संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ६९

ब्रह्मपुराणम् - अध्यायः ६९

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अथोनसप्ततितमोऽध्यायः
पुरुषोत्तममाहात्म्यनिरूपणम्
मुनय ऊचुः
बह्वाश्चर्यस्त्वया प्रोक्तो विष्णुलोको जगत्पते ।
नित्यानन्दकरः श्रीमान्भुक्तिमुक्तिफलप्रदः ॥१॥

क्षेत्रं च दुर्लभं कीर्तितं पुरुषोत्तमम् ।
त्यक्त्वा यत्र नरो देहं याति सालोक्यतां हरेः ॥२॥

सम्यक्क्षेत्रस्य माहात्म्यं त्वया सम्यक्प्रकीर्तितम् ।
यत्र स्वदेहसंत्यागाद्विष्णुलोकं व्रजेन्नरः ॥३॥

अहो मोक्षस्य मार्गोऽयं देहत्यागस्त्वयोदितः ।
नराणामुपकाराय पुरुषाख्ये न संशयः ॥४॥

अनायासेन देवेश देहं त्यक्त्वा नरोत्तमाः ।
तस्मिन्क्षेत्रे परं विष्णोः पदं यान्ति निरामयम् ॥५॥

श्रुत्वा क्षेत्रस्य माहात्म्यं विस्मयो नो महानभूत् ।
प्रयागपुष्करादीनि क्षेत्राण्यायतनानि च ॥६॥

पृथिव्यां सर्वतीर्थानि सरितश्च सरांसि च ।
न तथा तानि सर्वाणि प्रशंससि सुरोत्तम् ॥७॥

यथा प्रशंससि क्षेत्रं पुरुषाख्यं पुनः पुनः ।
ज्ञातोऽस्माभिरभिप्रायस्तवेदानीं पितामह ॥८॥

येन प्रशंससि क्षेत्रं मुक्तिदं पुरुषोत्तमम् ।
पुरुषाख्यसमं नूनं क्षेत्रं नास्ति महीतले ॥
तेन त्वं विबुधश्रेष्ठ प्रशंससि पुनः पुनः ॥९॥

सत्यं सत्यं मुनिश्रेष्ठा भवद्भिः समुदाहृतम् ।
पुरुषाख्यसमं क्षेत्रं नास्त्यत्र पृथिवीतले ॥१०॥

सन्ति यानि तु तीर्थानि पुण्यान्यायतनानि च ।
तानि श्रीपुरुषाख्यस्य कलां नार्हन्ति षोडशीम् ॥११॥

यथा सर्वेश्वरो विष्णुः सर्वलोकोत्तमोत्तमः ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥१२॥

आदित्यानां यता विष्णः श्रेष्ठत्वे समुदाहृतः ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥१३॥

नक्षत्राणां यथा सोमः सरसां सागरो यथा ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥१४॥

वसूनां पावको यद्वद्रुद्राणां शंकरो यथा ।
तथा समस्ततीर्थानां वरीष्ठं पुरुषोत्तमम् ॥१५॥

वर्णानां ब्राह्मणो यद्वद्वैनतेयश्च पक्षिणाम् ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम ॥१६॥

शिखरिणां यथा मेरुः पर्वतानां हिमालयः ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥१७॥

प्रमदानां यथा लक्ष्मीः सरितां जाह्नवी यथा ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥१८॥

ऐरावतो गजेन्द्राणां महर्षीणां भृगुर्यथा ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥१९॥

सेनानीनां यथा स्कन्दः सिद्धानां कपिलो यथा ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥२०॥

उच्चैःश्रवा यथाऽश्वानां कवीनामुशना कविः ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥२१॥

मुनीनां च यथा व्यासः कुबेरो यक्षरक्षसाम् ॥
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥२२॥

इन्द्रियाणां मनो यद्वद्भूतानामवनी यथा ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥२३॥

अश्वत्थः सर्ववृक्षाणां पवनः प्लवतां यथा ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥२४॥

भूषणानां तु सर्वेषां यथा चूडामणिर्द्विजाः ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥२५॥

गन्धर्वाणां चित्ररथः शस्त्राणां कुलिशो यथा ।
तथा समस्ततीर्थानां वरिष्ठं पुरषोत्तमम् ॥२६॥

अकारः सर्ववर्णानां गायत्री छन्दसां यथा ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥२७॥

सर्वाङ्गेभ्यो यथा श्रेष्ठमुत्तमाङ्गं द्विजोत्तमाः ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥२८॥

अरुन्धती यता स्त्रीणां सतीनां श्रेष्ठतां गता ।
तथा समस्ततीर्थानां श्रेष्ठं तत्पुरुषोत्तमम् ॥२९॥

यथा समस्तविद्यानां मोक्षविद्या परा स्मृता ।
तथा समस्ततीर्थानां श्रेष्ठं तत्पुरुषोत्तमम् ॥३०॥

मनुष्याणां यता राजा धेनूनामपि कामधुक् ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥३१॥

सुवर्णं सर्वरत्नानां सर्पाणां वासुकिर्यथा ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥३२॥

प्रह्लादः सर्वदैत्यानां रामः शस्त्रभृतां यथा ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥३३॥

झषाणां मकरो यद्वन्मृगाणां मृगराड्यथा ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥३४॥

समुद्राणां यथा श्रेष्ठः क्षीरोदः सरितां पतिः ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥३५॥

वरुणो यादसां यद्वद्यमः संयमिनां यथा ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥३६॥

देवर्षीणां यता श्रेष्ठो नारदो मुनिसत्तमाः ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥३७॥

धातूनां काञ्चनं यद्वत्पवित्राणां च दक्षिणा ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥३८॥

प्रजापतिर्यथा दक्ष ऋषीणां कश्यपो यथा ।
तथा समस्ततीर्थानां वरिष्ठं पुरुषोत्तमम् ॥३९॥

ग्रहाणां भास्करो यद्वन्मन्त्राणां प्रणवो यथा ।
तथा समस्ततीर्थानां वरिष्ठं पुरषोत्तमम् ॥४०॥

अश्वमेधस्तु यज्ञानां यथा श्रेष्ठः प्रकीर्तितः ।
तथा समस्ततीर्थानां क्षेत्रं च तद्द्विजोत्तमाः ॥४१॥

ओषधीनां यथा धान्यं तृणेषु तृणराड्यथा ।
तथा समस्ततीर्थानामुत्तमं पुरुषोत्तमम् ॥४२॥

यता सभस्ततीर्थानां धर्मः संसारतारकः ।
तथा समस्ततीर्थानां श्रेष्ठं तत्पुरुषोत्तमम् ॥४३॥

इति श्रीमहापुराणे आदिब्राह्मे स्वयंभ्वृषिसंवादे पुरुषोत्तममाहात्म्यनिरूपणं नामैकोनसप्ततितमोऽध्यायः ॥६९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP