TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
नवमोऽध्यायः

श्री नारदीयमहापुराणम् - नवमोऽध्यायः

नारदपुराणात शिक्षण, कल्प, व्याकरण, छन्द शास्त्राचे आणि परमेश्वराच्या उपासनेचे विस्तृत वर्णन  आहे.


नवमोऽध्यायः

नारद उवाच ॥

शप्तः कथं वसिष्ठेन सौदासो नृपसत्तमः ॥ गङ्गाबिन्द्वभिषेकेण पुनः शुद्धोऽभवत्कथम् ॥१॥

सर्वमेतदशेषेण भ्रातर्मे वक्तुमर्हसि ॥ श़ृण्वतां वदतां चैव गङ्गाख्यानं शुभावहम् ॥२॥

सनक उवाच ॥

सौदासः सर्वधर्मज्ञः सर्वज्ञो गुणवाञ्छुचिः ॥ बुभुजे पृथिवीं सर्वां पितृवद्रञ्जयन्प्रजाः ॥३॥

सगरेण यथा पूर्वं महीयं सप्तसागरा ॥ रक्षिता तद्वदमुना सर्वधर्माविरोधिना ॥४॥

पुत्रपौत्रसमायुक्तः सर्वेश्वर्ययसमन्वितः ॥ त्रिंशदष्टसहस्राणि बुभुजे पृथिवीं युवा ॥५॥

सौदासस्त्वेकदा राजा मृगयाभिरतिर्वनम् ॥ विवेश सबलः सम्यक् शोधितं ह्याप्तमन्त्रिभिः ॥६॥

निषादैः सहितस्तत्र विनिघ्नन्मृगसंचयम् ॥ आससाद नदीं रेवां धर्मज्ञः स पिपासितः ॥७॥

सुदासतनयस्तत्र स्नात्वा कृत्वाह्निकं मुने ॥ भुक्तत्वा च मन्त्रिभिः सार्द्धं तां निशां तत्र चावसता ॥८॥

ततः प्रातः समुथाय कृत्वा पौर्वाह्णिकीं क्रियाम् ॥ बभ्राम मन्त्रिसहितो नर्मदातीरजे वने ॥९॥

वनाद्वनान्तरं गच्छन्नेक एव महीपतिः॥ आकर्णकृष्टबाणः सत् कृष्णसारं समन्वगात् ॥१०॥

दूरसैन्योऽश्वमारूढः स राजानुव्रजन्मृगम् ॥ व्याघ्रद्वय गृहासंस्थमपश्यत्सुरते रतम् ॥११॥

मृगपृष्ठं परित्यज्य व्याघ्रयोः संमुखं ययौ ॥ धनुःसंहितबाणेन तेनासौ शरशास्त्रवित् ॥१२॥

तां व्याघ्रीं पातयामास तीक्ष्णाग्रनतपर्वणा ॥ पतमाना तु सा व्याघ्री षट्त्रिंशद्योजनायता ॥१३॥

तडित्वद्धोरनिर्घोषा राक्षसी विकृताभवत् ॥ पतितां स्वप्रियां वीक्ष्य द्विषन्स व्याघ्रराक्षसः ॥१४॥

प्रतिक्रियां करिष्यामीत्युक्तवा चांतर्दधे तदा ॥ राजा तु भयंसंविग्नो वने सैन्यं समेत्य च ॥१५॥

तद्वृत्तं कथयन्सर्वान्रवांपुरीं सन्यवर्त्तता ॥ शङ्कमानस्तुतद्रक्षःकृत्याद्राजा सुदासजः ॥१६॥

परित्याज मृगयां ततः प्रभृति नारद ॥ गते बहुतिथे काले हयमेधमखं नृपः ॥१७॥

समारेभे प्रसन्नात्मा वशिष्ठाद्यमुनीश्वरेः ॥ तत्र ब्रह्मादिदेवेभ्यो हविर्दत्त्वा यथाविधि ॥१८॥

समाप्य यज्ञनिष्क्रांतो वशिष्ठः स्नातकोऽपि च ॥ अत्रान्तरे राक्षसोऽसौ नृपहिसितभार्यकः॥

कर्तुं प्रतिक्रियां राज्ञे समायातोरुषान्वितः ॥१९॥

स राक्षसस्तस्य गुरौ प्रयाते वशिष्ठवेषं तु तदैव धृत्वा ॥ राजानमभ्येत्य जगाद भोक्ष्ये मांसं समिच्छाम्यहमित्युवाच ॥२०॥

भूयः समास्थाय स सूदवषं पक्तामिषं मानुपमस्य षादात् ॥ स्थितश्च राजापि हिर यपात्रे धृत्वा गुरोरागमन प्रतीक्षन् ॥२१॥

तन्मासं हेमपात्रस्थं सौदासो विनयान्वितः ॥ समागताय गुरवे ददौ तस्मै स सादरम् ॥२२॥

ते दृष्ट्वा चिन्तयामास गुरुः किमिति विस्मितः ॥२३॥

अपश्यन्मानुषं मांसं परमेण समाधिना ॥ अहोऽस्य राज्ञो दौःशील्यमभक्ष्यं दत्तवान्मम ॥२४॥

इति विरमयमापन्नः प्रमन्युरभवन्मुनिः ॥ अभोज्यं मद्विघाताय दत्त हि पृथिवीपते ॥२५॥

तस्मात्तवापि भवतु ह्येतदेव हि भोजनम् ॥ नृमांसं रक्षसामेव भोज्यं दत्तं मम त्वया ॥२६॥

तद्याहि रक्षसत्वं त्वं तदाहारोचितं नृप ॥ इति शापं ददत्यस्मिन्सौदासो भयविह्वलः॥२७॥

आज्ञप्तो भवतैवेति सकंपोऽस्म व्यजिज्ञपत् ॥ भूयश्च चिन्तयामास वशिष्ठस्तेन नोदितः ॥२८॥

रक्षता वंचितं भूपे ज्ञातवान् दिव्यचक्षुषा ॥ राजापि जलमादाय वशिष्ठ शप्तुमुद्यतः ॥२९॥

समुद्यतं गुरु शप्तं दृष्ट्वा भूयो रुषान्वितम् ॥ मदयंती प्रियातस्य प्रत्युवाचाथ सुव्रता ॥३०॥

मदयंत्युवाच ॥

भो भो क्षत्रियदायाद कोप संहर्तुमर्हसि ॥ त्वया यत्कर्म भोक्तव्यं तत्प्राप्तं नात्र संशयः ॥३१॥

गुरु तुंकृत्य हुंकृत्य यो वदेन्मृढधीर्नरः ॥ अरण्ये निर्जले देश स भवेद्बह्यराक्षसः ॥३२॥

जितेन्द्रिया जितक्रोधा गुरु शुश्रूषणे रताः ॥ प्रयान्ति ब्रह्मसदनमिति शास्त्रेषु निश्चयः ॥३३॥

तयोक्तो भूपतिः कोपं त्यत्तवा भार्यां ननन्द च ॥ जलं कुत्र क्षिपामीति चिन्तयामास चात्मना ॥३४॥

तज्जलं यत्र संसिक्त तद्भवेद्भस्म निश्चितम् ॥ इति मत्वा जलं तत्तु पादयोर्न्यक्षिपत्स्वयम् ॥३५॥

तज्जलस्पर्शमात्रेण पादौ कल्माषतां गतौ ॥ कल्माषपाद इत्येवं ततः प्रभृति विस्तृतः ॥३६॥

कल्माषपादो मतिमान् प्रिययाश्वासितस्तदा ॥ मनसा सोऽतिभीतस्तु ववन्दे चरण गुरोः॥३७॥

उवा च प्रपन्नस्तं प्राञ्जलिर्नयकोविदः ॥ क्षमस्व भगवन्सर्वं नापराधः कृतो मया ॥३८॥

तच्छुत्वोवाच भूपालं मुनिर्निःश्वस्य दुःखितः॥ आत्मानं गर्हयामास ह्यविवेकपरायणम् ॥३९॥

अविवेको हि सर्वेषामापदां परमं पदम् ॥ विवेकरहितो लोके पशुरेवन संशयः ॥४०॥

राज्ञा त्वजानता नूनमेतत्कर्मोचितं कृतम् ॥ विवेकरहितोऽज्ञोऽहं यतः पापं समाचरेत् ॥४१॥

विवेकनियतो याति यो वा को वापि निर्वृतिम् ॥ विवेकहीनमाप्नोति को वा यो वाप्यनिर्वृतिम् ॥४२॥

इत्युक्तवा चात्मनात्मानं प्रत्युवाच मुनिर्नृपम् ॥ नात्यन्तिकं भवेदेतद्वादशाब्दं भविष्यति ॥४३॥

गङ्गाबिन्द्वभि षिक्तस्तु त्यक्तत्वा वै राक्षसीं तनुम् ॥ पूर्वरूपं त्वमापन्नो भोक्ष्यसे मेदिनीमिमाम् ॥४४॥

तद्बिंदुसेकसंभूतज्ञानेन गतकल्मषः ॥ हरिसेवापरो भूत्वा परां शान्तिं गमिष्यसि ॥४५॥

इत्युक्त्वाथर्वविद्भूपं वशिष्ठः स्वाश्रमं ययौ ॥ राजापि दुःखसंपन्नो राक्षसीं तानुमाश्रितः ॥४६॥

क्षुप्तिपासाविशे षार्तो नित्यं क्रोधपरायणः ॥ कृष्णक्षपाद्युतिभींमो बभ्राम विजने वने ॥४७॥

मृगांश्च विविधांस्तत्र मानुषांश्च सरीसृपान् ॥ विहङ्गमान्प्लवङ्गांश्च प्रशस्तांस्तानभक्षयत् ॥४८॥

अस्थिभिर्बहुभिर्भूयः पीतरक्तकलेवरैः ॥ रक्तान्तप्रेतकेशैश्च चित्रासीद्भर्भयंकरी ॥४९॥

ऋतुत्रये स पृथिवीं शतयो जनविस्तृताम् ॥ कृत्वातिदुःखितां पश्चाद्वनान्तरमुपागमत् ॥५०॥

तत्रापि कृतवान्नित्यं नरमांशाशनं सदा ॥ जगाम नर्मदातीरं मुनिसिद्धनिषेवितम् ॥५१॥

विचरन्नर्मदातीरे सर्वलोकभयंकरः ॥ अपश्यत्कंचन मुनिं रमन्तं प्रियया सह ॥५२॥

क्षुधानलेन संतप्तस्तं मुनि समुपाद्रवत् ॥ जाग्राह चातिवेगेन व्याधो मृगशिशुं यथा ॥५३॥

ब्राह्मणी स्वपतिं वीक्ष्य निशाचरकरस्थितम् ॥ शिरस्यञ्जलिमाधाय प्रोवाच भयविह्वला ॥५४॥

ब्राह्मण्युवाच ॥

भो भो नृपतिशार्दूल त्राहि मां भयविह्वलाम् ॥ प्राणप्रिय प्रदानेन कुरु पूर्णं मनोरथम् ॥५५॥

नाम्ना मित्रसहस्त्वं हि सूर्यवंशस मुद्भवः ॥ न राक्षसस्ततोऽनाथां पाहि मां विजने वने ॥५६॥

या नारी भर्त्तुरहिता जीवत्यपि मृतोपमा ॥ तथापि बालवैध्व्यं किं वक्ष्याम्यरिमर्दन ॥५७॥

न मातापितरौ जाने नापि बंधुं च कंचन ॥ पतिरेव परो बंधुः परमं जीवनं मम ॥५८॥

भवान्वेत्तयखिलान्धर्मान्योषितां वर्त्तनं यथा ॥ त्रयास्व बन्धुरहितां बालापत्यां जनेश्वर ॥५९॥

कथं जीवामि पत्यास्मिन्हीना हि विजने वने ॥ दुहिताहं भगवतस्राहि मां पतिदानतः ॥६०॥

प्राणदानात्परं दानं न भूतं न भविष्यति ॥ वदन्तीति महाप्राज्ञाः प्राणदानं कुरुष्व मे ॥६१॥

इत्युक्तवा सा पपातास्य राक्षसस्य पदाग्रतः ॥ एवं संप्रार्थ्यमानोऽपि ब्राह्मण्या राक्षसो द्विजम् ॥

अभक्षयकृष्णसारशिशुं व्याघ्रो यथा बलात् ॥६२॥

ततो विलप्य बहुधा तस्य पत्नी पतिव्रता ॥ पूर्वशापहतं भूपमशपत्क्रोधिता पुनः ॥६३॥

पतिं मे सुरतासक्तं यस्माद्धिंसितवान्बलात् ॥ तस्मात्स्त्रीसङ्गम् प्राप्तस्त्वमपि प्राप्स्यसे मृतिम् ॥६४॥

शप्तैवं ब्राह्मणी क्रुद्धा पुनः शापान्तरं ददौ ॥ राक्षसत्वं ध्रुवं तेऽस्तु मत्पतिर्भक्षितो यतः ॥६५॥

सोऽपि शापद्वयं श्रुत्वा तया दत्तं निशाचरः॥ प्रमन्युःप्राह विसृजन्कोपादङ्गारसंचयम् ॥६६॥

दुष्टे कस्मात्प्रदतं मे वृथा शापद्वयं त्वया ॥ एकस्यैवापराधस्य शापस्त्वेको ममोचितः ॥६७॥

यस्मात्क्षिपसि दुष्टाग्रये मयि शापान्तरं ततः ॥ पिशाचयोनिमद्यैव याहि पुत्रसमन्विता ॥६८॥

तेनैवं ब्राह्मणी शप्ता पिशाचत्वं तदा गता ॥ क्षुधार्ता सुस्वरं भीमां रुरो दापत्य संयुता ॥६९॥

राक्षसश्च पिशाची च क्रोशन्तौ निर्जने वने ॥ जग्मतुर्नर्मदातीरे वनं राक्षससेवितम् ॥७०॥

औदासीन्यं गुरौ कृत्वा राक्षसीं तनुमाश्रितः ॥ तत्रास्ते दुःखसंतप्तः कश्चिल्लोकविरोधकृत ॥७१॥

राक्षसं च पिशाचीं च दृष्ट्वा स्ववटमागतौ ॥ उवाच क्रोधबहुलो वटस्थो ब्रह्मराक्षसः ॥७२॥

किमर्थमागतौ भीमौ युवां मत्स्थानमीप्सितम् ॥ ईदृशौ केन पापेन जातौ मे ब्रुवतां ध्रुवम् ॥७३॥

सौदासस्तद्वचः श्रुत्वातया यच्चात्मना कृतम् ॥ सर्वं निवेदयित्वास्मै पश्चादेतदुवाच ह ॥७४॥

सौदास उवाच ॥

कस्त्वं वद महाभाग त्वया वै किं कृतं पुरा ॥ सख्युर्ममाति स्रेहेन तत्सर्वं वक्तुमर्हसि ॥७५॥

करोति वञ्चनं मित्रे यो वा को वापि दुष्टधीः ॥ स हि पापफलं भुक्ते यातनास्तु युगायुतम् ॥७६॥

जन्तूनां सर्वदुःखानि क्षीयन्ते मित्रदर्शनात् ॥ तस्मान्मित्रेषु मतिमान्न कुर्याद्वंचनं कदा ॥७७॥

कल्माषपादेनेत्युक्तो वटस्थो ब्रह्मराक्षसः ॥ उवाच प्रीतिमापन्नो धर्मवाक्यानि नारद ॥७८॥

ब्रह्मराक्षस उवाच ॥

अहमासं पुरा विप्रो मागधो वेदपारगः ॥ सोमदत्त इति ख्यातो नाम्ना धर्मपरायणः॥७९॥

प्रामत्तोऽहं महाभाग विद्यया वयसा धनैः ॥ औदासीन्यं गुरोः कृत्वा प्राप्तवानीदृशीं गतिम् ॥८०॥

न लभेऽहं सुखं किंचिज्जिताहारोऽतिदुःखितः ॥ मया तु भक्षिता विप्राः शतशोऽथ सहस्रशः ॥८१॥

क्षुत्पिपासापरो नित्यमन्तस्तापेन पीडितः ॥ जगत्रासकरो नित्यं मांसाशनपरायणः ॥८२॥

गुर्ववज्ञा मनुष्याणां राक्षसत्वप्रदायिनी ॥ मयानुभूतमेतद्धि ततः श्रीमन्न चाचरेत् ॥८३॥

कल्माषपाद उवाच ॥

गुरुस्तु कीदृशः प्रोक्तः कस्त्वया श्र्लाघितः पुरा ॥ तद्वदस्व सखे सर्वं परं कौतूहलं हि मे ॥८४॥

ब्रह्मराक्षस उवाच ॥

गुरवः सन्ति बहवः पूज्या वन्द्याश्च सादरम् ॥ या तानहं कथयिष्यामि श़ृणुष्वैकमनाः सखे ॥८५॥

अध्यापकश्च वेदानां वेदार्थयुतिबोधकः ॥ शास्रवक्ता धर्मवक्ता नीतिशास्त्रोपदे शकः ॥८६॥

मन्त्रोपदेशव्याख्याकृद्वेदसदंहृत्तथा ॥ व्रतोपदशेकश्चैव भयत्रातान्नदो हि च ॥८७॥

श्वशुरो मातुलश्चैव ज्येष्ठभ्राता पिता तथा ॥ उपनेता निषेक्ता च संस्कर्त्ता मित्रसत्तम ॥८८॥

एते हि गुरवः प्रोक्ताः पूज्या वन्द्याश्च सादरम् ॥८९॥

॥ कल्माषपाद उवाच ॥

गुरवो बहवः प्रोक्ता एतेषां कतमो वरः ॥ तुल्याः सर्वेऽप्युत सखे तद्यथावद्धि ब्रूहि मे ॥९०॥

ब्रह्मराक्षस उवाच ॥

साधु साधु महाप्राज्ञ यत्पृष्टं तद्वदामि ते ॥ गुरुमाहात्म्यकथनं श्रवणं चानुमोदनम् ॥९१॥

सर्वेषां श्रेय आधत्ते तस्माद्वक्ष्यामि सांप्रतम् ॥ एते समानपूजार्हाः सर्वदा नात्र संशयः ॥९२॥

तथापि श़ृणु वक्ष्यामि शास्त्राणां सारनिश्चयम् ॥ अध्यापकाश्च वेदानां मन्त्रव्याख्याकृतस्तथा ॥९३॥

पिता च धर्मवक्ता च विशेषगुरवः स्मृताः एतेषामपि भूपाल श़ृणुष्व प्रवरं गुरुम् ॥९४॥

सर्वशास्त्रार्थतत्वज्ञैर्भाषितं प्रवदामि ते ॥ यः पुराणानि वदति धर्मयुक्तानि पण्डितः ॥९५॥

संसारपाशविच्छेदकरणानि स उत्तमः ॥ देवपूजार्हकर्माणि देवतापूजने फलम् ॥९६॥

जायते च पुराणेभ्यस्तमात्तानीह देवताः ॥ सर्ववेदार्थसाराणि पुराणानीति भूपते ॥९७॥

वदन्ति मुनयश्चैव तद्वक्ता परमो गुरुः॥ यः संसागर्णवं तर्त्तु मुद्योग कुरुते नरः ॥९८॥

श़ृणुयात्स पुराणानि इति शास्त्रविभागकृत् ॥ प्रोक्तवान्सर्वधर्मांश्च पुराणेषु महीपते ॥९९॥

तर्कस्तु वादहेतुः स्यान्नी तिस्त्वैहिकसाधनम् ॥ पुराणानि महाबुद्धे इहामुत्र सुखाय हि ॥१००॥

यः श़ृणोति पुराणानि सततं भक्तिसंयुतः ॥ तस्य स्यान्निर्मला बुद्धिभूयो धर्मपरायणः ॥१॥

पुराणश्रवणाद्भक्तिजा्रयते श्रीपतौ शुभा ॥ विष्णुभक्तनृणां भ्ज्ञूप धर्मे बुद्धिः प्रवर्त्तते ॥२॥

धर्मात्पापानि नश्यन्ति ज्ञानं शुद्धं च जायते ॥ धर्मार्थकाममोक्षाणां ये फलान्यभिलिप्सवः ॥३॥

श़ृणुयुस्ते पुराणानि प्राहुरित्थं पुराविदः ॥ अहं तु गैतममुनेः सर्वज्ञाद्वह्यवादिनः ॥४॥

श्रुतवान्सर्वधर्मार्थं गङ्गातीरे मनोरमे ॥ कदाचित्परमेशस्य पूजां कर्त्तुंमहं गतः ॥५॥

उपस्थितायापि तस्मै प्रणामं न ह्यकारिषम् ॥ स तु शान्तो महाबुद्धिर्गौतमस्तेजसां निधिः ॥६॥

मन्त्रोदितानि कर्माणि करोतीतिमुदं ययौ ॥ यस्त्वर्चितो मया देवः शिवः सर्वजगद्रुरुः ॥७॥

गुर्ववज्ञा कृतायेन राक्षसत्वे नियुक्तवान् ॥ ज्ञानतोऽज्ञानतो वापि योऽवज्ञां कुरुते गुरोः ॥८॥

तस्यैवाशु प्रणश्यन्ति धीविद्यार्थात्मजक्रियाः ॥ शुश्रूषां कुरुते यस्तु गुरूणां सादरं नरः ॥९॥

तस्य संपद्भवेद्भूप इति प्राहुर्विपश्चितः ॥ तेन शापेन दग्धोऽहमन्तश्चैव क्षुधाग्निना ॥१०॥

मोक्षं कदा प्रयास्यामि न जाने नृपसत्तम ॥ एवं वदति विप्रेन्द्र वटस्थेऽस्मिन्निशाचरे ॥११॥

धर्मशास्त्रप्रसंगेन तयोः पापं क्षय गतम् ॥ एतस्मिन्नन्तरे प्राप्तः कश्चिद्विप्रोऽतिधार्मिकः ॥१२॥

कलिङ्गदेशसंभूतो नाम्ना गर्ग इति स्मृतः ॥ वहन्गङ्गाजलं स्कंधे स्तुवन् विश्वेश्वरं प्रभुम् ॥१३॥

गायन्नामानि तस्यैव मुदा हृष्टतनू रुहः ॥ तमागतं मुनिं दृष्ट्वा पिशाचीराक्षसौ च तौ ॥१४॥

प्राप्ता नः पारणेत्युक्त्वा प्राद्रवन्नृर्ध्वबाहवः ॥ तेन कीर्तितनामानि श्रुत्वा दूरे व्यवस्थिताः ॥ अशक्तास्तं धर्षयितुमिदमूचुश्च राक्षसाः ॥१५॥

अहो विप्र महाभाग नमस्तुभ्य महात्मने ॥ नामकीर्तनमाहात्म्याद्राक्षसा दूरगावयम् ॥१६॥

अस्माभिर्भक्षिताः पूर्वं विप्राः कोटिसहस्रशः ॥ नामप्रावरणं विप्र रक्षति त्वां महाभयात् ॥१७॥

नामश्रवणमात्रेण राक्षसा अपि भो वयम् ॥ परां शान्तिं समापन्ना महिम्ना ह्यच्युतस्य वै ॥१८॥

सर्वथा त्वं महाभाग रागादिरहितो ह्यसि ॥ गंगाजलाभिषेकेण पाह्यस्मात्पातकोच्चयात् ॥१९॥

हरिसे वापरो भूत्वा यश्चात्मानं तु तारयेत् ॥ स तारयेज्जगत्सर्वमिति शसन्ति सूरयः ॥२०॥

अपहाय हरेर्नाम घोरसंसारभेषजम् ॥ केनोपायेन लभ्येत मुक्तिः सर्वत्र दुर्लभा ॥२१॥

लोहोडुपेन प्रतरन्निमज्जत्युदके यथा ॥ तथैवाकृतपुण्यास्तु तारयन्ति कथं परान् ॥२२॥

अहो चरित्रं महतां सर्वलोकसुखा वहम् ॥ यथा हि सर्वलोकानामनन्दाय कलानिधिः ॥२३॥

पृथिव्यां यानि तीर्थानि पवित्राणि द्विजोत्तम ॥ तानि सर्वाणि गङ्गायाः कण स्यापि समानि न ॥२४॥

तुलसीदलसंमिश्रमपि सर्षपमात्रकम् ॥ गङ्गाजलं पुनात्येव कुलानामेकविंशतिम् ॥२५॥

तस्माद्विप्र महाभाग सर्वशा स्रार्थकोविद ॥ गङ्गाजलप्रदानेन पाह्यस्मान्पापकर्मिणः ॥२६॥

इत्याख्यातं राक्षसैस्तैर्गङ्गामहात्म्यमुत्तमम् ॥ निशम्य विस्मया विष्टो बभूव द्विजसतमः ॥२७॥

एपामपीदृशी भक्तिर्गङ्गायां लोकमातरि ॥ किमु ज्ञानप्रभावाणां महतां पुण्यशालिनाम् ॥२८॥

अथसौ मनसा धर्मं विनिश्चित्य द्विजोत्तमः॥ सर्वभूतहितो भक्तः प्रप्नोनीति परं पदम् ॥२९॥

ततो विप्रः कृपाविष्टो गङ्गाजलप्नुत्तमम् ॥ तुलसीदलसंमिश्रं तेषु रक्षःस्वसेचयत् ॥३०॥

राक्षसास्तेन सिक्तास्तु सर्षपोपमबिंदुना ॥ विसृज्य राक्षसं भावमभवन्देवतोपमाः ॥३१॥

ब्राह्मणी पुत्रसंयुक्ता सोमदत्त स्तथैव च ॥ कोटिसूर्यप्रतीकाशा बभूवर्विबुधर्पभाः ॥३२॥

शंखचक्रगदाचिह्ना हरिसारूप्यमागताः ॥ स्तुवंतो ब्राह्मण सम्यक्ते जग्मुर्हरिमन्दिरम् ॥३३॥

राजा कल्माषपादस्तु निजरूपं समास्यितः ॥ जगाम महतीं चिन्तां दृष्ट्वा तान्मुक्तिगानघान् ॥३४॥

तस्मिन राज्ञि सुदुःखा र्ते गूढरूपा सरस्वती ॥ धर्ममूलं महावाक्यं बभाषेऽगाधया गिरा ॥३५॥

भो भो राजन्महाभाग न दुःखं गन्तुमर्हसि ॥ राजस्तवापि भोगान्ते महच्छ्रेयो भविष्यति ॥३६॥

सत्कर्मधूतपापा ये हरिभक्तिपरायणाः ॥३८॥

इतीरितं समाकर्ण्य भारत्या नृपसतमः ॥ मनसा निर्वृंतिं प्राप्य सस्मार च गुरोर्व वः ॥३९॥

स्तुवन्गुरुं च तं विप्रं हरिं चैवातिहर्षितः ॥ पूर्ववृतं च विप्राय सर्वं तस्मै न्यवेदयत् ॥४०॥

ततो नृपस्तु कालिंग प्रणम्य विधिवंमुने ॥ नामानि व्याहरन्विष्णोः सद्यो वाराणसीं ययौ ॥४१॥

षण्मासं तत्र गङ्गायां स्नात्वा दृष्ट्वा सदाशिवम् ॥ ब्राह्मणीदत्तशपात्तु मुक्तो मित्रसहोऽभवत् ॥४२॥

ततस्तु स्वपुरीं प्राप्तो वसिष्ठेन महात्मना ॥ अभिषिक्तो मुनिश्रेष्ठ स्वकं राज्यभपालयत् ॥४३॥

पालयित्वा महीं कृत्स्नां भुक्त्वा भोगान्स्रियं विना ॥ वसिष्ठात्प्राप्य सन्तानं गतो मोक्षं नृपोत्तमः ॥४४॥

नैतच्चित्रं द्विजश्रेष्ठं विष्णोर्वाराणसीगुणान् ॥ गृणञ्छृण्वन्स्मरन्गङ्गां पीत्वा मुक्तो भवेन्नरः ॥४५॥

तस्मान्महिन्मो विप्रेन्द्र गङ्गायाः शक्यते नहि ॥ पारं गन्तुं सुराधी शैर्ब्रह्मविष्णुशिवरपि ॥४६॥

यन्नामस्मरणादेव महापातककोटिभिः ॥ विमुक्तो ब्रह्मसदनं नरो याति न संशयः ॥४७॥

गङ्गा गङ्गेति यन्नाम सकृदप्युच्यते यदा ॥ तदैव पापनिमुक्तो ब्रह्मलोके महीयते ॥४८॥

इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गा महात्म्ये नवमोऽध्यायः ॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-05T05:23:55.5870000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

Did you know?

उपासना किती प्रकारची असते?
Category : Hindu - Puja Vidhi
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site