संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ३

ब्रह्मपुराणम् - अध्यायः ३

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


देवदानवोत्पत्ति-वर्णनम्
मुनय ऊचुः
देवानां दानवानां च गन्धर्वोंरगरक्षसाम् ।
उत्पत्तिं विस्तरेणैव लोमहर्षण कीर्त्तय ॥१॥

लोमहर्षण उवाच
प्रजाः सृजति व्यादिष्टः पूर्वं दक्षः स्वयम्भुवा
यथा ससर्ज भूतानि तथा श्रृणुत भो द्विजाः ॥२॥

मानसान्यव भूतानि पूर्व्वमेवासृजत् प्रभु ।
ऋषीन्देवान् सगन्धर्व्वनसुरान्यक्षराक्षसान् ॥३॥

यदास्य मानसी विप्रा न व्यवर्द्धत वै प्रजा ।
तदा सञ्चित्य धर्म्मात्मा प्रजाहेतोः प्रजापति ॥४  ।

स मैथुनेन धर्म्मेण सिसृक्षुर्विविधाः प्रजाः ।
असिक्नीमावहत् पत्नीं वीरणस्य प्रजापतेः ॥५॥

सुतां सुतपसा युक्तां महतीं लोकधारिणीम् ।
अथ पुत्रसहस्राणि वैरण्यां पञ्च वीर्य्यवान् ॥६॥

असिक्न्यां जनयामास दक्ष एव प्रजापतिः ।
तांस्तु दृष्ट्वा महाभागान्संविवर्द्धयिषून् प्रजाः । ३.७॥

देवर्षिः प्रियसंवादो नारदः प्राब्रवीदिदम् ।
नाशाय वचनं तेषां शापायैवात्मनस्तथा ॥८॥

यं कश्यपः सुतवरं परमेष्ठी व्यजीजनत् ।
दक्षस्य वै दुहितरि दक्षशापभयान्मुनिः ॥९॥

पूर्वं स हि समुत्पन्नो नारदः परमेष्ठिनः ।
असिक्न्यामथ वैरण्यां भूयो देवर्षिसत्तमः ॥१०॥

तं भूयो जनयामास पितेव मुनिपुङ्गवम् ।
तेन दक्षस्य वै पुत्रा हर्यश्वा इति विक्षुताः ॥११॥

निर्म्मथ्य नाशिताः सर्व्वे विधिना च न संशयः ।
तस्योद्यतस्तदा दक्षो नाशायामितविक्रमः ॥१२॥

ब्रह्मर्षोन् पुरतः कृत्वा याचितः परमेष्ठिना ।
ततोऽभिसन्धिश्चक्रे वै दक्षस्य परमेष्ठिना  ॥१३॥

कन्यायां नारदो मह्यं तव पुत्रो भवेदिति ।
ततो दक्षः सुतां प्रादात् प्रियां वै परमेष्ठिने ॥१४॥

स तस्यां नारदो जज्ञे भूयः शापभयादृषिः
मुनय ऊचुः
कथं प्रणाशिताः पुत्रा नारदेन महर्षिणा ।
प्रजापते सूतवर्य्य श्रोतुमिच्छाम तत्त्वतः ॥१५॥

लोमहर्षण उवाच
दक्षस्य पुत्रा हर्य्यश्वा विवर्द्धयिषवः प्रजाः ।
समागता महावीर्य्या नारदस्तानुवाच ह ॥१६॥

नारद उवाच
बालिशा बत यूयं वै नास्या जानीत वै भुवः ।
प्रमाणं स्रष्टुकामा वै प्रजाः प्राचेतसात्मजाः ॥१७॥

अन्तरूद्र्ध्वमधश्चैव कथं सृजथ वै प्रजा ।
ते तु तद्वचनं श्रुत्वा प्रयाताः सर्व्वतो दिशः ॥१८॥

अद्यापि न निवर्त्तन्ते समुद्रेभ्य इवापगाः ।
हर्यश्वेष्वथ नष्टेषु दक्षः प्राचेतसः पुनः ॥१९॥

वैरण्यामथ पुत्राणां सहस्रमसृजत्प्रभुः ।
विवर्द्धयिषवस्ते तु शवलाश्वास्तथा प्रजा ॥२०॥

पूर्व्वांक्तं वचनं ते तु नारदेन प्रचोदिताः ।
अन्योन्यमूचुस्ते सर्व्वे सम्यगाह महानृषिः ॥२१॥

भ्रातृणां पदवीं ज्ञातुं गन्तव्यं नात्र संशयः ।
ज्ञात्वा प्रमाणँ पृथ्व्याश्च सुखं स्रक्ष्यामहे प्रजाः ॥२२॥

तेऽपि तेनैव मार्गेण प्रयाताः सर्व्वतो दिशम् ।
अद्यापि न निवर्त्तन्ते समुद्रेभ्य इवापगाः ॥२३॥

तदा प्रभृति वै भ्राता भ्रातुरन्वेषणे द्विजाः ।
प्रयातो नश्यति क्षिप्रं तन्न कार्य्यं विपश्चिता ॥२४॥

तांश्चैव नष्टान् विज्ञाय पुत्रान् दक्षः प्रजापतिः ।
षष्टिं ततोऽसृजत् कन्या वैरण्यामिति नः श्रुतम् ॥२५॥

तास्तदा प्रतिजग्राह भार्य्यार्थं कश्यपः प्रभुः ।
सोमो धर्म्मश्च भो विप्रास्तथैवान्ये महर्षयः ॥२६॥

ददौ स दश धर्म्माय कश्यपाय त्रयोदश ।
सप्तविंशति सोमाय चतस्रोऽरिष्टनेमिने ॥२७॥

द्वै चैव बहुपुत्राय चेवाङ्गिरसे तथा ।
द्वे कृशाश्वाय विदुषे तासां नामानि मे श्रुणु । ३.२८॥

अरुन्धती वसुर्यामी लम्बा भानुर्मरुत्वती ।
सङ्गल्पा च मुहूर्त्ता च साध्या विश्वा च भो द्विजाः ॥२९॥

धर्म्मपत्न्यो दश त्वेतास्तास्वपत्यानि बोधत ।
विश्वेदेवास्तु विश्वायाः साध्या साध्यान् व्यजयात ॥३०॥

मरुत्वत्यां मरुत्वन्तो वसोस्तु वसवः सुताः ।
भानोस्तु भानवः पुत्रा मुहूर्त्तास्तु मुहूर्त्तजाः ॥३१॥

लम्बायाश्चैव घोषोऽथ नागवीथी च यामिजा ।
पृथिवोविषयं सर्व्वमरुन्धत्यां व्यजायत ॥३२॥

सङ्कल्पायास्तु विश्वातमा जज्ञे सङ्कल्प एव हि ।
नागवीथ्याढञ्च यामिन्यां वृषलश्च व्यजायत ॥३३॥

परा याः सोमपत्नीश्च दक्षः प्राचेतसो ददौ ।
सर्व्वा नक्षत्रनाम्न्यस्ता ज्योतिषे परिकीर्त्तिता ॥३४॥

ये त्वन्ये ख्यातिमन्तो वै देवा ज्योतिष्पुरोगमाः ।
वसवोऽष्टौ समाख्यातास्तेषां वक्ष्यामि विस्तरम् ॥३५॥

आपो ध्रुवश्च सोमश्च धवश्चैवानिलोऽनलः ।
प्रत्यूषश्च प्रभासश्च वसवो नामभिः स्मृताः ॥३६॥

आपस्य पुत्रो वैतयण्ड्यः श्रमः श्रान्तो मुनिस्तथा ।
ध्रुवस्य पुत्रो भगवान् कालो लोकप्रकालनः ॥३७॥

सोमस्य भगवान् वर्च्चा वर्च्चस्वी येन जायते ।
धवस्य पुत्रो द्रवीणो हुतहव्यवहस्तथा ॥३८॥

मनोहरायाः शिशिरः प्राणोऽथ रमणस्तस्था ।
अनिलस्य शिवा भार्य्या तस्याः पुत्रो मनोजवः ॥३९॥

अविज्ञातगतिश्चै द्वौ पुत्रावनिलस्य च अग्निपुत्रः कुमारस्तु शरस्तम्बे श्रिया वृतः ।
तस्य शाखो विशाखश्च नैगमेयश्च पृष्ठजः ॥४०॥

अपत्यं कृत्तिकानां तु कार्त्तिकेय इति स्मृतः ।
प्रत्यूषस्य विदुः पुत्रमृषिं नाम्नाथ देवलम् ॥४१॥

द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणी ।
बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मवादिनी ॥४२॥

योगसिद्धा जगत् कृत्स्नामसक्ता विचचार ह ।
प्रभासस्य तु सा भार्य्या वसूनामष्टमस्य तु ॥४३॥

विश्वकर्म्मा महाभागो यस्यां जज्ञे प्रजापतिः ।
कर्त्ता शिल्पसहस्राणां त्रिदशानाञ्च वार्द्धकिः ॥४४॥

भूषणानाञ्च सर्व्वेषां कर्त्ता शिल्पवतां वरः ।
यः सर्व्वेषां विमानानि देवतानां चकार ह  ॥४५॥

मानुषाश्चोपजीवन्ति यस्य शिल्पं महात्मनः ।
सुरभी कश्यपाद्रुद्रानेकादश विनिर्म्ममे ॥४६॥

महादेवप्रसदेन तपसा भाविता सती ।
अजैकपादहिर्बुध्न्यस्त्वष्टा रुद्रश्च वीर्य्यवान् ॥४७॥

हरश्च बहुरूपश्च त्र्यम्बकश्चापराजितः ।
वृषाकपिश्ट शम्भुश्च कपर्दी रैवतस्तथा ॥४८॥

मृगव्याधश्च शर्व्वश्च कपाली च द्विजोत्तमाः ।
एकादशैते विख्याता रुद्रास्त्रिभुवनेश्वराः ॥४९॥

शतं त्वेवं समाख्यातं रुद्राणाममितौजसाम् ।
पुराणे मुनिशाद्र्दूला यैव्यप्तिं सचराचरम् ॥५०॥

दारान् श्रृणुध्वं विप्रेन्द्राः कश्यपस्य प्रजापतेः ।
अदितिर्दितिर्दनुश्चैव अरिष्टा सुरसा खसा ॥५१॥

सूरभिर्विनता चैव ताम्रा क्रोधवशा इरा ।
कद्रुर्मुनिश्च भो विप्रास्तास्वपत्यानि बोधत ॥५२॥

पूर्व्वमन्वन्तरे श्रेष्ठा द्वादशासत् सुरोत्तमाः ।
तुषिता नाम तेऽन्योन्यमूचुर्वैवस्वतेऽन्तरे ॥५३॥

उपस्थितेऽतियशसश्चाक्षुषस्यान्तरे मनोः ।
हितार्थ सर्व्वलोकानां समागम्य परस्परम् ॥५४॥

आगच्छत द्रुतं देवा अदितिं सम्प्रविश्य वै ।
मन्वन्तरे प्रसूयामस्तन्नः श्रेयो भविष्यति  ॥५५॥

लोमहर्षण उवाच
एवमुक्ता तु ते सर्व्वे चाक्षुषस्यान्तरे मनोः ।
मारीचात् कश्यपाज्जातास्त्वदित्या दक्षकन्यया ॥५६॥

तत्र विष्णुश्च शक्रश्च जज्ञोते पुनरेव हि ।
अर्य्यमा चैव धाता च त्वष्टा पूषा तथैव च ॥५७॥

विवस्वान् सविता चैव मित्रो वरुणा एव च ॥
अंशो भगश्चातितेजा आदित्या द्वादश स्मृताः ॥५८॥

सप्तविंशति याः प्रोक्ताः सोमपत्न्यो महाव्रताः ।
तासामपत्यान्यभवन् दीप्तान्यमिततेजसः ॥५९॥

अरिष्टनेमिपत्नीनामपत्यानीह षोडश ।
बहुपुत्रस्य विदुषश्चतस्रो विद्युतः स्मृताः ॥६०॥

चाक्षुषस्यान्तरे पूर्व्वे ऋचो ब्रह्मर्षिसत्कृताः ।
कुशाश्वस्य च देवर्षेदैवप्रहरणाः स्मृताः ॥६१॥

एते युगसहस्रान्ते जायन्ते पुनरेव हि ।
सर्व्वे देवगणाश्चात्र त्रयस्त्रिंशत्तु कामजाः ॥६२॥

तेषामपि च भो विप्रा निरोधोत्पत्तिरुच्यते ।
यथा सर्य्यस्य गगन उदयास्तमयाविह ॥६३॥

एवं देवनिकायास्ते सम्भवन्ति युगे युगे ।
दित्याः पुत्रद्वयं जज्ञे कश्यपादिति नः श्रुतम् ॥६४॥

हिरण्यकशिपुश्चैव हिरण्याक्षश्च वीर्य्यवान् ।
सिंहिका चाभवत् कन्या विप्रचित्तेः परिग्रहः ॥६५॥

सैहिकेया इति ख्याता यस्याः पुत्रा महाबलाः ।
हिण्यकशिपोः पुत्राश्चत्वारः प्रथितौजसः ॥६६॥

ह्रादश्च अनुह्रादश्च प्रह्रादश्चैव वनीर्य्यवान् ।
संह्रादश्च चतुर्थोऽभूद्ह्रादपुत्रो ह्रदस्तथा ॥६७॥

ह्रदस्य पुत्रौ द्वौ वीरौ शिवः कालस्तथैव च ।
विरोचनस्तु प्राह्रादिर्बलिर्जज्ञे विरोचनात् ॥६८॥

बलेः पुत्रशतं त्वासीद्बाणज्योष्ठं तपोधनाः ।
धृतराष्ट्रश्च सूर्यश्च चन्द्रमाश्चन्द्रतापनः ॥६९॥

कुम्भनाभो गद्र्दभाक्षः कुक्षिरित्येवमादयः ।
बाणस्तेषामतिबलो ज्येष्ठः पशुपतेः प्रियः ॥७०

पुरा कल्पे तु बाणेन प्रसाद्योमापतिं प्रभुम् ।
पार्श्वतो विहरिष्यामि इत्येवं याचितो वरः ॥७१॥

हिरण्याक्षसुताश्चैव विद्वांसश्च महाबलाः ।
भर्भरः शकुनिश्चैव भूतसन्तापनस्तथा ॥७२॥

महानाभश्च विक्रान्तः कालनाभस्तथैव च ।
अभवन् दनुपुत्राश्च शतं तीव्रवराक्रमाः ॥७३॥

तपस्विनो महावीर्य्याः प्राधान्येन ब्रवीमि तान् ।
द्विमूर्द्वाशंकुकर्णश्च तथा हयशिरा विभुः ॥७४॥

अयोमुखः शम्बरश्च कपिलो वामनस्तथा ।
मारीचिर्मघवांश्चैव इल्वलः स्वसृमस्तथा । ३.७५॥

विक्षोभणश्च केतुश्च केतुवीर्य्यशतह्रदौ ।
इन्द्रजित्सर्व्वजिच्चैव वज्रनाभस्तथैव च ॥७६॥

एकचक्रो महाबाहुस्तारकश्च महाबलः ।
वैश्वानरः पुलोमा च विद्रावणमहाशिराः ॥७७॥

स्वर्भानुर्वृषपर्वा च विप्रचित्तिश्च वीर्य्यवान् ।
सर्व्व एते दनोः पुत्राः कश्यपादभिजज्ञिरे  ॥७८॥

विप्रचित्तिप्रधानास्ते दानवाः सुमहाबलाः ।
एतेषां पुत्रपौत्रन्तु न तच्छक्यं द्विजोत्तमाः ॥७९॥

प्रसंख्यातुं बहुत्वाच्च पुत्रपौत्रमनन्तकम् ।
स्वर्भानोस्तु प्रभा कन्या पुलोम्नस्तु शचीसुता  ॥८०॥

उपदोप्तिर्हयशिराः शर्मिष्ठा वार्षपर्व्वणी ।
पुलोमा कालिका चैव वैश्वानरसुते उभे ॥८१॥

बह्वपत्ये महापत्ये मरीचेस्तु परिग्रहः ।
तयोः पुत्रसहस्राणि षष्टिर्दानवनन्दनाः ॥८२॥

चतुर्दशशतानन्यान् हिरण्यपुरवासिनः ।
मीरीचिर्जनयामास महता तपसन्वितः ॥८३॥

पौलोमाः कालकेयाश्च दानवास्ते महाबलाः ।
आवध्या देवतानां हि हिरण्यपुरवासिनः ॥८४॥

पितामहप्रसादेन ये हताः सव्यसाचिना ।
ततोऽपरे महावीर्य्या दानवास्त्वतिदारुणाः ॥८५॥

सिंहिकायामथोत्पन्ना विप्रचित्तेः सुतास्तथा ।
दैत्यदानवसंयोगाज्जातास्तीव्प्रपराक्रमाः ॥८६॥

सैहिकेया इति ख्यातास्त्रयोदश महाबलाः ।
वंशः शल्यश्च बलिनौ नलश्चैव तथाबलः ॥८७॥

वातापिर्नमुचिश्चैव इलवलः स्वसृमस्तथा ।
अञ्जिको नरकश्चैव कालनाभस्ततैव च ॥८८॥

सरमानस्तथा चैव स्वरकल्पश्च वीर्य्यवान् ।
एते वै दानवाः श्रेष्ठा दनोवशविवर्धनाः ॥८९॥

तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ।
संह्रादस्य तु दैत्यस्य निवातकवचाः कुले ॥९०॥

समुत्पन्नाः सुमहता तपसा भावितात्मनः ।
तिस्रः कोट्यः सुतास्तेषां मणिवत्यां निवासिनः ॥९१॥

अवध्यास्तेऽपि देवानामर्ज्जुनेन निपातिताः ।
षट्सुताः सुमहाभागास्ताम्रायाः परिकीर्त्तिताः ॥९२॥

क्रौञ्ची श्येनी च भासी च सुग्रीवी शुचिगृध्रिका ।
क्रौञ्ची तु जनयामास उलूकप्रत्यलूककान् ॥९३॥

श्येनी श्येनांस्तथा भासी भासान्गृधांश्च गृध्य्रपि ।
शुचिरौदकान्पक्षिणान्सुग्रीवी तु द्विजोत्तमाः ॥९४॥

अश्वानुष्ट्रान् गद्र्दभांश्च ताम्रावंशः प्रकीर्त्तितः ।
विनतायास्तु द्वौ पुत्रौ विख्यातौ गरुङारुणौ ॥९५॥

गरुडः पततां श्रेष्ठो दारुणः स्वेन कर्म्मणा ।
सुरसायाः सहस्रन्तु सर्पाणाममितौजसाम् ॥९६॥

अनेकशिरसां विप्राः खचराणां महात्मनाम् ।
काद्रवेयास्तु बलिनः सहस्रममितौजसः ॥९७॥

सुपर्णवशगा नागा जज्ञिरे नैकमस्तकाः ।
येषां प्रधानाः सततं शेषवासुकितक्षकाः ॥९८॥

ऐरावतो महापद्मः कम्बलाश्वतरावुभौ ।
एलापत्रश्च शङ्खश्च कर्कोटकधनञ्जयौ ॥९९॥

महानीलमहाकर्णै धृतराष्ट्रबलाहकौ ।
कुहरः पुष्पदंष्ट्रश्च दुर्म्मुखः सुमुखस्तथा ॥१००॥

शङ्खश्च शङ्खपालश्च कपिलो वामनस्तथा ।
नहुषः शङ्खरोमा च मणिरित्येवमादयः ॥१०१॥

तेषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ।
चतुर्दशसहस्राणि क्रूराणामनिलाशिनाम् ॥१०२॥

गणं क्रोधवशं विप्रास्तस्य सर्व्वे च दंष्ट्रिणः ।
स्थलजाः पक्षिणोऽब्जाश्च धरायाः प्रसवाः स्मृताः ॥१०३॥

गास्तु वै जनयामास सुरभिर्महिषीस्तथा
इरा वृक्षलतावल्लीस्तृणजातीश्च सर्व्वशः ॥१०४॥

खसा तु यक्षरक्षांसि मुनिरप्सरसस्तथा ।
अरिष्टा तु महासिद्धा गंधर्वानमितौजसः ॥१०५॥

एते कश्यपदायादाः कीर्त्तिताः स्थाणुजङ्गमाः ।
येषां पुत्राश्च पौत्राश्च शतशोऽथ सहस्रशः ॥१०६॥

एष मन्वन्तरे विप्राः सर्गः स्वारोचिषे स्मृतः ।
वैवस्वतेऽतिमहति वारुणे वितते क्रतौ ॥१०७॥

जुह्वानस्य ब्रह्मणो वै प्रजासर्ग इहोच्यते ।
पूर्व्वं यत्र समुत्पन्नान्ब्रह्मर्षीन्सप्त मानसान् ॥१०८

पुत्रत्वे कल्पयामास स्वयमेव पितामहः ।
ततो विरोधे देवानां दानवानां च भो द्विजाः ॥१०९॥

दितिर्विनष्टपुत्रा वै तोषयामास कस्यपम् ।
कश्यपस्तु प्रसन्नात्मा सम्यगाराधितस्तया ॥११०॥

वरेण च्छन्दयामास सा च वव्रे वरं तदा ।
पुत्रमिन्द्रवधार्थाय समर्थममितौजसम् ॥१११॥

स च तस्मै वरं प्रादात् प्रार्थितः सुमहातपाः ।
दत्त्वा च वरमत्युग्रो मारीचः समभाषत  ॥११२॥

इन्द्रं पुत्रो निहन्ता ते गर्भं वै शरदां शतम् ।
यदि धारयसे शौचतत्परा ब्रतमास्थिता ॥११३॥

तथेत्यभिहितो भर्त्ता तया देव्या महातपाः ।
धारयामास गर्भं तु शुचिः सा मुनिसत्तमाः ॥११४॥

ततोऽभ्युपागमद्दित्यां गर्भमाधाय कश्यपः ।
रोधयन् वै गणं श्रेष्ठं देवानाममितौजसम् ॥११५॥

तेजः संहृद्य दुर्धर्षमवध्यममरैरपि ।
जगाम पर्व्वतायैव तपसे संशितब्रता  ॥११६॥

तस्याश्चैवान्तरप्रेप्सुरभवत् पाकशासनः ।
जाते वर्षशते चास्या ददर्शान्तरमच्युतः ॥११७  ।

अकृत्वा पादयोः शौचं दितिः शयनमाविशत् ।
निद्रां चाहारयामास तस्यां कुक्षिं प्रविश्य सः ॥११८॥

वज्रपाणिस्ततो गर्भं सप्तधा तं न्यकृन्तयत् ।
स पाट्यमानो गर्भोऽथ वज्रेण प्ररुरोदह  ॥११९॥

मा रोदीरिति तं शक्रः पुनः पुनरथाब्रवीत् ।
सोऽभवत् सप्तधा गर्भस्तमिन्द्रो रुषितः पुनः ॥१२०॥

एकैकं सप्तधा चक्रेः वज्रेणैवारिकर्षणः ।
मरुतो नाम ते देवा बभूवुर्द्विजसत्तमाः ॥१२१॥

यथोक्तं वै मघवता तथैव मरुतोऽभवन् ।
देवाश्चैकोनपञ्चाशत्सहाया वज्रपाणिनः ॥१२२॥

तेषामेवं प्रवृत्तानां भूतानां द्विजसत्तमाः ।
रोचयन् वै गणश्रेष्ठान् देवानाममितौजसाम् ॥१२३॥

निकायेषु निकायेषु हरिः प्रादात् प्रजापतीन् ।
क्रमशस्तानि राज्यानि पृथुपूर्वाणि भो द्विजाः ॥१२४॥

स हरिः पुरुषो वीरः कृष्णो जिष्णुः प्रजापतिः ।
पर्जन्यस्तपनोऽनन्तस्तस्य सर्व्वमिदं जगत् ॥१२५॥

भूतसर्गमिमं सम्यग्जानतो द्विजसत्तमाः ।
नावृत्तिभयमस्तीह परलोकभयं कुतः ॥१२६॥

इति श्रीब्राह्मे महापुराणे देवसुराणामुत्पत्तिकथनं नाम तृतीयोऽध्यायः ॥३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP