां प्रथमावृत्तिरीरिता ॥ गले नाभौ ह्रदि कुचपार्श्वपृष्ठेषु तत्पराः ॥१०॥मूर्द्धास्यनेत्रश्रवणघ्राणेषु च तृतीयकाः ॥ दोःपादसंध्यंगुलिषु वेदावृत्त्या च विन्यसेत् ॥११॥धातुप्राणेषु ह्रदये विन्यसेत्तदनंतरम् ॥ शिरोनेत्रा स्यह्रत्कुक्षिसोरुजंजापदद्वये ॥१२॥ एकैकशो न्यसेद्वर्णान्मंत्रस्य क्रमतः सुधीः ॥ न्यसेद्धृदंसोरुपदेष्वर्णआन्वेदमितान्मनोः ॥१३॥चक्रशं खगदांभोजपदेषु स्वस्वमुद्रया ॥ शेषांश्व न्यासवर्योऽयं विभूतिपञ्जराभिधः ॥१४॥न्यसेन्मूलार्णमेकैकं सचंद्रं तारसम्पुटम् ॥ अथवा वै नमोंतेन न्यसेदित्यपरे जगुः ॥१५॥तत्त्वान्यासं ततः कुर्याद्विष्णुभावप्रसिद्धये ॥ अष्टार्णोऽष्टप्रऋत्यात्मा गदितः पूर्वसूरिभिः ॥१६॥पृथिव्यादीनि भूतानि ततोऽहंकारमेव च ॥ महांश्व प्रकृतिश्वैवेत्यष्टौ प्रकृतयो मताः ॥१७॥पादे लिं ह्रदि मुखे मूर्ध्नि वक्षसि ह्रत्स्थले ॥ सर्वांगे व्यापकं कुर्यादेकेन साधकोत्तमः ॥१८॥मंत्रार्णह्रत्परायाद्यमात्मने ह्रदयांतिमम् ॥ तत्तन्नाम समुच्चार्य्य न्यसेत्तत्तत्थले बुधः ॥१९॥अयं तत्त्वाभिधो न्यासः सर्वन्यासोत्तमोत्तमः ॥ मूर्तीन्यसेद्दादश वै द्वादशादित्यसंयुताः ॥२०॥द्वादशाक्षरवर्णाद्या द्वादशादित्यसंयुताः ॥ अष्टार्णोऽयं मनुश्वाष्टकृत्यात्मा समीरितः ॥२१॥तासामात्मचतुष्कस्य योगादर्काक्षरो भवेत् ॥ ललाटकुक्षिह्रत्कंठक्षपार्श्वांसकेषु च ॥२२॥गले च वामपार्श्वां सगलपृष्ठेष्वनंतरम् ॥ ककुद्यपि न्यसेन्मंत्री मूर्तीर्द्वादश वै क्रमात् ॥२३॥धात्रा तु केशवं न्यस्यार्यम्णं नारायणं पुनः ॥ मित्रेण माधवं न्यस्य गोविंदं वरुणेन च ॥२४॥विष्णुं चैवांशुना युक्तं भगेन मधुसूदनम् ॥ न्यसेद्विवस्वता युक्तं त्रिविक्रममतः परम् ॥२५॥वामनं च तथद्रण पूष्णा श्रीधरमेव च ॥ ह्रषीकेशं न्यसेत्पश्वात्पर्जन्येन समन्वितम् ॥२६॥त्वष्ट्रा युतं पद्मनाभं दामोदरं च विष्णुना ॥ द्वादशार्णं ततो मंत्रं समस्ते शिरसि न्यसेत् ॥२७॥व्यापकं विन्यसेत्पश्वात्किरीटमनुना सुधीः ॥ ध्रुवः किरीटकेयूरहारांते मकरेतिच ॥२८॥कुंडलांते चक्रशंखगदांतेंऽभोजहस्ततः ॥ पीतांबरांते श्रीवत्संकितवक्षःस्थलेति च ॥२९॥श्रीभूमिसहितस्वात्मज्योतिर्द्वयमतः परम् ॥ वदेद्दीप्तिक्रायांते सहस्त्रादित्यतेजसे ॥३०॥नमोंतो बाणषड्वर्णैः किरीटमनुरीरितः ॥ एवं न्यासविधिं कृत्वा ध्यायेन्नारायणं विभुम् ॥३१॥उद्यत्कोट्यर्कसद्दशं शंखं चक्रं गदांबुजम् ॥ दधतं च करैर्भूमिश्रीभ्यां पार्श्वद्वयांचितम् ॥३२॥श्रीवत्सवक्षसं भ्राजत्कौस्तुभामुक्तकन्धरम् ॥ हारकेयूरवलयांगदं पीतांबरं स्मरेत् ॥३३॥वर्णलक्षं जपेन्मंत्र विधिवन्नियतेंद्रियः ॥ प्रथमेन तु लक्षेण स्वात्मशुद्धिर्भवेद् ध्रुवम् ॥३४॥लक्षद्वयजपेनाथ मंत्रशुद्धिमवाप्नुयात ॥ लक्षयत्रेण जप्तेन स्वर्लोकमधिगच्छति ॥३५॥विष्णोः समीपमाप्नोति वेदलक्षजपान्नरः ॥ तथा च निमलं ज्ञानं पंचलक्षजपाद्धवेत् ॥३६॥लक्षषष्ठेन चाप्रोति मंत्री विष्णो स्थिरां मतिम् ॥ सप्तलक्षजपान्मंत्री विष्णोसारुप्यमाप्नुयात् ॥३७॥अष्टलक्षे जपेन्मंत्री निर्वाणधिगच्छति ॥ एवं जप्त्वा ततः प्राज्ञो दशांशं सरसीरुहैः ॥३८॥मघुराक्तैः प्रजुहुयात्संस्कृते हव्यवाहने ॥ मंडूकात्परत्वांत पीठे संपूज्य यत्नतः ॥३९॥विमलोत्कर्षिणी ज्ञाना क्रिया योगा ततः परा ॥ प्रह्री सत्या तथेशानानुग्रहा नवमीमता ॥४०॥तारो नमो भागवते विष्णवे सर्वभू ततः ॥ तात्मने वासुदेवाय सर्वात्मेति पदं वदेत् ॥४१॥संयोगयोगपद्मांते पीठाय त्दृअदयांतिमः ॥ षङ्किंशदक्षरः पीठमंत्रोऽनेनासनं दिशेत् ॥४२॥संकल्प मूलेन तस्यामावाह्य पूजयेत् ॥ आदौ चांगानि संपूज्य मंत्राणां केशरेषु च ॥४३॥प्रागादिदिग्दले वासुदेवं संकर्षणं तथा ॥ प्रद्युम्रमनिरुद्धं च शक्तिः कोणेष्वथार्चयेत् ॥४४॥शांतिं श्रियं सरस्वत्या रतिं संपूजयेत्क्रमात् ॥ हेमपीततमालेंद्रनीलाभाः पीतवाससः ॥४५॥चतुर्भुजाः शंखचक्रगदांभोजधरा इमे ॥ सितकांचनगोदुग्धदूर्वावर्णाश्व शक्तयः ॥४६॥दलाग्रेषु चक्रशंखगदापंकजकौस्तुभान् ॥ पूजयेन्मुसलं खङुं वनमालां यथाक्रमात् ॥४७॥रक्ताजपीतकनकश्याकृष्णासितर्जुनान् ॥ कुंकुमाभं ससभ्यर्च्येद्वहिरग्रे खगेश्वरम् ॥४८॥पार्श्वयोः पूजयेत्पश्वाच्छंखपद्मनिधी क्रमात् ॥ मुक्तामाणिक्यसंकाशौ पश्चिमे ध्वजप्रर्चयेत् ॥४९॥रक्तं विघ्नं तथाग्रेये श्याममार्यं च राक्षसे ॥ दुर्गां श्यामां वायुकोणे सेनान्यं पीतमैश्वरे ॥५०॥लोकेशा नायुधैर्युक्तान्बहिः संपूजयेत्सुधीः ॥ एवमावरणैर्युक्तं योऽर्चयोद्विष्णुमव्ययम् ॥५१॥भुक्तेह सकलान्भोगानंते विष्णुपदं व्रजेत् ॥ क्षेत्रधान्यसुवर्णानां प्राप्तये धरणीं स्मरेत् ॥५२॥देवीं दूर्वादलश्यामां दधाना शालिमंजरीम् ॥ चिंतयेद्धारतीं देवीं वीणापुस्तकधारिणीम् ॥५३॥दक्षिणे देवदेवस्य पूर्णचंद्रनिभाननाम् ॥ क्षीराब्धिफेनपुंजाभे वसानां श्वेतवाससी ॥५४॥भारत्या सहितं यो वै ध्यायेद्देवं परात्परम् ॥ वेदवेदार्थत्त्वज्ञो जायते सर्ववित्तमः ॥५५॥नारसिंहमिवात्मानं देवं ध्यात्वातिभैरवम् ॥ शस्त्रं संमंत्र्य मंत्रेण शत्रून्हत्वा निवर्तते ॥५६॥नारसिंहेन बीजेन मंत्रं संयोज्य साधकः ॥ शतमष्टोत्तरं जण्त्वा वामहस्ताभिमंत्रिताः ॥५७॥पुनः पुनरपः सिंचेत्सर्पदष्टोऽपि जीवति ॥ गारुडेन च संयोज्य पंचार्णेन जपेत्तदा ॥५८॥