संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः २०१

ब्रह्मपुराणम् - अध्यायः २०१

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अनिरुद्धविवाहे रुक्मिवधनिरूपणम्
व्यास उवाच
चारुदेष्णं सुदेष्णं च चारुदेहं च शोभनम् ।
सुषेणं(विचारुं)चारुगुप्तं च भद्रचारुं तथाऽपरम् ॥१॥

चारुविन्दं(चन्द्रं)सुचारुं च चारुं च बलिनां वरम् ।
रुक्मिण्यजनयत्पुत्रान्कन्यां चारुमतीं तथा ॥२
अन्याश्च भार्याः कृष्णस्य बभूवुः सप्त शोभनाः ।
कालिन्दी मित्रविन्दा च सत्या नाग्नजिती तथा ॥३॥

देवी जाम्बवती चापि सदा तुष्टा तु रोहिणी ।
मद्रराजसुता चान्या शुशीला शीलमण्डला ॥४॥

सत्राजिती सत्यभामा लक्ष्मणा चारुहासिनी ।
षोडशात्र सहस्राणि स्त्रीणामन्यानि चक्रिणः ॥५॥

प्रद्युम्नोऽपि महावीर्यो रुक्मिणस्तनयां शुभाम् ।
स्वयंवरस्थां जग्राह साऽपि तं तनयं हरेः ॥६॥

तस्यामस्याभवत्पुत्रो महाबलपराक्रमः ।
अनिरुद्धो रणे रुद्धो वीर्योदधिररिंदमः ॥७॥

तस्यापि रुक्मिणः पौत्री वरयामास केशवः ।
दौहित्राय ददौ रुक्मी स्पर्धयन्नपि शौरिणा ॥८॥

तस्या विवाहे रामाद्या यादवा हरिणा सह ।
रुक्मिणो नगरं जग्मुर्नाम्ना भोजकटं द्विजाः ॥९॥

विवाहे तत्र निर्वृत्ते प्राद्युम्नेः सुमहात्मनः ।
कलिङ्गराजप्रमुखा रुक्मिणं वाक्यमब्रुवम् ॥१०॥

कलिङ्गादय ऊचुः
अनक्षज्ञो हली द्यूते तथाऽस्य व्यसनं महात् ।
तन्न(ज्ज)यामो बलं तस्माद्‌द्यूतेनैव महाद्युते ॥११॥

व्यास उवाच
तथेति तानाह नृपान्रक्मी बलसमन्वितः ।
सभायां सह रामेण चक्रे द्यूतं च वै तदा ॥१२॥

सहस्रमेकं निष्काणां रुक्मिणा विजितो बलः ।
द्वितीये दिवसे चान्यत्सहस्रं रुक्मिणा जितः ॥१३॥

ततो दश सहस्राणि निष्काणां पणमाददे ।
बलभद्रप्रपन्नानि रुक्मी द्युतविदां वरः ