संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री नारदीयमहापुराणम् : पूर्वभागः| त्रयोदशाधिकशततमोऽध्यायः श्री नारदीयमहापुराणम् : पूर्वभागः प्रथमोऽध्यायः द्वितीयोध्यायः तृतीयोऽध्यायः चतुर्थोऽध्यायः पञ्चमोऽध्यायः षष्ठोऽध्यायः सप्तमोऽध्यायः अष्टमोऽध्यायः नवमोऽध्यायः दशमोऽध्यायः एकादशोऽध्यायः द्वादशोऽध्यायः त्रयोदशोऽध्यायः चतुर्दशोऽध्यायः पञ्चदशोऽध्यायः षोडशोऽध्यायः सप्तदशोऽध्यायः अष्टादशोऽध्यायः एकोनविंशोऽध्यायः विंशोऽध्यायः एकविंशोऽध्यायः द्वाविंशोऽध्यायः त्रयोविंशोऽध्यायः चतुर्विंशोऽध्यायः पंचविंशोऽध्यायः षड्विंशोऽध्यायः सप्तविंशोध्यायः अष्टाविंशोऽध्यायः एकोनत्रिंशोऽध्यायः त्रिंशोऽध्यायः एकत्रिंशोऽध्यायः द्वात्रिंशोऽध्यायः त्रयस्त्रिंशोऽध्यायः चतुस्त्रिंशोऽध्यायः पंचत्रिशोंऽध्यायः षट्त्रिंशोऽध्यायः सप्तत्रिंशोऽध्यायः अष्टत्रिंशोऽध्यायः एकोनचत्वारिंशोऽध्यायः चत्वारिंशोऽध्यायः एकचत्वारिंशोऽध्यायः द्विचत्वारिंशोऽध्यायः त्रिचत्वारिंशोऽध्यायः चतुश्चत्वारिंशत्तमोऽध्यायः पश्वचत्वारिशत्तमोऽध्यायः षट्रचत्वारिंशत्तमोऽध्यायः सप्तचत्वारिंशत्तमोऽध्यायः अष्टचत्वारिंशोऽध्यायः एकोनपञ्चाशत्तमोध्यायः पञ्चाशत्तमोऽध्यायः एकपंचाशत्तमोऽध्यायः द्विपञ्चाशत्तमोऽध्यायः त्रिपञ्चाशत्तमोऽध्यायः चतुःपञ्चाशत्तमोऽध्यायः पञ्चपञ्चाशत्तमोऽध्यायः षट्पञ्चाशत्तमोऽध्यायः सप्तपञ्चाशत्तमोऽध्यायः अष्टपञ्चाशत्तमोऽध्यायः एकोनषष्टितमोऽध्यायः षष्टितमोऽध्यायः एकषष्टितमोऽध्यायः द्विषाष्टितमोऽध्यायः त्रिषष्टितमोऽध्यायः चतुष्षष्टितमोऽध्यायः पञ्चषष्टिमोऽध्यायः षट्षष्टितमोऽध्यायः सप्तषष्टितमोऽध्यायः अष्टष्टितमोऽध्यायः एकोनसप्ततितमोऽध्यायः सप्ततितमोऽध्यायः एकसप्ततितमोऽध्यायः द्विसप्ततितमोऽध्यायः त्रिसप्ततितमोऽध्यायः चतुःसप्ततितमोऽध्यायः पञ्चसप्ततितमोऽध्यायः षटसप्ततितमोऽध्यायः सप्तसप्ततितमोऽध्यायः अष्टसप्ततितमोऽध्याय एकोनाशीतितमोऽध्यायः नामाशीतितमोऽध्यायः नामैकाशीतितमोऽध्यायः व्द्यशीतितमोऽध्यायः त्र्यशीतितमोऽधायः चतुरशीतितमोऽध्यायः पञ्चाशीतितमोऽध्यायः षडशीतितमोऽध्यायः सप्ताशीतितमोऽध्यायः नामाष्टाशीतितमोऽध्यायः नामैकोननवतितमोऽध्यायः नवतितमोऽध्यायः नामैकनवतितमोऽध्यायः द्विनवतितमोऽध्यायः त्रिनवतितमोऽध्यायः चतुर्नवतितमोऽध्यायः पञ्चनवतितमोऽध्यायः षण्णवतितमोऽध्यायः सप्तनवतितमोऽध्यायः नामाष्टनतितमोऽध्यायः नामैकोनशततमोऽध्यायः शततमोऽध्यायः नामैकोत्तरशततमोऽध्यायः द्वयुत्तरशततमोऽध्यायः त्र्युत्तरशततमोऽध्यायः चतुरधिकशततमोऽध्यायः पञ्चाधिकशततमोऽध्यायः षडुत्तशततमोऽध्यायः सप्तोत्तशततमोऽध्यायः नामाष्टोत्तरशततमोऽध्यायः नवोतरशततमोऽध्यायः दशोत्तरशततमोऽध्यायः नामैकादशाधिकशततमोऽध्यायः द्वादशाधिकशततमोऽध्यायः त्रयोदशाधिकशततमोऽध्यायः चतुर्दशाघिकशततमोऽध्यायः पञ्चदशाधिकशततमोऽध्यायः षोडशाधिकशततमोऽध्यायः सप्तदशाधिकशततमोऽध्यायः अष्टादशाधिकशततमोऽध्यायः एकोनविंशत्यधिकशततमोऽध्यायः विंशत्यधिकशततमोऽध्यायः एकविंशत्यधिकशततमोऽध्यायः द्वाविंशदधिकशततमोऽध्यायः त्रयोविंशत्यधिकशततमोऽध्यायः चतुर्विंशत्यधिकशतमोऽध्यायः पंचविंशोत्तरशततमोऽध्यायः श्री नारदीयमहापुराणम् - त्रयोदशाधिकशततमोऽध्यायः `नारदपुराण’ में शिक्षा, कल्प, व्याकरण, ज्योतिष, और छन्द-शास्त्रोंका विशद वर्णन तथा भगवानकी उपासनाका विस्तृत वर्णन है। Tags : naradnaradapuranpuranनारदनारदपुराणपुराण त्रयोदशाधिकशततमोऽध्यायः Translation - भाषांतर सनातन उवाच ॥श्रृणु विप्र प्रवक्ष्यामि चतुर्थ्यास्ते व्रतान्य हम् ॥ यानि कृत्वा नरा नार्योऽभीष्टान्कामानवाप्नुयुः ॥१॥चैत्रमासचतुर्थ्यां तु वासुदेवस्वरुपिणम् ॥ गणंप सम्यगभ्यर्च्य कांचनदक्षिणाम् ॥२॥विप्राय विष्णुलोकं तु गच्छेद्देवनमस्कृतः ॥ वैशाखस्य चतुर्थ्यां तु पार्थ्यं संकर्षणाह्रयम् ॥३॥गृहस्थद्विजमुख्येभ्यः शंखं दत्त्वा विधानवित् ॥ प्राप्य संकर्षणं लोकं मोदते बहुकल्पकम् ॥४॥ज्येष्ठमासचतुर्थ्या तु प्रार्च्य प्रद्युम्नरुपिणम् ॥ फलं मूलं च यूथेभ्यो दत्त्वा स्वर्ग लभेन्नरः ॥५॥आषाढस्य चतुर्थ्या तु संप्रपूज्यानिरुद्धकम् ॥ यतिभ्योऽलाबुपात्राणि दत्त्वाभीष्टं लभेन्नरः ॥६॥चतुर्मूर्तिव्रतान्येवं कृत्वा द्वादशवत्सरम् ॥ उद्यापनं विधानेन कर्तव्यं फलमिच्छता ॥७॥अन्यज्ज्येष्ठचतुर्थ्यां तु सतीव्रतमनुत्तमम् ॥ कृत्वा गणपतेर्मातुर्लोके मोदेत तत्समम् ॥८॥तथाऽऽषाढचतुर्थ्यां तु व्रतमन्यच्छुभागवहम् ॥ रथंराह्रकल्पस्य ह्रादिभूतं दिनं यतः ॥९॥श्रद्धापूतेन मनसा गणेशं विधिना नरः ॥ पूजयित्वा लभेच्चपि फलं देवादिदुर्गमम् ॥१०॥श्रावणस्य चतुर्थ्यां तु जाते चंद्रोदये मुने ॥११॥गणेशाय प्रदद्याच्च ह्यार्घ्यं विधिविदांवरः ॥ लम्बोदरं चतुर्बाहुं त्रिनेत्रं रक्तवर्णकम् ॥१२॥नानारत्नविभूषाढ्यं प्रसन्नास्यं विचिंतयेत् ॥ आवाहनादिभिः सर्वैरुपचारैः समर्चयेत् ॥१३॥नैवेद्यं मोदकं दद्याद्धणेशप्रीतिदायकम् ॥ एवं व्रतं विद्यायाथ भुक्ता मोदकमेव च ॥१४॥सुखं स्वप्यान्निशायां तु भूमावेव कृतार्चनः ॥ व्रतस्यास्य प्रभावेण कामान्मनसि चिंतितान् ॥१५॥लब्ध्वा लोके परं चापि गणेशप्दमाप्नुयात् ॥ नानेन सदृशं चान्यद्वतमस्ति जगत्रये ॥१६॥तस्मात्कार्यं प्रयत्नेन सर्वान्कामभीप्सता ॥ अथास्मिन्नेव दिवसे दूर्वागणपति व्रतम् ॥१७॥केचिदिच्छंति देवर्षे तद्विधानं वदामि ते ॥ हैमं निर्माय गणपं ताम्रपात्रोपरि स्थितम् ॥१८॥वेष्टितं रत्कवस्त्रेण सर्वतोभद्र्मंडले ॥ पूजयेद्रक्तकुसुमैः पत्रिकाभिश्व पंचभिः ॥१९॥बिल्वपत्रमपामार्गं शमी दूर्वा हरिप्रिया ॥ आभिरन्यश्व कुसुमैरभ्यर्च्य फलमोदकैः ॥२०॥उपहारं प्रकल्प्याथ दद्यादर्द्यं समुद्यते ॥ ततः संप्रार्थ्य विघ्नेशमूर्ति सोपस्करां मुने ॥२१॥आचार्याय विधिज्ञाय सत्कृत्य विनिवेदयेत् ॥ कृत्वैवं पंच वर्षाणि समुपास्य यथाविधिः ॥२२॥भुक्तत्वेह भोगानखिलान् लोकं गणपतेर्व्रजेत् ॥ अथ भाद्रचतुर्थ्यां तु बहुलाधेनुसंज्ञकम् ॥२३॥पूजनी योऽत्रं यत्नेन स्त्रग्गंधयवसादिभिः ॥ ततः प्रदक्षिणीकृत्य शक्तश्वेद्दानमाचरेत् ॥२४॥अशक्तः पुनरेतां तु नमस्कृत्य विसर्जयेत् ॥ पंचाब्द्म वा दशाब्दं वा षोडशाब्दमथापि वा ॥२५॥व्रतं कृत्वा समुद्याप्य धेनुं दद्यात्पयस्विनीम् ॥ प्रभावेण व्रतस्यास्य भुक्ता भोगान्मनोरमान् ॥२६॥सत्कृतो देवता वंदैगौलोकं समवाप्नुयात् ॥ अथ शुल्क चतुर्थ्या तु सिद्धवैनायकव्रतम् ॥२७॥आवाहनादिभिः सर्वैरुपचारैः समर्चनम् ॥ एकाग्रमानसो भूत्वा ध्यायेत्सिद्धिविनायकम् ॥२८॥एकदंतं शूर्पकर्णं गजवक्रं चतुर्भुजम् ॥ पाशांकुशधरं देवं तप्तकांचनसन्निभम् ॥२९ ॥एकविंशति पत्राणि चैकविंशतिनामभिः ॥ समर्पयेद्धक्तियुक्तस्तानि नामानि वै श्रृणु ॥३०॥ सुमुखाय शमीपत्रं गणाधीशाय भृंगजम् ॥ उमापुत्राय बल्व तु दूर्वा गजमुखाय च ॥३१॥लंबोदराय बदरीं हरसूनवे ॥ शूर्पकर्णाय तुलसीं वक्रतुंडाय शिंबिजम् ॥३२॥गुहाग्रजायापा मार्गमेकदंताय बार्हतम् ॥ हेरम्बाय तु सिंदूरं चतुर्होत्रे च पत्रजम् ॥३३॥सर्वेश्वरायागस्यस्य पत्रं प्रीतिविवर्द्धनम् ॥ दूर्वायुग्मं ततो गुह्य गंधपुष्पाक्षतैर्युतम् ॥३४॥पूजां निवेदयेद्धक्तियुक्तो मोदकपंचकम् ॥ आचमय्य नमस्कृत्य संप्रार्थ्य च विसर्ज्जयेत् ॥३५॥विनायकस्य प्रतिमां हैमीं सोपस्करां मुने ॥ निवेदयेच्च गुरवे द्विजेभ्यो दक्षिणां ददेत् ॥३६॥एवं कृतार्चनो भक्तया पंच वर्षाणि नारद ॥ उपास्य लभते कामनैहिकामुष्मिकान् शुभान् ॥३७॥अस्यां चतुर्थ्यां शशिनं न पश्येच्च कदाचन ॥ पश्यन् मिथ्याभिशाप तु लभते नात्र संशयः ॥अथ तद्दोषनाशाय मन्त्रं पौराणिकं पठेत् ॥३८॥सिंहः प्रसेनममधीत्सिंहो जांबवता हतः ॥ सुकुमारक मा रोदीस्त्व ह्येष स्यमं तकः ॥३९॥इशशुल्कचतुर्थ्यां तु कपर्द्दीशं विनायकम् ॥४०॥पौरुषैण तु सूक्तेन पूजयेदुपचारकैः ॥ अकारणान्मुष्टितांस्तंडुलान्सकपर्द्दिकान् ॥४१॥विप्राय बटवे दद्याद्धंधपुष्पर्चिताय च ॥ तंडुला वैश्वदैवत्यां हरदैवत्यमिश्रिताः ॥४२॥कपर्दिगणनाथोऽसौ प्रीयतां तैः समर्पितैः ॥ चतुर्थ्यां कार्तिके कृष्णे करकाख्यं व्रतं स्मृतम् ॥४३॥स्त्रीणामेवाधिकारोऽत्र तद्विधानमुदीर्यते ॥ पूजयेच्च गणाधीशं स्नाता स्त्री समलंकृता ॥४४॥तदग्रे पूर्णपक्कांत्र विन्यसेत्कर्कान्दश ॥ समर्प्य देवदेवाय भक्तया प्रयतमानसा ॥४५॥देवो मे प्रीयतामेवमुच्चार्य्याथ समर्पयेत् ॥ सुवासिनीभ्यो विप्रेभ्यो यथाकामं च सादरम् ॥४६॥ततश्वंद्रोदये रात्रौ दत्त्वार्घं विधिपूर्वकम् ॥ भुञ्जीत मिष्टमन्नं च व्रतस्य परिपूर्तये ॥४७॥यद्वा क्षीरेण करकं पूर्णं तोयेन वा मुने ॥ सपूगाक्षतरत्नाढ्यं द्विजाय प्रतिपादयेत् ॥४८॥एतत्कृत्वा व्रतं नारी षोडशद्वादशाब्दकम् ॥ उपायनं विधायाथ व्रतमेतद्विसर्ज्जयेत् ॥४९॥यावज्जीवं तु वा नार्या कार्य्यं सौभाग्यवांछया ॥ व्रतेनानेन सदृशं स्त्रीणां सौभाग्यदायकम् ॥५०॥विद्यते भुवनेष्वन्यत्तस्मान्नित्यमिति स्थितिः ॥ ऊर्ज्जशुक्लचतुर्थ्यां तु नागव्रतमुदाहृतम् ॥५१॥प्रातर्व्रतं तु संकल्प्य धेनुशृंगजलं शुचि ॥ पीत्वा स्नात्वाथ मध्याह्रे शंखपालादिपन्नगान् ॥५२॥शेषं चाह्रानपूर्वैस्तु पूजयेदुपचारकैः ॥ क्षीरेणाप्यायनं कुर्यादेतन्नागव्रतं स्मृतम् ॥५३॥एवंकृते तु विप्रेंद्रे नृभिर्नागव्रते शुभे ॥ विषाणि नश्यंत्यचिरान्न दशंति च पन्नगाः ॥५४॥मार्गशुक्लचतुर्थ्यां तु वर्षं यावन्मुनीश्वर ॥ क्षपयेदेकभक्तेन नक्तेनाथ द्वितीयकम् ॥५५॥अयाचितोपवासाभ्यां तृतीयकचतुर्थके ॥ एवं क्रमेण विधिवच्चत्वार्यब्दानि मानवः ॥५६॥समाप्य च ततोऽस्यांते व्रतस्नातो महाव्रती ॥ कारयेद्धेमघटितं भूगणेर्मूषकं रथम् ॥५७॥अशक्तो वर्णकैरेव शुभ्रं सुपत्रकम् ॥ तस्योपरिं घटं स्थाप्य ताम्रपात्रेण संयुतम् ॥५८॥पूरयेत्तेडुलैः शुभ्रैस्तस्योपरि गणेश्वरम् ॥ न्यसेद्वस्त्रयुगाच्छन्नं गंधाद्यैः पूजयेच्च तम् ॥५९॥नैवेद्यं मोदकं कल्प्यं गणेशः प्रीयतामिति ॥ जागरैर्गीतवाद्याद्यैः पुराणाख्यानकैश्वरेत् ॥६०॥प्रभाते विमले होमं कृत्वा विधानतः ॥ तिलवीहियवश्वेतसर्षपार्ज्यैः सखंडकैः ॥६१॥गणो गाणाधिपश्वैव कूष्माडास्त्रिपुरांतकः ॥ लंबोदरैकदंतौ च रुक्मदंष्ट्रश्व विघ्नपः ॥६२॥ब्रह्मा यमोऽथ वरुणः सोमसूर्यहुताशनाः ॥ गन्धमादी परमेष्ठीत्येवं षोडशनामभिः ॥६३॥प्रणवार्यैर्ङैनमोंऽतैः प्रत्येकं दहने हुनेत् ॥ वक्रतुंडेति ङेंतेन वर्मातेनाष्टयुक्छतम् ॥६४॥ततो व्यात्दृतिभिः शक्तया हुत्वा पूर्णाहुतिं चरेत् ॥ दिक्पालान्पूजयित्वा च ब्राह्मणान्भोजयेत्ततः ॥६५॥चतुर्विशतिसंख्याकान् मोदकैः पायसैस्तथा ॥ सवत्सा गां ततो दद्यादाचार्याय सदक्षिणाम् ॥६६॥अन्येभ्योऽपि यथाशक्ति भूयसीं च ततो ददेत् ॥ प्रणम्य दक्षिणीकृत्य प्रविसृज्य द्विजोत्तमाम् ॥६७॥बन्धुभिः सह भुंजीत स्वयं च प्रीतमानसः ॥ एतद्वतं नरः कृत्वा भुक्ता भोगानिहोत्तमान् ॥६८॥सायुज्यं लभते विष्णोर्गणेशस्य प्रसादतः ॥ केचि द्वरव्रतं नाम प्राहुरेतस्य नारद ॥६९॥विधानमेतदेवापि फलं चापीह तत्समम् ॥ पौषमासचतुर्थ्यां तु विघ्नेशं प्रार्थ्य भक्तितः ॥७०॥विप्रैकं भोजयेच्चैवं मोदकैर्दक्षिनां ददेत् ॥ एवंण कृते मुने भूयाद्वती संपत्तिभाजनम् ॥७१॥माघकृष्णचतुर्थ्यां तु संकष्टव्रत्मुच्यते ॥ तत्रोपवासं संकल्प्य व्रती नियमपूर्व कम् ॥७२॥चंद्रोदयमभिव्याप्य तिष्ठेत्प्रयतमानसः ॥ ततश्वंद्रोदये प्राप्ते मृन्मयं गणनायकम् ॥७३॥विधाय विन्यसेत्पीठे सायुधं च सवाहनम् ॥ उपचारैः षोडशभिः समभ्यर्च्य विधानतः ॥७४॥मोदकं चापि नैवेद्यं सगुडं तिलकुट्टकम् ॥ ततोऽर्घ्यं ताम्रजे पात्रे रक्तचंदनमिश्रितम् ॥७५॥सकुशं च सदूर्वं च पुष्पाक्षतसमन्वितम् ॥ सशमीपत्रदधि च कृत्वा चंद्राय दापयेत् ॥७६॥गगनार्ण्वमाणिक्य चंद्र दाक्षायणीपते ॥ गृहाणार्घ्यं मया दत्तं गणेशप्रतिरुपक् ॥७७॥एवं दत्त्वा गणेशाय दिव्यार्घ्यं पापनाशनम् ॥ शक्तया संभोज्य विप्राग्न्यान्स्वयं भुंजीत् चाज्ञया ॥७८॥एवं कृत्वा व्रतं विप्र संकष्टाख्यं शुभवहम् ॥ समृद्धो धनधान्यैः स्यान्न च संकष्टमाप्नुयात् ॥७९॥माघशुल्कचतुर्थ्यां तु गौरीव्रतमनुत्तमम् ॥तस्यां तु गौरी संपूज्या संयुक्ता योगिनीनणैः ॥८०॥नरैः स्त्रीभिर्विशेषेण कुंद्पुष्पैः॥ रक्त्सूत्रै रक्तपुष्पैस्तथैवालत्ककेन च ॥८१॥पश्व बलिभिः सगुडेनार्द्रकेण च ॥ पयसा पायसेनापि लवणेन च पालकैः ॥८२॥पूज्याश्वविधवा नार्यस्तथा विप्राः सुशोमनाः ॥ सौभाग्य वृद्धये देयो भोक्तव्यं बंधुभिः सह ॥८३॥इदं गौरीग्रतं विप्र सौभाग्यरोग्यवर्द्धनम् ॥ प्रतिवर्ष प्रकर्त्तव्यं नारीभिश्व नरैस्तथा ॥८४॥ढुंढिव्रतं परैः प्रोक्तं कैश्वित्कुंडव्रतं स्मृतम् ॥ ललिताव्रतमित्यन्यैः शांतिव्रतमथापरैः ॥८५॥स्नानं दानं जपो होमः सर्वमस्यां कृतं मुने ॥ भवेत्सह स्त्रगुणितं प्रसादाद्दंतिनः सदा ॥८६॥चतुर्थ्यां फाल्गुने मासि ढुंडिराजव्रतं शुभम् ॥ तिलपिष्टैर्द्विजान् भोज्य स्वयं चाश्रीत मानवः ॥८७॥गणेशाराधनपरो दानहोमप्रपूजनेः ॥ तिलैरेवकृतैः सिद्धिं प्राप्नुयात्तत्प्रसादतः ॥८८॥सौवर्णं गजवक्रं च कृत्वा संपूज्य यत्नतः ॥ द्विजाग्र्यायप्रदातव्यं सर्वसंपत्समृद्धये ॥८९॥यस्मिन्कस्मिन्भवेन्मासि चतुर्थी रविवारयुक् ॥ सांगारका वा विप्रेंद्र सा विशेषफलप्रदा ॥९०॥सर्वासु चतुर्थीषु शुल्कास्वप्यंसितासु च ॥ विघ्नेश एव देवेशः संपूज्यो भक्तितत्परैः ॥९१॥इति श्रीबृहन्नारदीयपु० पूर्वभागे बृहदुपाख्याने चतुथपादे द्वादशमास चतुर्थीव्रतनिरुपणं नाम त्रयोदशाधिकशततमोऽध्यायः ॥११३॥ N/A References : N/A Last Updated : June 06, 2011 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP