TransLiteral Foundation
Don't follow traditions blindly or don't assume a superstition either.
Don't be intentionally ignorant. Ask us!! Make Informed Religious Decisions!!
संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः|
त्रयोविंशोऽध्यायः

श्री नारदीयमहापुराणम् - त्रयोविंशोऽध्यायः

नारदपुराणात शिक्षण, कल्प, व्याकरण, छन्द शास्त्राचे आणि परमेश्वराच्या उपासनेचे विस्तृत वर्णन  आहे.


त्रयोविंशोऽध्यायः

सनक उवाच ॥

इदमन्यत्प्रवक्ष्यामि व्रतं त्रैलोक्यविश्रुतम् ॥ सर्वपापप्रशमनं सर्वकामफलप्रदम् ॥१॥

ब्राह्मणक्षत्रियविशां शूद्राणां चैव योपिताम् ॥ मोक्षदं कुर्वतां भक्तयां विष्णोः प्रियतरं द्विज ॥२॥

एकादशीव्रत नाम सर्वाभीष्टप्रदं नृणाम् ॥ कर्त्तव्यं सर्वथा विप्र विष्णुप्रीतिकरं यतः ॥३॥

एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि ॥ यो भुंक्ते सोऽत्र पापीयान्परत्र नरकं व्रजेत् ॥४॥

उपवासफलं लिप्सुर्जह्याद्भुक्तिचतुष्टयम् ॥ पूर्वापरदिने रात्रावहोरात्रं तु मध्यमे ॥५॥

एकादशीदिने यस्तु भोक्तुमिच्छति मानवः ॥ स भोक्तुं सर्वपापानि स्पृहयालुर्न संशयः ॥६॥

भवेद्दशम्यामेकाशी द्वादश्यां च मुनीश्वर ।ं एकादश्यां निराहारो यदि मुक्तिमभीप्सति ॥७॥

यानि कानि च पापानि ब्रह्महत्यादिकानि च ॥ अन्नमाश्रित्य तिष्ठन्ति तानि विप्र हरेर्दिने ॥८॥

ब्रह्महत्यादिपापानां कथंत्रन्निष्कृतिर्भवेत् ॥ एकादश्यां तु यो भुङ्क्ते तस्य नैवास्ति निष्कृतिः ॥९॥

महापातकयुक्तो वा युक्तो वा सर्व पातकैः ॥ एकादश्यां निराहारः स्थित्वा याति परां गतिम् ॥१०॥

एकादशी महापुण्या विष्णोः प्रियतमा तिथिः ॥ संसेव्या सर्वंथा विप्रैः संसारच्छे दलिप्सुभिः ॥११॥

दशम्यां प्रातरुत्थाय दन्तधावनपूर्वकम् ॥ स्नानयोद्विधिवद्विष्णुं पूजयेत्प्रयतेन्द्रियः ॥१२॥

एकादश्यां निराहारो निगृहीतेन्द्रियो भवेत् ॥ शयीत सन्निधौ विष्णोर्नारायणपरायणः ॥१३॥

एकादश्यां तथा स्नात्वा संपूज्य च जनार्दनम् ॥ गन्धपुष्पादिभिः सम्यक् ततस्त्वे वमुदीरयेत् ॥१४॥

एकादश्यां निराहारः स्थित्वाद्याहं परेऽहनि ॥ भोक्ष्यामि पुण्डरीकाक्ष शरणं मे भवाच्युत ॥१५॥

इमं मन्त्रं समुच्चार्यं देव देवस्य चक्रिणः ॥ भक्तिभावेन तुष्टात्मा उपवासं समर्पयेत् ॥१६॥

देवस्य पुरतः कुर्याज्जागरं नियतो व्रती ॥ गीतैर्वाद्यैश्च नृत्यैश्च पुराणश्रवणादिभिः ॥१७॥

ततः प्रातः समुत्थाय द्वादशीदिवसे व्रती ॥ स्नात्वा च विधिवद्विष्णुं पूजयत्प्रयतेन्द्रियः ॥१८॥

पञ्चामृतेन संस्नाप्य एकादश्यां जनार्द्दनम् ॥ द्वादश्यां पयसा विप्र हरिसारूपप्यमश्नुते ॥१९॥

अज्ञानतिमिरान्धस्य व्रतेनानेन केशव ॥ प्रसीद सुमुखो भूत्वा ज्ञानदृष्टिप्रदो भव ॥२०॥

एवं विज्ञाप्य विप्रेन्द्र माधवं सुसमाहितः ॥ ब्रह्मणान्भोजयेच्छक्तया दद्याद्वै दक्षिणां तथा ॥२१॥

ततः स्वबन्धुभिः सार्द्धं नारायणपरायणः ॥ कृतपञ्चमहायज्ञः स्वयं भुञ्जीत वाग्यतः ॥२२॥

एवं यः प्रयत५ कुर्यात्पुण्यमेकादशीव्रतम् ॥ स याति विष्णुभवनं पुनरावृत्तिदुर्लभम् ॥२३॥

उपवासव्रतपरो धर्मकार्यपरायणः ॥ चाण्डालान्पतितांश्चैव नेक्षेदपि कदाचन ॥२४॥

नास्तिकान्भिन्नमर्यादान्निन्दकान्पिशुनांस्तथा ॥ उपवास व्रतपरो नालोपेच्च कदाचन ॥२५॥

वृषलीसूतिपोष्टारं वृषलीपतिमेव च ॥ अयाज्ययाजकं चैव नालपेत्सर्वदा व्रती ॥२६॥

कुण्डाशिनं गायकं च तथा देवलकाशिनम् ॥ भिषजं काव्यकर्त्तारं देवजिविरोधिनम् ॥२७॥

परान्नलोलुपं चव परस्त्रीनिरतं तथा ॥ व्रतोपवासनिरतो वाङ्मात्रेणापि नार्चयेत् ॥२८॥

इत्येवमादिभिः शुद्धो वशी सर्वहिते रतः ॥ उपवासपरो भूत्वा परां सिद्धिभवाप्नुयात् ॥२९॥

नास्ति गङ्गासमं तीर्थं नास्ति मातृसमोगुरुः॥ नास्ति विष्णुसमं दैवं तपो नानशनात्परम् ॥३०॥

नास्ति क्षमासमा माता नास्ति कीर्तिसमं धनम् ॥ नास्ति ज्ञानसमो लाभो न च धर्म समः पिता ॥३१॥

न विवेकसमो बन्धुर्नैकादश्याः परं व्रतम् ॥ अत्राप्युदाहरंतीममितिहासं पुरातनम् ॥३२॥

संवादं भद्रशीलस्य तत्पितुर्गालवस्य च ॥ पुरा हि गालवो नाम मुनिः सत्यपरायणः॥३३॥

उवा स नर्मदातीरे शान्तो दान्तस्पोनिधिः॥ बहुवृक्षसमाकीर्णे गजभल्लुनिषेविते ॥३४॥

सिद्धचारणगन्धर्व यक्षविद्याधरान्विते ॥ कन्दमूलफलैः पूर्णे मुनिवृन्दनिषेविते ॥३५॥

गालवो नाम विप्रेन्द्रो निवासमकरोच्चिरम् ॥ तस्याभवद्भद्रशील इति ख्यातः सुतो वशी ॥३६॥

जांतिस्मरो महाभागो नारायणपरायणः ॥ बालक्रीडनकालेऽपि भद्रशीलो महामतिः ॥३७॥

मृदा च विष्णाः प्रतिमां कृत्वा पूजयतेक्षणम् ॥ वयस्यान्बोधयेच्चापि विष्णुः पूज्यो नरैः सदा ॥३८॥

एकादशीव्रतं चैव कर्त्तव्यमपि पण्डितैः ॥ एवं ते बोधितास्तेन शिशवोऽपि मुनीश्वर ॥३९॥

हरिं मृदैव निर्माय पृथक्संभूय वा मुदा ॥ अर्चयन्ति महाभागा विष्णुभक्तिपरायणाः ॥४०॥

नमस्कुर्वन्भद्रमति र्विष्णवे सर्वविष्णवे ॥ सर्वेषां जगतां स्वस्ति भूयादित्यब्रवीदिदम् ॥४१॥

क्रीडाकाले मुहूर्तं वा मुहूर्तार्द्धमथापि वा ॥ एकादशीति संकल्प्य व्रतं यच्छति केशवे ॥४२॥

एवं सुचरितं दृष्ट्वा तनयं गालवो मुनिः ॥ अपृच्छद्विस्मयाविष्टः समालिंग्य तपोनिधिः ॥४३॥

गालव उवाच ॥ भद्रशील महाभाग भद्रशीलोऽसि सुव्रत ॥ चरितं मंगलं यत्ते योगिनामपि दुर्लभम् ॥४४॥

हरिपूजापरो नित्यं सर्वभूतहितेरतः॥ एकादशीव्रतपरो निषिद्धाचारवर्जितः ॥ निर्द्वन्द्वो निर्ममः शान्तो हरिध्यानपरायणः ॥४५॥

एवमेतादृशी बुद्धिः कथं जातार्भकस्य ते ॥ विनापि महतां सेवां हरिभक्तिर्हि दुर्लभा ॥४६॥

स्वभावतो जनस्यास्य ह्यविद्याकामकर्मसु ॥ प्रवर्त्तते मतिर्वत्स कथं तेऽलौकिकी कृतिः॥४७॥

सत्सङ्गेऽपि मनुष्याणां पूर्वपूण्यातिरेकतः ॥ जायते भगवद्भक्तिस्तदहं विस्मयं गतः ॥४८॥

पृच्छामि प्रीतिमापन्नस्तद्भवान्वक्तुमर्हति ॥ भद्रशीलो मुनिश्रेष्ठः पित्रैवं सुविकल्पितैः॥४९॥

जातिस्मरः सुकृतात्मा त्दृष्टप्रहसिताननः ॥ स्वानुभूतं यथावृत्तं सर्वं पित्रे न्यवेदयत् ॥५०॥

भद्रशील उवाच ॥ श़ृणु तात मुनिश्रेष्ठ ह्यनुभूतं मया पुरा ॥ जातिस्मरत्वाज्जानामि यमेन परिभाषितम् ॥५१॥

एतच्छत्वा महाभागो गालवो विस्प्रयान्वितः ॥ उवाच प्रीतिमापन्नो भद्रशीलं महामतिम् ॥५२॥

गालव उवाच ॥ कस्त्वं पूर्वं महाभाग किमुक्तं च यमेन ते ॥ कस्य वाकेन वा हेतोस्तत्सर्वं वक्तुमर्हसि ॥५३॥

भद्रशील उवाच ॥ अहमासं पुरा तात राजा सोमकुलोद्भवः ॥ धर्मकीर्तिरिति ख्यातो दत्तात्रेयेण शासितः॥५४॥

नव वर्षसहस्राणि महीं कृत्स्नामपालयम् ॥ अधर्माश्च तथा धर्मा मया तु बहवः कृताः ॥५५॥

ततः श्रिया प्रमत्तोऽहं बह्नधर्ममकारिषम् ॥ पापण्डजनसंसर्गात्पापण्डचरितोऽभवम् ॥५६॥

पुरार्जितानि पुण्यानि मया तु सुबहून्यापि ॥ पापण्डैर्बाधितोऽहं तु वेदमार्गं समत्यजम् ॥५७॥

मखाश्च सर्वे विध्वस्ता कूटयुक्तिविदा मया ॥ अधर्मनिरतं मां तु दृष्ट्वा मद्देशजाःप्रजाः ॥५८॥

सदैव दुष्कृतं चक्रुः पष्ठांशस्तत्रमेऽभवत् ॥ एवं पापसमाचारो व्यसनाभिरतः सदा ॥५९॥

मृगयाभिरतो भूत्वा ह्येकदा प्राविशं वनम् ॥ ससैन्योऽहं वने तत्र हत्वा बहुविधान्मृगान् ॥६०॥

क्षुत्तृट्पग्वितः श्रांतो रेवातीरमुपागमम् ॥ रवितीक्ष्णातपक्लांता रेवायां स्नानमाचरम् ॥६१॥

अदृष्टसैन्य एकाकी पीड्यमानः क्षुधा भृशम् ॥६२॥

समोतास्तत्र ये केचिद्रेवातीरनिवासिनः ॥ एकादशीव्रतपरा मया दृष्टा निशामुखे ॥६३॥

निराहारश्च तत्राहमे काकी तज्जनैः सह ॥ जागरं कृतवांश्वापि सेनया रहितो निशि ॥६४॥

अघ्वश्रमपरिश्रांतः क्षुत्पिपासाप्रपीडितः ॥ तत्रैव जागरान्तेऽहं तात पंचत्वमागतः ॥६५॥

ततो यमभटैर्बद्धो महादंष्ट्राभयंकरः ॥ अनेकक्लेशसंपन्नमार्गेणाप्तो यमांतिकम् ॥ दंष्ट्राकरालवदनमपश्यं समवर्तिनम् ॥६६॥

अथ कालश्चित्रगुप्तमाहूयेदमभाषत ॥ अस्य शिक्षाविधान च यथावद्वद पंडित ॥६७॥

एवमुक्ताश्चित्रगुप्तो धर्मराजेन सत्तम ॥ चिरं विचारयामास पुनश्चेदमभाषत ॥६८॥

असौ पापरतः सत्यं तथापि श़ृणु धर्मप ॥ एकादश्यां निराहारः सर्वपापैः प्रमुच्यते ॥६९॥

एष रेवातटे रम्ये निराहारो हदेर्दिने ॥ जागरं चोपवासं च कृत्वा निष्पापतां गतः ॥७०॥

यानि कानि च पापानि कृतानि सुबहूनि च ॥ तानि सर्वाणि नष्टानि ह्यपवासप्रभावतः ॥७१॥

एवमुक्तो धर्मराजश्चित्रगुप्तेन धीमता ॥ ननाम दंडवद्भूमौ ममाग्रे सोऽनुकंपितः ॥७२॥

पूजयामास मां तत्र भक्तिभावेन धर्मराट् ॥ ततश्च स्वभटान्सर्वानाहूयेदमुवाच ह ॥७३॥

धर्मराज उवाच ॥ श़ृणुध्वं मद्वचो दूता हितं वक्ष्याम्यनुत्तमम् ॥ धर्ममार्गरतान्प्रर्त्यान्मानयध्वं ममान्तिकम् ॥७४॥

ये विष्णुपूजनरताः प्रयताः कृतज्ञाश्चैकादशीव्रतपरा विजितेन्द्रियाश्च ॥ नारायणाच्युतहरे शरणं भवेति शान्ता वदन्ति सततं तरसा त्यजध्वम् ॥७५॥

नारायणाच्युत जनार्दन कृष्ण विष्णो पद्मेश पद्मजपितः शिव शंकरेति ॥ नित्यं वदंत्यखिललोकहिताः प्रशान्ता दूराद्भटास्त्यजत तान्न ममैषु शिक्षा ॥७६॥

नारायणार्पितकृतान्हरिभक्तिभाजः स्वाचारमार्गनिरतान् गुरुसेवकांश्च ॥ सत्पात्रदान निरतांश्च सुदीनपालान्दूतास्त्यजध्वमनिशं हरिनामसक्तान् ॥७७॥

पाषंड सङ्गरहितान्द्विजभक्तिनिष्ठान्ससत्संगलोलुपतरांश्च तथातिथेयान् ॥ शंभौ हरौ च समबुद्धिमतस्तथैव दूतास्त्यजध्वमुपकारपराञ्जनानाम् ॥७८॥

ये वर्जिता हरिकथामृतसेवनैश्च ये वर्जिता हरिकथामृतसेवनैश्च नारायणस्मृतिपरायणमानसैश्च ॥ विप्रेंद्रपादजलसेचनतोऽप्रत्दृष्टांस्तान्पापिनो

मम भटा गृहमानयध्वम् ॥७९॥

ये मातृतातपरिभर्त्सनशीलिनश्च लोकद्विषो हितजनाहितकर्मणश्च ॥ देवस्वलोभनिरताञ्जननाशकर्तृनत्रानयध्वमपराधपरांश्च दूताः ॥८०॥

एकादशीव्रतपराङ्मुखमुग्रशीलं लोकपवादनिरतं परनिंदकं च ॥ ग्रामस्य नाशकमुत्तमवैरयुक्तं दूताः समानयत विप्रधनेषु लुब्धम् ॥८१॥

ये विष्णुभक्तिविमुखाः प्रणमंति नैव नारायणं हि शरणागतपालकं च ॥ विष्ण्वालयं च नहि यांति नराः सुमूर्खास्तानानयध्वमतिपापरतान्प्रसह्य ॥८२॥

एवं श्रुतं यदा तत्र यमेन परिभाषितम् ॥ मयानुतापदग्धेन स्मृतं तत्कर्म निंदितम् ॥८३॥

असत्कर्मानुतापेन सद्धर्मश्रवणेन च ॥ तत्रैव सर्वपापानि निःशेषाणि गतानि मे ॥८४॥

पापशेषाद्विनिर्मुक्तं हरि सारूप्यतां गतम् ॥ सहस्रसूर्यसंकाशं प्रणनाम यमश्च तम् ॥८५॥

एवं दृष्ट्वा विस्मितास्ते समदूता भयोत्कटाः ॥ विश्वासं परमं चक्रुर्यमेन परिभाषिते ॥८६॥

ततः संपूज्य मां लाकाले विमानशतसंकुलम् ॥ सद्यः संप्रेषयामास तद्विष्णोः परमं पदम् ॥८७॥

विमानकोटिभिः सार्द्धं सर्वभोगसमन्वितैः ॥ कर्मणा तेन विप्रर्षे विष्णुलोके मयोषितम् ॥८८॥

कल्पकोटिसह स्राणि कल्पकोटिशतानि च ॥ स्थित्वा विष्णुपदं पश्चादिंद्रलोकमुपागमम् ॥८९॥

तत्रापि सर्वभोगाढ्यः सव्रदेवनमस्कृतः ॥ तावत्कालं दिवि स्थित्वा ततो भूमिमुपागतः ॥९०॥

अत्रापि विष्णुभक्तानां जातोऽहं भवतां कुले ॥ जातिस्मरत्वाज्जानामि सर्वमेतन्मुनीश्वर ॥९१॥

तस्माद्विष्ण्वर्चनोद्योगं करोमि सह बालकैः ॥ एकादशीव्रतमिदमिति न ज्ञातवान्पुरा ॥९२॥

जातिस्मृतिप्रभावेण तज्ज्ञातं सांप्रतं मया ॥ अत्र स्वेनापि यत्कर्म कृतं तस्य फलं त्विदम् ॥९३॥

एकादशीव्रतं भक्त्तया कुर्वतां किमुत प्रभो ॥ तस्माच्चरिष्ये विप्रेंद्र शुभमेकादशीव्रतम् ॥९४॥

विष्णुपूजां चाहरहः परमस्थानकांक्षया ॥ एकादशीव्रतं यत्तहु कुर्वंति श्रद्धया नराः ॥९५॥

तेषां तु विष्णुभवनं परमानंददायकम् । एव पुत्रवचः श्रुत्वा संतुष्टो गालवो मुनिः ॥९६॥

अवाप परमां तुष्टिं मनसा चातिहर्षितः ॥ मज्जन्म सफलं जातं मद्वंशः पावनीकृतः ॥९७॥

यतस्त्वं मद्गृहे जातो विष्णुभक्तिपरायणः ॥ इति संतुष्टचित्तस्तु तस्य पुत्रस्य कर्मणा ॥९८॥

हरिपूजाविधानं च यथावत्समबोधयत् ॥ इत्येतत्ते मुनिश्रेष्ठ यथावत्कथितं मया ॥ संकोचविस्ताराभ्यां संकोचविस्तराभ्यां च किमन्यच्छ्रोतुमिच्छसि ॥९९॥

इति श्रीबृहन्नारदीये पुराणे पूर्वभागे प्रथमपादे व्रताख्याने एकादशीव्रतमहिमाननुवर्णनं नाम त्रयोविंशोऽध्यायः ॥२३॥

Translation - भाषांतर
N/A

References : N/A
Last Updated : 2011-06-05T05:38:54.1000000

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.

husbandry

  • न. शेतीकाम 
  • न. कृषिकर्म 
  • न. संवर्धन 
  • कृषि,खेती 
More meanings
RANDOM WORD

Did you know?

विविध पूजा अथवा होम प्रसंगी स्त्रीने पुरूषाच्या कोणत्या अंगास बसावे आणि हाताला हात कां लावावा?
Category : Hindu - Beliefs
RANDOM QUESTION
Don't follow traditions blindly or ignore them. Don't assume a superstition either. Don't be intentionally ignorant. Ask us!!
Hindu customs are all about Symbolism. Let us tell you the thought behind those traditions.
Make Informed Religious decisions.

Featured site