निर्विषाकरणे ध्यायेद्विष्णुं गरुडवाहनम् ॥ अशोकफलके तार्क्ष्यमालिख्याशोकसंहतौ ॥५९॥अशोकपुष्पैः संपूज्य भगवंतं तदग्रतः ॥ जुहुयात्तानि पुष्पानि त्रिसंध्य सप्तपत्रकम् ॥६०॥प्रत्यक्षो जायते पक्षी वरमिष्टं प्रयच्छति ॥ गाणपत्येन संयोज्य जपेल्लंक्ष पयोव्रतः ॥६१॥महागणपतिं देवं प्रत्यक्षमिह पश्यति ॥ वाणीबीजेन संयुक्तं षण्मासं योजयेन्नरः ॥६२॥महाकविवरो भूत्वा मोहयेत्सकलं जगत् ॥ हुत्वा गडूचीशकलान्यर्द्धागुलमितानि च ॥६३॥दधिमध्वाज्ययुक्तानि मृत्युं जयति साधकः ॥ शनैश्वर दिने सम्यक् स्पृष्टाश्वत्थं च पाणिना ॥६४॥जप्त्वा चाष्टशतं युद्धे ह्यपमृत्युं जयत्यसौ ॥ पञ्चविंशतिधा जप्त्वा नित्यं प्रातः पिबेज्जलम् ॥६५॥सर्वपापविनिर्मुक्तो ज्ञानवान् रोगवर्जितः ॥ कुंभं संस्थाप्यं विधिवदापूर्य शुद्धवारिणा ॥६६॥जप्त्वायुतं ततस्तेनाभिषेकः सर्वरोगनुत् ॥ चंद्रसूर्योपरागे तु ह्युपोष्याष्टसहस्त्रकम् ॥६७॥स्पृष्टा ब्राह्मीघृतं जप्त्वा पिबेत्साधकत्तमः ॥ मेधां कवित्वं वाक्विसद्धिं लभते नात्र संशयः ॥६८॥जुहुयादयुतं विल्वैर्महाधनपतिर्भवेत् ॥ नारायणस्य मन्त्रोऽयं सर्वमंत्रोत्तमोत्तमः ॥६९॥आलयः सर्वसिद्धीनां कथितस्तव नारद ॥ नारायणाय शब्दांते विद्महे पदमीरयेत ॥७०॥वासुदेवपदं ङेंतं धीमहीति ततो वदेत् ॥ तन्नो विष्णुः प्रचोवर्णान्संवदेच्चोदयादिति ॥७१॥एषोक्ता विष्णुगायत्री सर्वपापप्रणाशिनी ॥ तारो हद्धगवान् ङेंतो वासुदेवाय कीर्तितः ॥७२॥द्वादशार्णो महामन्त्रो भुक्तिसुक्तिप्रदायकः स्त्रीशूद्राणां वितारोऽयं सातारस्तु द्विजन्मनाम् ॥७३॥प्रजापतिर्मुनिश्वास्य गायत्री छन्द ईरितः ॥ देवता वासुदेवस्तु बीजं शक्तिर्ध्रुवश्व त्दृत् ॥७४॥चन्द्राक्षिवेदपञ्चार्णैः समस्तेनांगकल्पनम् ॥ मूर्घ्नि भाले दृशोरास्ये गले दोर्त्दृदये पुनः ॥७५॥कुक्षौ नाभौ जानुद्वये पादद्वये तथा ॥ न्यसेत्क्रमान् मन्त्रवर्णान्सृष्टिन्यासोऽयमीरितः ॥७६॥ह्रदादिमस्तकांतं तु स्थितिन्यासं प्रचक्षते ॥ पादादारभ्य मूर्द्धानं न्यासं संहारकं विदुः ॥७७॥तत्त्वन्यासं ततः कुर्यात्सर्वतंत्रेषु गोपितम् ॥ जीवं प्राणं तथा चित्तं सूर्यमण्डलम् ॥७८॥चन्द्राग्निमण्डले चैव वासुदेवं ततः परम् ॥ संकर्षणं च प्रद्युम्रमनिरुद्धं ततः परम् ॥७९॥नारायणं चक्रमस्तत्त्वानि द्वादशैव तु ॥ मूलार्णतत्परायाद्यमात्मने त्दृदयांतिमम् ॥८०॥तत्ते नाम समुच्चार्य्य न्यसेन्मूर्द्धादिषु क्रमात् ॥ पूर्वोक्त ध्यानमत्रापि भानुलक्षजपो मनोः ॥८१॥तद्दशांशं तिलैराज्यलोलितैर्हवनं चरेत् ॥ पीठे पूर्वोदिते मन्त्री मूर्ति संकल्प मूलतः ॥८२॥तस्यामावाह्य देवेशं वासुदेवं प्रपूजयेत् ॥ अङानि पूर्वमभ्यर्च्य वासुदेवादिकास्ततः ॥८३॥शांत्यादिशक्तयः पूज्याः प्राग्वाद्दिक्षु विदिक्षु च ॥ तृतीयावरणे पूज्याः प्रोक्ता द्वादश मूर्तयः ॥८४॥इंद्राद्यानायुधैर्युक्तान् पूजयेद्धरणीगृहे ॥ एवमावरणैरिष्ट्रा पञ्चभिर्विष्णुमव्ययम् ॥८५॥प्राप्नुयात्सकलार्थानन्ते विष्णुपदे व्रजेत् ॥ पुरुषोत्तमसंज्ञस्य विष्णोर्भेदचतुष्टयम् ॥८६॥त्रैलोक्यमोहनस्तेषां प्रथमः परिकीर्तितः ॥ श्रीकरश्व त्दृषीकेशः कृष्णश्वात्र चतुर्थकः ॥८७॥तारः कामो रमा पश्वान् ङेंतः स्यात्पुरुषोत्तमः वर्मास्त्राण्यग्रिप्रियांतो मन्त्रो वह्रीन्दुवर्णवान् ॥८८॥ब्रह्मा मुनिः स्याद्धायत्री छन्दः प्रोक्तोऽथ देवता ॥ पुरुषोत्तमसंज्ञोऽत्र बीजशक्तिस्मरेदिरे ॥८९॥भूचंद्रेसाक्ष्यक्षिमंत्रवर्णौर्विभागतः ॥ कृत्वांगानि ततो ध्यायेद्विधिवत्पुरुषोत्तमम् ॥९०॥सदुद्यदादित्यनिभं शंख चक्रगढांबुजैः ॥ लसत्करं पीतवस्त्रं स्मरेच्छ्रीपुरुषोत्तमम् ॥९१॥महारत्नौघखचितस्फुरतोरणमंडपे ॥ मौक्तिकौघशमदमविराजितवितानके ॥९२॥नृत्यद्देवांगस्नावृंदक्कणात्किंकिणिनूपुरे ॥ लसन्स्माणिक्यवेद्यां तु दीप्तार्कायुततेजसि ॥९३॥वृंदारकव्रातकिरीटाग्ररताहिचर्चिते ॥ नवलक्षं जपेन्मंत्रं जुहुयात्तद्दशांशतः ॥९४॥उत्फुल्लैः कमलैः पीठे पूर्वोक्ते वैष्णवेऽर्चयेत ॥ एवमाराध्य देवेशं प्राप्नोति महतीं श्रियम् ॥९५॥पुत्राम्पौत्रान्यशः कांतिं भुक्तिं मुक्तिं च विंदति ॥ उत्तिष्ठेति पदं पश्वाच्छ्रीकराग्निप्रियांतिमः ॥९६॥अष्टार्णोऽस्य मुनिर्व्यासः पंक्तिश्छंद उदाह्रतम् ॥ श्रीकाराख्यो हरिः प्रोक्तो देवता सकलेष्टदः ॥९७॥भीषयद्वितयं त्दृत्स्यात त्राससयद्वितयं शिरः शिखा प्रमर्द्दयद्वंद्वं वर्म प्रध्वंसयद्वयम् ॥९८॥अस्त्रं रक्षद्वयं सर्वे हुमंताः समुदीरिताः ॥ मस्तके नेत्रयोः कंठ ह्रदये नाभिदेशके ॥९९॥ऊरुजंघांघ्रियुग्मेषु मंत्रवर्णान्क्रमान्न्यसेत् ॥ ततःपुरुषसूक्तोक्तमंत्रैन्यार्सं समाचरेत् ॥१००॥मुखे न्यसेद्धाह्यणोऽस्य मुखमासीदिमं मनुम् ॥ बाहुयुग्मे तथा बाहूराजन्य इति विन्यसेत् ॥१०१॥उरु तदस्य यद्वैश्य इममूरुद्वये न्यसेत् ॥ न्यसेत्पादद्वये मंत्री पद्धयां शूद्रो अजायत् ॥१०२॥चक्रं शैखं गदां पद्मं कराग्रेष्वथ विन्य सेत् ॥ एवं न्यासविधिं कृत्वा ध्यायेत्पूर्वोक्तमण्डपे ॥१०३॥अरुणाब्जासनस्थस्य तार्क्ष्यस्योपरि संस्थितम् ॥ पूर्वोक्तरुपिणं देव श्रीकरं लोकमोहनम् ॥१०४॥ध्यात्वैवं पूजयेदष्टलक्षं मंत्री दशांशतः ॥ रक्तांबुजैः समिद्धिश्व विल्वक्षीरिद्धुमोद्धवैः ॥१०५॥पयोऽन्नैः सर्पिषा हुत्वां प्रत्येकं सुसमाहितः ॥ अश्वत्थोदुंबरप्लक्षवटाः क्षीरिद्रुमाः स्मृता ॥१०६॥पूजर्यद्वैष्णवे पीठे मूर्ति संकल्प्य मूलतः ॥ अंगावरनदिक्पालहेतिभिः सहितं विभुम् ॥१०७॥इत्थं सिद्धे मनौ मत्री प्रयोगान्पूर्ववच्चरेत् ॥ तारो ह्रद्धगवान् ङेतो वराहेति ततः परम् ॥१०८॥रुपाय भूर्भुवः स्वः स्याल्लोहितकामिका च ये ॥ भूपतित्वं च मे देहि ददापय शुचिप्रिया ॥१०९॥रामाग्निवर्णो मंत्रोऽयं भार्गवोऽस्य मुनिर्मतः ॥ छ्न्दोऽनुष्टुब्देवतादिवराहः समुदीरितः ॥११०॥एकदंष्ट्राय ह्रदयं व्यामोल्काय शिरः ॥ स्मृतम् शिखा तेजोऽधिपतये विश्वरुपाय वर्म च ॥१११॥महादंष्ट्राय चास्त्रं स्थात्पञ्चांगमिति कल्पयेत् ॥ अथवा गिरिषट्सप्तबाणौर्वसुभिरक्षरैः ॥११२॥विभक्तैर्मंत्रवर्यस्य पञ्चागांनि प्रकल्पयेत् ॥ ततो ध्यायेदनेकार्कनिभमादिवराहकम् ॥११३॥आं ह्रौं स्वर्णारधो नाभेः सितप्रभम् ॥ इष्टाभीतिगदाशंखचक्रशक्त्यासिखेटकान् ॥११४॥दधतं च करैर्दंष्ट्राग्रलसद्धरणिं स्मरेत् ॥ एवं ध्यात्वां जपेल्लक्षं दशांशं सरसीरुहैः ॥११५॥मध्वक्तैर्जुहयात्पीठे पूर्वोक्ते वैष्णवे यजेत्॥ मूलेन मूर्तिं सङ्कल्प्य तस्यां सम्पूजयोद्विभुम् ॥११६॥अङावरणदिक्पालहेतियंत्रप्रसिद्धये ॥ जपादेवानिं दद्याद्धनं धान्यं महीं श्रियम् ॥११७॥सिंहार्के सितपक्षस्याष्टम्यां गव्येषु पञ्चसु ॥ शिलां शुद्धां विनिक्षिप्य स्पृष्टा तामयुतं जपेत् ॥११८॥उदङमुखस्तो मंत्री तां शिलां निखनेद्धुवि ॥ भूतप्रेताहिचौरादिकृतां बाधां निवारयेत् ॥११९॥प्रातर्भृगुदिने साध्यभूतलान्मृदमाहरेत् ॥ मंत्रितां मूलमंत्रेण विभेजत्तां त्रिधा पुनः ॥१२०॥चुल्ल्यामेकं समालिप्याप्यपरं पाकभाजने ॥ गोदुग्धे शोधितांस्तंदुलान् क्षिपेत् ॥१२१॥सम्यक् शुद्धे शुचिः केशे जपन्मंत्रं पचेच्चरुम् ॥ अवतार्य चरुं पश्वाद्वह्रौ देयं यथाविधि ॥१२२॥सम्पूज्य धूपदीपाद्यैः पश्वादाज्यप्लुतं चरुम् ॥ जुहुयात्संस्कृते वह्रौ अष्टोत्तरशतं सुधीः ॥१२३॥एवं प्रजुहुयान्मंत्री कविवारेषु सप्तसु ॥ विरोधो नश्यति क्षेत्रे शत्रुचौंराद्युपद्रवाः ॥१२४॥भानूदयेप्यारवारे साध्यक्षेत्रान्मृदं पुनः ॥ आदाय पूर्वविधिना हविरापाद्य पूर्ववत् ॥१२५॥जुहुयादेधिते वहौं पूर्वसंख्याकमादरात् ॥ एवं स सप्तारवारेषु जुहुयात्क्षेत्रसिद्धये ॥१२६॥जुहुयाल्लक्षसंख्याकं गव्यै श्चैव सपायसैः ॥ अभीष्टभूम्याधिपत्यं लभते नात्र संशयः ॥१२७॥उद्यद्दोः परिघं दिव्यं सितदंष्ट्राग्रभूधरम् ॥ स्वर्णाभं पार्थिवे पीते मंडले सुसमाहितः ॥१२८॥घ्यात्वाप्नोति महीं रम्यां वराहस्य प्रसादतः ॥ वारुणे मण्डले ध्यायेद्वाराहं हिमसन्निभम् ॥१२९॥महोप द्रवशांतिः स्यात्साधकस्य न संशयः ॥ वश्यार्थं च सदा ध्यायेद्वह्रयाभं वह्रिमण्ले ॥१३०॥ध्यायेदेवं रिपूच्चाटे कृष्णाभं वायुमण्डले ॥ ह्यमण्डलगतं स्वच्छं वाराहं सर्वसिद्धिदम् ॥१३१॥शत्रुभूतग्रहक्ष्वेडामयपीडादिशांतये ॥ भग्वर्धीशयुतं व्योमबिंदुभूषिमस्तकम् ॥१३२॥एकाक्षरो वराहस्य मन्त्रः कल्पद्रुमोऽपरः ॥ पूजाद्यर्घ्यादिकं सर्वमस्यां पूर्वोक्तवच्चरेत् ॥१३३॥सवामकर्णानिद्रास्याद्वराहाय ह्रदंतिमः ॥ ताराद्यो वसुवर्णोऽयं सर्वैश्वर्यप्रदायकः ॥१३४॥ब्रह्मा मुनिः स्याद्धायत्री छन्दो वाराहसंज्ञकः ॥ देवश्वंद्रेंद्वब्धिनेत्रैः सर्वेणांगक्रिया मता ॥१३५॥ध्यानपूजाप्रयोगादि प्राग्वस्यापि कल्पयेत् ॥ प्रणवादौ च ङेतं च भगवतीति पदं ततः ॥ धरणिद्वितयं पश्वाद्द्धरेर्द्वयमुदीरयेत् ॥१३६॥एकोनविंशत्यर्णाढ्यो मन्त्रो वह्रिप्रियांतिमः ॥ वराहोऽस्य मुनिश्छन्दो गायत्री निवृदादिका ॥१३७॥देवता धरनी बीजं तारःशक्तिर्वसुसुप्रिया ॥ रामवेदाग्निबाणाक्षिनेत्रार्णैरंगकल्पनम् ॥१३८॥श्यामां चित्रविभूषाढ्यां पद्मस्थां तुंगसुस्तनीम् ॥ नीलांबुजद्वयं शालिमंजरींच शुकं करैः ॥१३९॥दधतीं चित्रवसनां धरां भगवतीं स्मरेत् ॥ एवं ध्यात्वा जपेल्लंक्ष दशांशं पायसेन तु ॥१४०॥साज्येन जुहुयान्मन्त्री विष्णोः पीठे समर्चयेत् ॥मूर्ति संकल्प्य मूलेन तस्यां वसुमतीं यजेत् ॥१४१॥अङानिं पूर्वमाराध्य भ्रूवह्रिजलमारुतान् ॥ दिक्पात्रेषुच सम्पूज्य कोणपुत्रेषु ॥१४२॥निवृत्तिश्व प्रतिष्ठा च विद्यानां तैश्व तत्कलाः ॥ इंद्रद्यानपि वज्रादीन्पूजयेत्तदनंतरम् ॥१४३॥मनौ मंत्री साधये दिष्टमात्मनः ॥ धरणीं प्रभजन्नेवं पशुरत्नंबरादिभिः ॥१४४॥धरण्या वल्लभः स स्यात्सुखी जीवेच्छतं लाक्यमोहनो मंत्रो जगन्नाथस्य कीर्त्यंते ॥१४५॥तारः कामो रमा बीजं ह्रदंते पुरुषोत्तमः ॥ श्रीकंठः प्रतिरुपांते लक्ष्मीति च निवासि च ॥१४६॥सकलांते जगत्पश्वात्क्षोभणोति पदं वदेत् ॥ सर्वस्त्रीह्रदयांते तु विदारणपदं वदेत् ॥१४७॥ततस्त्रिभुवनांत तु मदोन्मादकरेति च ॥ सुरासुरांते मनुजसुंदरीजनवर्णतः ॥१४८॥मनांसि तापद्वंदं दीपयद्वितयं ततः ॥ शोषयद्वितयं पश्वान्मारयद्वितयं ततः ॥१४९॥स्तंभयद्वितयं भूयो मोअयद्वितय ततः ॥ द्रावय़द्वितयं तावदाकर्णययुगं ततः ॥१५०॥समस्तपरमो येन सुभगेन च संयुतम् ॥ सर्वसौभाग्यशब्दांते करसर्वपदं वदेत् ॥१५१॥कामप्र्दादमुन्ब्रह्मा सेंदुर्हनुयुगं ततः ॥ चक्रेण गदया पश्वात्खङेन तदनंतरम् ॥१५२॥सर्वबाणैर्भेयुगं पाशेनांते कटद्वयम् ॥ अंकुशेनेति संप्रोच्य ताडय द्वितयं पुनः ॥१५३॥कुरुशब्दद्वयमथो किं तिष्ठसि पदं वदेत् ॥ तावद्यावत्पदस्यांते समाहितमनतरम् ॥ ततो मेम सिद्धिराभास्य भवमन्ते च वर्म फटू ॥१५४॥ह्रदंतोऽयं महामंत्रो द्विशतार्णः समीरितः ॥ जैमिनिर्सुनिरस्योक्तश्र्छंदश्वामितमीरितम् ॥१५५॥देवता जगतां मोहे जगन्नाथः प्रकीर्तितः ॥ कामो बीजं रमा शक्तिर्विनियोगोऽखिलाप्तये ॥१५६॥पुरुषोत्तमत्रिभुवनोन्मादकांतेऽग्निवर्म च ॥ ह्रदयं कीर्तितं पश्वाज्ज्गत्क्षोभणशब्दतः ॥१५७॥लक्ष्मीदयितवर्मान्तः शिरः प्रोक्तं शिखा पुनः ॥ मन्मथो तमशब्दांते मंगजे पदमीरयेत ॥१५८॥कामदायेति हुं प्रोच्य न्यसेद्वम ततः परम् ॥ परमांते भृगुकर्णाभ्यां च सर्वपदं ततः ॥१५९॥सौभाग्यकरवर्मांते कवचं परिकीर्तितम् ॥ सुरासुरांते मनुजसुंदरीति पदं वदेत् ॥१६०॥ह्रदयांते विदा पश्वाद्रणसर्वपदं वदेत् ॥ ततः प्रहरणधरसर्वकामुकतत्पदम् ॥१६१॥हनयुग्मं च ह्रदयं बंध नानि ततो वदेत् ॥ आकर्षयद्वयं पश्वान्महाबलपदं ततः ॥१६२॥वर्म चास्त्रं समाख्यातं नेत्रं स्यात्तदनंतरम् ॥ वदेत्रिभुवनं पश्वाच्चर सर्वजनेति च ॥१६३॥मनांसि हरयुग्मांते दारद्वितयं च मे ॥ वशमानय वर्मांते नेत्रमंत्रः समीरितः ॥१६४॥षडंगमंत्रास्ताराद्याः फटूनमोंताः प्रकीर्तिताः ॥ तारस्त्रैलोक्यशब्दांते मोहनेति पदं वदेत् ॥१६५॥ह्रषीकेशेति संप्रोच्याप्रतिरुपादिशब्दतः ॥ मन्मथानंतंरं सर्वश्त्रीणां ह्रदयामीरयेत ॥१६६॥आकर्षणपदा गच्छदागच्छह्रदयांतिम् ॥अनेन व्यापकं कृत्वा जगन्नाथं स्मरेत् सुधीः ॥१६७॥क्षीराब्धेस्तु तटे रम्यं सुरद्रुमलतांचितम् ॥ उद्यदर्काभुजालाभं स्वधाम्रोज्वालदिङ्मुखम् ॥१६८॥प्रसूनावलिसौरभ्यमाद्यन्मधुकरारवम् ॥ दिव्यवातोच्चलत्कंजपरागोद्धूलितांबरम् ॥१६९॥स्वर्वधूगीतमाधुर्याभिराम् चिंतयेद्वनम् ॥ तदंतर्मणिसम्पतिस्फुरत्तोरणंमण्डपे ॥१७०॥विलसन्मौक्तिदोद्दामदामराजद्वितानके ॥ मणिवेद्यादि वियत्किरीटाग्रसमर्चिते ॥१७१॥दिव्यसिंहासने विप्र समासीनं स्मरेद्विभुम् ॥ शंखपाशेषु चापानि मुसलं नंदकं गदाम् ॥१७२॥अंकुशं दधतं दोर्भिः श्लिष्टे कमलयोरसि ॥ पश्यत्यंकस्थयांभोजश्रिया रागोल्लसद्दशा ॥१७३॥ध्यात्वैवं प्रजपेल्लक्षचतुष्कं तद्दशांशतः ॥ कुंडेऽर्द्धचंद्रे पद्मैर्वा जातिपुष्पपैश्व होमयेत् ॥१७४॥याहभूर्मिं तथात्मानं यागोपकरणं तथा ॥ पूजयिष्यन् जगन्नाथ्ण गायत्र्या प्रोक्षयेद्ध्दः ॥१७५॥त्रैलोक्यमोहनायांते विद्महे पदमीरयेत ॥ स्मराय धीमहीत्युक्ता तन्नो विष्णुः प्रचोदयात् ॥१७६॥गायत्र्येषा समाख्याताअ सर्वशुद्धिकरी परा ॥ कल्पयेदासंन पीठे पूर्वोक्ते वैष्णवे सुधीः ॥१७७॥पक्षिराजाय ठद्वंद्वं पीठमंत्रोऽयमीरितः ॥ मूर्तिं संकल्पमूलेन तस्यामावाहयेदतः ॥१७८॥व्यापक न्यासंमत्रेण ततः सम्पूज्य भक्तितः ॥ श्रीवत्सह्रदयं तेन श्रीवत्सं रतनयोर्यजेत् ॥१७९॥कौस्तुभाय ह्रदंतेन यजेद्वक्षसि कौस्तुभम् ॥ पूजयेद्वनमा लायै ह्रदंतेन गले च लाभ् ॥१८०॥कर्णिकायां ततोऽभ्यर्च्येद्विधिवच्चांगदेवताः ॥ दलेषु पूजयेत्पश्वल्लक्ष्म्याद्यावृत चामराः ॥१८१॥बन्धूककुसु माभासाःमुक्ताहारलसत्कुचाः ॥ उत्फुल्लांभोजनयनां मदविभ्रममंथराः ॥१८२॥लक्ष्मी सरस्वती चैव धृतिः प्रीतिस्ततः परम् ॥ कांतिः शांतिस्तु ष्टिपुष्टिबीजाद्या ङेनमोंतिकाः ॥१८३॥भृगुः खङ्राशचन्द्राढ्यो देव्या बीजमुदाह्रतम् ॥ ह्रस्वत्रयक्लीबसर्वरहितस्वरसंयुतम् ॥१८४॥देव्या बीजं क्रमादासामादौ च विनियोजयेत् ॥ दलाग्रेषु यजेच्छंखं शार्ङः चक्रमसिं गदाम् ॥१८५॥अंकुशं मुसलं पाशं स्वमुद्रामनुभिः पृथक् ॥ महाजलचरा यांते वर्मास्त्रं वह्रिवल्लभा ॥१८६॥पांचजन्या प्रताराद्यो नमोंतः शंखपूजने ॥ शार्ङाय सशयांते च वर्मास्त्रं वह्रिवल्लभा ॥१८७॥शार्ङाय त्दृदयं मन्त्रो महाद्यः शार्ङपूजने ॥ सदर्शनमहांते तु चक्रराजपदं वदेत् ॥१८८॥हययुग्मं सर्वदुष्टभयमन्ते कुरुद्वयम् ॥ छिंधिद्वयं ततः पश्वाद्विदारययुगं ततः ॥१८९॥परमन्त्रान् ग्रसद्वन्द्वं भक्षद्वितयं पुनः ॥ भूतानि त्रासयद्वंद्वं वर्मफड्वह्रिसुंदरी ॥१९०॥सुदर्शनाय त्दृदयं प्रोक्तश्वक्रार्चने मनुः ॥ महाखङुतीक्ष्णपदाच्छिवियुग्मं समीरयेत् ॥१९१॥हुं फटू स्वाहा च खङाय नमः खङार्चने मनुः ॥ महाकौमोदकीत्यन्ते वदेच्चैव महाबले ॥१९२॥सर्वासुरांतके पश्वात्प्रसीदयुगलेति च ॥ वर्मास्त्रवह्रिजाजांतकौमोदकि त्दृतिमः ॥१९३॥कौमोदक्यर्चने प्रोक्तो मन्त्रः सर्वार्थसाधकः ॥ महांकुशपदात्कुट्टयुग्मं हुंफट्वसुप्रिथा ॥१९४॥अंकुशाय नमः प्रोक्तो मन्त्रकुर्वने ॥ संवर्तकमहांते तु मुसलेति पदं वदेत् ॥१९५॥योधयद्वितयं वर्म फडंते वह्रिसुंदरी ॥ मुसलाय नमः प्रोक्तो मन्त्रो मुसलपूजने ॥१९६॥महापीरा यमाकर्षद्वयम् ॥ हुं फटू स्वाहा च पाशाय नमः पाशार्चने मनुः ॥१९७॥ताराद्या मनवो ह्येते ततः शक्रादिकान्यजेत् ॥१९८॥वज्राद्यानपि संपूज्य सर्वसिद्धीश्वरो भवेत् ॥ मासमात्रं तु कुसुमैः पूजयित्वा हयारिजैः ॥१९९॥कुसुदैर्वा प्रजुहुयादष्टोत्तरसहस्त्रकम् ॥ मासमात्रेण वश्यास्स्युस्तस्य सर्वे नृपोत्तमाः ॥२००॥यस्य नाम युतं मंत्रं जपेदयुतसंख्यया ॥ स भवेद्दासवत्सद्यो मंत्रस्यास्य प्रभावतः ॥२०१॥बहुना किमिहोक्तेन मनुनानेन साधकः ॥ साधयेत्सकलान्कामान्विष्णुतुल्यो न संशयः ॥२०२॥इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहपाख्याने तृतीयपादे सप्ततितमोऽध्यायः ॥७०॥ N/A References : N/A Last Updated : June 05, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP