संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १८२

ब्रह्मपुराणम् - अध्यायः १८२

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


श्रीकृष्णोत्पत्तिकथानिरूपणम्
व्यास उवाच
यथोक्तं सा जगद्धात्री देवदेवेन वै पुरा ।
षड्गर्भगर्भविन्यासं चक्रे चान्यस्य कर्षणम् ॥१॥

सप्तमे रोहिणीं प्राप्ते गर्भे गर्भे ततो हरिः ।
लोकत्रयोपकाराय देवक्याः प्रविवेश वै ॥२॥

योगनिद्रा यशोदायास्तस्मिन्नेव ततो दिने ।
संभूता जठरे तद्वद्यथोक्तं परमेष्ठिना ॥३॥

ततो ग्रहगणः सम्यक्प्रचचार दिवि द्विजाः ।
विष्णोरंशे महीं यात ऋतवोऽप्यभवञ्शुभाः ॥४॥

नोत्सेहे देवीकं द्रष्टुं कश्चिदप्यतितेजसा
जात्वल्यमानां तां दृष्ट्वा मनांसि क्षोभमाययुः ॥५॥

अदृष्टां पुरुषैः स्त्रीभिर्देवकीं देवतागणाः ।
बिभ्राणां वपुषा विष्णुं तुष्टुवुस्तामहर्निशम् ॥६॥

देवा ऊचुः
त्वं स्वाहा त्वं स्वधा विद्या सुधा त्वं ज्योतिरेव च ।
त्वं सर्वलोकरक्षार्थमवतीर्णा महीतले ॥७॥

प्रसीद देवि सर्वस्य जगतस्त्वं शुभं कुरु ।
प्रीत्यर्थं धारयेशानं धृतं येनाखिलं जगत् ॥८॥

व्यास उवाच
एवं संस्तूयमाना सा देवैर्देवमधारयत् ।
गर्भेण पुण्डलीकाक्षं जगतां त्राणकारणम् ॥९॥

ततोऽखिलजगत्पद्‌मबोधायाच्युतभानुना ।
देवक्याः पूर्वसंध्यायामाविर्भूतं महात्मना ॥१०॥

मध्यरात्रेऽखिलाधारे जायमाने जनार्दने ।
मन्दं जगर्जुर्जलदाः पुष्पवृष्टिमुचः सुराः ॥११॥

फुल्लेन्दीपरपत्राभं चतुर्बाहुमुदीक्ष्य तम् ।
श्रीवत्सवक्षसं जातं तुष्टावाऽऽनकदुन्दुभिः ॥१२॥

अभिष्टुय च तं वाग्भिः प्रसन्नाभिर्महामतिः ।
विज्ञायापमास तदा कंसाद्भीतो द्विजोत्तमाः ॥१३॥

वसुदेव उवाच
ज्ञातोऽसि देवदेवेश शङ्खचक्रगदाधर ।
दिव्यं रूपमिदं देव प्रसादेनोपसंहर ॥१४॥

अद्यैव देव कंसोऽयं कुरुते मम यातनाम् ।
अवतीर्णमिति ज्ञात्वा त्वामस्मिन्मन्दिरे मम ॥१५॥

देवक्युवाच
योऽनन्तरूपोऽखिलविश्वरूपो, गर्भेऽपि लोकान्वपुषा बिभर्ति ।
प्रसीदतामेष स देवदेवः, स्वमाययाऽऽविष्कृतबालरूपः ॥१६ ॥
उपसंहर सर्वात्मन् रूपमेतच्चतुर्भुजम् ।
जानातु माऽवतारं ते कंसोऽयं दितजान्तक ॥१७॥

श्रीभगवानुवाच
स्तुतोऽहं यत्त्वया पूर्वं पुत्रार्थिन्या तदद्य ते ।
सफलं देवि संजातं जातोऽहं यत्तवोदरात् ॥१८॥

व्यास उवाच
इत्युक्त्वा भगवांस्तूष्णीं बभूव मुनिसत्तमाः ।
वसुदेवोऽपि तं रात्रावादाय प्रययौ बहिः ॥१९॥

मोहिताश्चाभवंस्तत्र रक्षिणो योगनिद्रया ।
मथुराद्वारपालाश्च व्रजत्यानकदुन्दुभौ ॥२०॥

वर्षतां जलदानां च तत्तोयमुल्बणं निशि ।
संछाद्य तं ययौ शेषः फणैरानकदुन्दुभिम् ॥२१॥

यमुनां चातिगम्भीरां नानावर्तशताकुलाम् ।
वसुदेवो वहन्विष्णुं जानुमात्रवाहं ययौ ॥२२॥

कंसस्य करमादाय तत्रैवाभ्वागतांस्तटे ।
नन्दादीन्गोपवृद्धांश्च यमुनायां ददर्श ॥२३॥

तस्मिन्काले यशोदाऽपि मोहिता योगनिद्रया ।
तामेव कन्यां मुनयः प्रासूत मोहिते जने ॥२४॥

वसुदेवोऽपि विन्यस्य बालगादाय दारिकाम् ।
यसोदाशयने तूर्णमाजगामामितद्युतिः ॥२५॥

ददर्श च विबुद्‌ध्वा सा यशोदा जातमात्मजम् ।
नीलोत्पलदलश्यामं ततोऽत्यर्थं मुदं ययौ ॥२६॥

आदाय वसुदेवोऽपि दारिकां निजमन्दिरम् ।
देवकीशयने न्यस्य यथापूर्वमतिष्ठत ॥२७॥

ततो बालध्वनिं श्रुत्वा रक्षिणः सहसोत्थिताः ।
कंसमावेदयामासुर्देवकीप्रसवं द्विजाः ॥२८॥

कंस्स्तूर्णमुपेत्यैनां ततो जग्राह बालिकाम् ।
मुञ्च मुञ्चेति देवक्याऽऽसन्नकण्ठं निवारितः ॥२९॥

चिक्षेप च शिलापृष्ठे सा क्षिप्ता वियति स्थितिम् ।
अवाप रूपं च महत्सायुधाष्टमहाभुजम् ॥
प्रजहास तथैवोच्चैः कंसं च रुषिताऽब्रवीत् ॥३०॥
योगमायोवाच
किं मयाऽऽक्षिप्तया कंस जातो यस्त्वां हनिष्यति ।
सर्वस्वभूतो देवानामासीन्मृत्युः पुरा स ते ॥
तदेतत्संप्रधार्याऽऽशु क्रियतां हितमात्मनः ॥३१॥

व्यास उवाच
इत्युक्त्वा प्रययौ देवी दिव्यस्रग्गन्धभूषणा ।
पश्यतो भोजराजस्य स्तुता सिद्धैर्विहायसा ॥३२॥

इति श्रीमहापुराणे आदि ब्राह्मे श्रीकृष्णोत्पत्तिकथानिरूपणं नाम द्व्यशीत्यधिकशततमोऽध्यायः ॥१८२॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP