संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १०१

ब्रह्मपुराणम् - अध्यायः १०१

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अथैकाधिकशततमोऽध्यायः
सरस्वतीसंगमपुरूरवसब्रह्मतीर्थसिद्धेश्वरवर्णनम्
ब्रह्मोवाच
पुरूरवसमाख्यातं तीर्थं वेदविदो विदुः ।
स्मरणादेव पापानां नाशनं किंतु दर्शनात् ॥१॥

पुरूरवा ब्रह्मसदः प्राप्य तत्र सरस्वतीम् ।
यदृच्छया देवनदीं हसन्तीं ब्रह्मणोऽन्तिके ॥
तां दृष्ट्वा रूपसंपन्नामुर्वशीं प्राह भूपतिः ॥२॥

राजोवाच
केयं रूपवती साध्वी स्थितेयं ब्रह्मणोऽन्तिके ।
सर्वासामुत्तमा योषिद्दीपयन्ती सभामिमाम् ॥३॥

ब्रह्मोवाच
उर्वशी प्राह राजानमियं देवनदी शुभा ।
सरस्वती ब्रह्मसुता नित्यमेति च याति च ॥
तच्छ्रुत्वा विस्मितो राजा आनयेमां ममान्तिकम् ॥४॥

ब्रह्मोवाच
उर्वशी पुनरप्याह राजानं भूरिदक्षिणम् ॥५॥

उर्वस्युवाच
आनीयते महाराज तस्याः सर्वं निवेद्य च ॥६॥

ब्रह्मोवाच
ततस्तां प्राहिणोत्तत्र राजा प्रीत्या तदोर्वशीम् ।
सा गत्वा राजवचनं न्यवेदयदथोर्वशी ॥७॥

सरस्वत्यपि तन्मेने उर्वश्या यन्निवेदितम् ।
सा तथेति प्रतिज्ञाय प्रायाद्यत्र पुरूरवाः ॥८॥

सरस्वत्यास्ततस्तीरे स रेमे बहुलाः समाः ।
सरस्वानभवत्पुत्रो यस्य पुत्रो बृहद्रथः ॥९॥

तां गच्छन्तीं नृपगृहं नित्यमेव सरस्वतीम् ।
सरस्वन्तं ततो लक्ष्म ज्ञात्वाऽन्येषु तथा कृतम् ॥१०॥

तस्यै ददावहं शापं भूया इति महानदी ।
मच्छापभीता वागीशा प्रागाद्देवीं च गौतमीम् ॥११॥

कमण्डलुभवां पूतां मातरं लोकपावनीम् ।
तापत्रयोपशमनीमैहिकामुष्मिकप्रदाम् ॥१२॥

सा गत्वा गौतमीं देवीं प्राह मच्छापमादितः ।
गङ्गाऽपि मामुवाचेदं विशापां कर्तुमर्हसि ॥१३॥

न युक्तं यत्सरस्वत्याः शापं त्वं दत्तवानसि ।
स्त्रीणामेष स्वभावो वै पुंस्कामा योषितो यतः ॥१४॥

स्वभावाचपला ब्रह्मन्योषितः सकला अपि ।
त्वं कथं तु न जानीषे जगत्स्रष्टाऽम्बुजासन ॥१५॥

विडम्बयति कं वा न कामो वाऽपि स्वभावतः ।
ततो विशापमवदं द़ृश्याऽपि स्यात्सरस्वती ॥१६॥

तस्माच्छापान्नदी मर्त्ये दृश्याऽदृश्या सरस्वती ।
यत्रैषा संगता देवी गङ्गायां शापविह्वला ॥१७॥

तत्र प्रायान्नृपवरो धार्मिकः स पुरूरवाः ।
तपस्तप्त्वा समाराध्य देवं सिद्धेश्वरं हरम् ॥१८॥

सर्वान्कामानथावाप गङ्गायाश्च प्रसादतः ।
तत प्रभृति तत्तीर्थं पुरूरवसमुच्यते ॥१९॥

सरस्वतीसंगमं च ब्रह्मतीर्थं तदुच्यते ।
सिद्धेश्वरो यत्र देवः सर्वकामप्रदं तु तत् ॥२०॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये सरस्वतीसंगमपुरूरवसब्रतीर्थसिद्धेश्वरवर्णनं नामैकाधिकशततमोऽध्यायः ॥१०१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP