संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १८८

ब्रह्मपुराणम् - अध्यायः १८८

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


गोवर्धनाख्यानवर्णनम्
व्यास उवाच
महे प्रतिहते शक्रो भृशं कोपसमन्वितः ।
संवर्तकं नाम गणं तोयदानामथाब्रवीत् ॥१॥

इन्द्र उवाच
भो भो मेघा निशम्यैतद्वदतो वचनं मम ।
आज्ञानन्तरमेवाऽसु क्रियतामविचारितम् ॥२॥

नन्दगोपः सुदुर्बुद्धिर्गोपैरन्यैः सहायवान् ।
कृष्णाश्रयबलाध्मातो महभङ्गमचीकरत् ॥३॥

आजीवो यः परं तेषां गोपत्वस्य च कारणम् ।
ता गावो वृष्टिपातेन पीड्यन्तां वचनान्मम ॥४॥

अहमप्यद्रिश्रृङ्गाभं तुङ्गमारुह्य वारणम् ।
साहाय्यं वः करिष्यामि वायूनां संगमेन च ॥५॥

व्यास उवाच
इत्याज्ञप्ताः सुरेन्द्रेण मुमुचुस्ते बलाहकाः ।
वार्तवर्षं महाभीममभावाय गवां द्विजाः ॥६॥

ततः क्षणेन धरणी ककुभोऽम्बरमेव च ।
एकं धारामहासारपूरणेनाभवद्‌द्विजाः ॥७॥

गावस्तु तेन पतता वर्षवातेन वेगिना ।
धुताः प्राणाञ्जहुः सर्वास्तिर्यङ्मुखशिरोधराः ॥८॥

क्रोडेन वत्सानाक्रम्य तस्थुरन्या द्विजोत्तमाः ।
गावो विवत्साश्च कृता वारिपूरेण चापराः ॥९॥

वत्साश्च दीनवदनाः पवनाकम्पिकंधराः ।
त्राहि त्राहीत्यल्पशब्दाः कृष्णमूचुरिवाऽऽर्तकाः ॥१०॥

ततस्तद्‌गोकुलं सर्वं गोगोपीगोपसंकुलम् ।
अतीवाऽऽर्तं हरिर्दृष्ट्वा त्राणायाचिन्तयत्तदा ॥११॥

एतत्कृतं महेन्द्रेण महभङ्गविरोधिना ।
तदेतदखिलं गोष्ठं त्रातव्यमधुना मया ॥१२॥

इममद्रिमहं वीर्यादुत्पाट्योरुशिलातलम् ।
धारयिष्यामि गोष्ठस्य पृथुच्छत्रमिवोपरि ॥१३॥

व्यास उवाच
इति कृत्वा मतिं कृष्णो गोवर्धनमहीधरम् ।
उत्पाट्यैककरेणैव धारयामास लीलया ॥१४॥

गोपांश्चाऽऽह जगन्नाथः समुत्पाटितभूधरः ।
विशध्वमत्र सहिताः कृतं वर्षनिवारणम् ॥१५॥

सुनिर्वातेषु देशेषु यथायोग्यमिहाऽऽस्यताम् ।
प्रविश्य नात्र भेतव्यं गिरिपातस्य निर्भयैः ॥१६॥

इत्युक्तास्तेन ते गोपा विविशुर्गोधनैः सह ।
शकटारोपितैर्भण्डैर्गोप्यश्चाऽऽसारपीडिताः ॥१७॥

कृष्णोऽपि तं दधारैवं शैलमत्यन्तनिश्चलम् ।
व्रजौकोवासिभिर्हर्षविस्मिताक्षैर्निरीक्षितः ॥१८॥

गोपगोपीजनैर्हृष्टैः प्रीतिविस्तारितेक्षणैः ।
संस्तूयमानचरितः कृष्णः शैलमधारयत् ॥१९॥

सप्तरात्रं महामेघा ववर्षुर्नन्दगोकुले ।
इन्द्रेण चोदिता मेघा गोपानां नाशकारिणा ॥२०॥

ततो धृते महाशैले परित्राते च गोकुले ।
मिथ्याप्रतिज्ञो बलभिद्वारयामास तान्घनान् ॥२१॥

व्यभ्रे नभसि देवन्द्रे वितथे शक्रमन्त्रिते ।
निष्क्रम्य गोकुलं हृष्टः स्वस्थानं पुनरागमत् ॥२२॥

मुमोच कृष्णोऽपि तदा गोवर्धनमहागिरिम् ।
स्वस्थाने विस्मितमुखैर्दुष्टस्तैर्व्रजवासिभिः ॥२३॥

व्यास उवाच
धृते गोवर्धने शैले परित्राते च गोकुले ।
रोचयामास कृष्णस्य दर्शनं पाकशासनः ॥२४॥

सोऽधिरुह्य महानागमैरावतममित्रजित् ।
गोवर्धनगिरौ कृष्णं ददर्श त्रिदशाधिपः ॥२५॥

चारयन्तं महावीर्यं गाश्च गोपवपुर्धरम् ।
कृत्स्नस्य जगतो गोपं वृतं गोपकुमारकैः ॥२६॥

गरुडं च ददर्शोच्चैरन्तर्धानगतं द्विजाः ।
कृतच्छायं हरेर्मर्ध्नि पक्षाभ्यां पक्षिपुंगवम् ॥२७॥

अवरुह्य स नागेन्द्रादेकान्ते मधुसूदनम् ।
शक्रः सस्मितमाहेदं प्रीतिविस्फारितेक्षणः ॥२८॥

इन्द्र उवाच
कृष्ण कृष्ण शृणुष्वेदं यदर्थमहामागतः ।
त्वत्सीमीपं महाबाहो नैतच्छिन्त्यं त्वयाऽन्यथा ॥२९॥

भारावतरणार्थाय पृथिव्याः पृथिवीतलम् ।
अवतीर्णोऽखिलाधारस्त्वमेव परमेश्वर ॥३०॥

महभङ्गविरुद्धेन मया गोकुलनाशकाः ।
समादिष्टा महामेघास्तैश्चैतत्कदनं कृतम् ॥३१॥

त्रातास्तापात्त्वया गावः समुत्पाट्य महागिरिम् ।
तेनाहं तोषितो वीर कर्ममाऽत्यद्‌भुतेन ते ॥३२॥

साधितं कृष्ण देवानामद्य मन्ये प्रयोजनम् ।
त्वयाऽयमद्रिप्रवरः करोणैकेन चोद्धृतः ॥३३॥

गोभिश्च नोदितः कृष्ण त्वत्समीपमिहाऽऽगतः ।
त्वया त्राताभिरत्यर्थं युष्मत्कारणकारणात् ॥३४॥

स त्वां कृष्णाभिषेक्ष्यामि गवां वाक्यप्रचोदितः ।
उपेन्द्रत्वे गवामिन्द्रो गोविन्दस्त्वं भविष्यसि ॥३५॥

अथोपवाह्यादादाय घण्टामैरावताद्‌गजात् ।
अभिषेकं तया चक्रे पवित्रजलपूर्णया ॥३६॥

क्रियमाणेऽभिषेके तु गावः कृष्णस्य तत्क्षणात् ।
प्रस्रवोद्‌भूतदुग्धार्द्रां सद्यश्चक्रुर्वसुंधराम् ॥३७॥

अभिषिच्छ गवां वाक्याद्देवेन्द्रो वै जनार्दनम् ।
प्रीत्या सप्रश्रयं कृष्णं पुनराह शचीपतिः ॥३८॥

इन्द्र उवाच
गवामेतत्कृतं वाक्यात्तथाऽन्यदपि मे शृणु ।
यद्‌ब्रवीमि महाभाग भारावतरणेच्छया ॥३९॥

ममांशः पुरुषव्याघ्रः पृथिव्यां पृथिवीधर ।
अवतीर्णोऽर्जुनो नाम स रक्ष्यो भवता सदा ॥४०॥

भारावपतरणे सख्यं स ते वीरः करिष्यति ।
स रक्षणीयो भवता यथाऽऽत्मा मधुसूदन ॥४१॥

श्रीभगवानुवाच
जानामि भारते वंशे जातं पार्थं तवांशतः ।
तमहं पालयिष्यामि यावदस्मि महीतले ॥४२॥

यावन्महीतले शक्र स्थास्याम्यहमरिंदम ।
न तावदर्जुनं कश्चिद्देवेन्द्र युधि जेष्यति ॥४३॥

कंसो नाम महाबाहुर्दैत्योऽपरिष्टस्तथा परः ।
केशी कुवलयापीडो नरकाद्यास्तथाऽपरे ॥४४॥

हतेषु तेषु देवेन्द्र भविष्यति महाहवः ।
तत्र विद्धि सहस्राक्ष भारावतरणं कृतम् ॥४५॥

स त्वं गच्छ न संतापं पुत्रार्थे कर्तुमर्हसि ।
नार्जुनस्य रिपुः कश्चिन्ममाग्रे प्रभविष्यति ॥४६॥

अर्जुनार्थे त्वहं सर्वान्युधिष्ठिरपुरोगमान् ।
निवृत्ते भारते कुन्त्यै दास्यामि विक्षतान् ॥४७॥

व्यास उवाच
इत्युक्तः संपरिष्वज्य देवराजो जनार्दनम् ।
आरुह्यैरावतं नागं पुनरेव दिवं ययौ ॥४८॥

कृष्णोऽपि सहितो गोभिर्गोपालैश्च पुनर्व्रजम् ।
आजगामाथ गोपीनां दृष्टपूतेन वर्त्मना ॥४९॥

इति श्रीमहापुराणे आदिब्राह्मे बालचरिते गोविन्दाभिषेकवर्णनं नामाष्टाशीत्यधिकशततमोऽध्यायः ॥१८८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP