संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ३८

ब्रह्मपुराणम् - अध्यायः ३८

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


मदनदहन-वर्मनम्
ब्रह्मोवाच
प्रविष्टे भवनं देवे सूपविष्टे वरासने ।
स वक्रो मन्मथः क्रुरो देवं वेद्धुमना भवत् ॥१॥

तमनाचारसंयुक्तं दुरात्मानं कुलाधमम् ।
लोकान् सर्व्वान् पीडयन्तं सर्वाङ्गावरणात्मकम् ॥२॥

ऋषीणां विघ्नकर्त्तारं नियमानां व्रतैः सह ।
चक्राह्‌वयस्य रूपेण रत्या सह समागतम् ॥३॥

अथाऽऽततायितं विप्रा वेद्धुकामं सुरेश्वरः ।
नयनेन तृतीयेन सावज्ञं समवैक्षत ॥४॥

ततोऽस्य नेत्रजो वह्निर्ज्वालामालासहस्रवान् ।
सहसा रतिभर्त्तारमदहत् सपरिच्छदम् ॥५॥

स दह्यमानः करुणमार्त्तोऽक्रोशत विस्वरम् ।
प्रसादयंश्च तं देवं पपात धरणीतले ॥६॥

अथ सोऽग्निपरीताङ्गो मन्मथो लोकतापनः ।
पपात सहसा मूर्च्छां क्षणेन समपद्यत ॥७॥

पत्नी तु करुणं तस्य विललाप सुदुःखिता ।
देवीं देवञ्च दुःखार्त्ता अयाचत् करुणावती ॥८॥

तस्याश्च करुणं ज्ञात्वा देवौ तौ करुणात्मकौ ।
ऊचतुस्तां समालोक्य समाश्वास्य च दुःखिताम् ॥९॥

उमामहेश्वरावूचतुः
दग्ध एव ध्रुवं भद्रे नास्योत्पत्तिरिहेष्यते ।
अशरीरोऽपि ते भद्रे कार्यं सर्वं करिष्यति ॥१०॥

यदा तु विष्णुर्भगवान् वसुदेवसुतः शुभे ।
तदा तस्य सुतो यश्च पतिस्ते सम्भविष्यति ॥११॥

ब्रह्मोवाच
ततः सा तु वरं लब्ध्वा कामपत्नी शुभाननाम ।
जगामेष्टं तदा देशं प्रीतियुक्ता गतक्लमा ॥१२॥

दग्ध्वा कामं ततो विप्राः स तु देवी वृषध्वजः ।
रेमे तत्रोमया सार्द्ध प्रहृष्टस्तु हिमाचले ॥१३॥

कन्दरेषु च रम्येषु पद्‌मिनीषु गुहासु च ।
निर्झरैषु च रम्येषु कर्णिकारवनेषु च ॥१४॥

नदीतीरेषु कान्तेषु किन्नराचरितेषु च ।
श्रृङ्गेषु शैलराजस्य तडागेषु सरःसु च ॥१५॥

वनराजिषु रम्यासु नानापक्षिरुतेषु च ।
तीर्थेषु पुण्यतोयेषु मुनीनामाश्रमेषु च ॥१६॥

एतेषु पुण्येषु मनोहरेषु, देशेषु विद्याधरभूषितेषु ।
गन्धर्वयक्षामरसेवितेषु, रेमे स देव्या सहितस्त्रिनेत्रः ॥१७॥

देवैः सहेन्द्रैर्मुनियक्षसिद्धैर्गन्धर्वविद्याधरदैत्यमुख्यैः ।
अन्यैश्च सर्वेर्विविधैर्वृतोऽसौ, तस्मिन्नगे हर्षमवाप शम्भुः ॥१८॥

नृत्यन्ति तत्राप्सरसः सुरेशा, गायन्ति गन्धर्वगणाः प्रहृष्टाः ।
दिव्यानि वाद्यान्यथ वादयन्ति, केचिद्‌द्रुतं देववरं स्तुवन्ति ॥१९॥

एवं स देवः स्वगणैरुपेतो, महाबलैः शक३यमाग्नितुल्यैः ।
देव्याः प्रियार्थं भगनेत्रहन्ता, गिरिं न तत्याज तदा महात्मा ॥२०॥

ऋषय ऊचुः
देव्या समं तु भगवांस्तिष्ठंस्तत्र स कामहा ।
अकरोत् किं महादेव एतदिच्छाम वेदितुम् ॥२१॥

ब्रह्मोवाच
भगवान् हिमवच्छृङ्गे स हि देव्याः प्रियेच्छया ।
गणेशैर्विविधाकारैर्हासं सञ्जनयन् मुहुः ॥२२॥

देवीं बालेन्दुतिलको रमयंश्च रराम च ।
महानुभावैः सर्वज्ञैः कामरूपधरैः शुभैः ॥२३॥

अथ देव्याससादैका मातरं परमेश्वरी ।
आसीनां काञ्चने शुभ्र आसने परमाद्‌भुते ॥२४॥

अथ दृष्ट्‌वा सतीं देवीमागतां सुररूपिणीम् ।
आसनेन महार्हेणासम्पादयदनिन्दिताम्॥
आसीनां तामथोवाच मेना हिमवतः प्रिया ॥२५॥

मेनोवाच
चिरस्यागमतं तेऽद्य वद पुत्रि शुभेक्षणे ।
दरिद्रा क्रीडनैस्त्वं हि भर्त्रा क्रीडसि सङ्गता ॥२६॥

ये दरिद्रा भवन्ति स्म तथैव च निराश्रयाः ।
उभे त एवं क्रीडन्ति यथा तव पतिः शुभे ॥२७॥

मेनोवाच
चिरस्यागमनं तेऽद्य वद पुत्रि शुभेक्षणे ।
दरिद्रा क्रीडनैस्त्वं हि भर्त्रा क्रीडसि सङ्गता ।
विसृष्टा च तदा मात्रा गत्वा देवमुवाच ह ॥२८॥

पार्वत्युवाच
भगवन् देवदेवेश नेह वत्स्यामि भूधरे ।
अन्यं कुरु ममाऽऽवासं भुवनेषु महाद्युते ॥२९॥

देव उवाच
सदा त्वमुच्यमाना वै मया वासार्थमीश्वरि ।
अन्यं न रोचितवती वासं वै देवि कर्हिचित् ॥३०॥

इदानीं स्वयमेव त्वं वासमन्यत्र शोभने ।
कस्मान्मृगयसे देवि ब्रूहि तन्मे शुचिस्मिते ॥३१॥

देव्युवाच
गृहं गताऽस्मि देवेश पुतुरद्य महात्मनः ।
दृष्ट्वा च तत्र मे माता विजने लोकभावने ॥३२॥

आसनादिबिरभ्यर्च्य सा मामेवमभाषत ।
उमे तव सदा भर्त्ता दरिद्रः क्रीडनैः शुभे ॥३३॥

क्रीडते न हि देवानां क्रीडा भवति तादृशी ।
यत् किल त्वं महादेव गणैश्च विविर्धस्तथा ।
रमसे तदनिष्टं हि मम मातुर्वृषध्वज ॥३४॥

ब्रह्मोवाच
ततो देवः प्रहस्याऽऽह देवीं हासयितुं प्रभुः ॥३५॥

देव उवाच
एवमेव सन्देहः कस्मान्मन्यु रभूत्तव ।
कृत्तिवासा ह्यवासाश्च श्मशाननिलयश्च ह ॥३६॥

अनिकेतो ह्यण्येषु पर्वतानां गुहासु च ।
विचरामि गणैर्नग्नैर्वृतोऽम्भोजविलोचने ॥३७॥

मा क्रुधो देवि मात्रे त्वं तथ्यं माताऽवदत्तव ।
न हि मातृसमो बन्धुर्जन्तूनामस्ति भूतले ॥३८॥

देव्युपाच
देव्युवाच
मेऽस्ति बन्धुभिः किञ्चित् कृत्यं सुरवरेश्वर ।
तथा कुरु महादेव यथाऽहं सुखमाप्नुयाम् ॥३९॥

ब्रह्मोवाच
श्रुत्वा स देव्या वचनं सुरेशस्तस्याः प्रियार्थे स्वगिरिं विहाय ।
जगाम मेरुं सुरसिद्धसेवितं, भार्य्यसहायः स्वगणैश्च युक्तः ॥४०॥

इति श्रीआदिब्राह्मे महापुराणे स्वयम्भुऋषिसंवाद उमा-महेश्वरयोर्हिमवत्परित्यागनिरूपणं नामाष्टात्रिंशोऽध्यायः॥ ३८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP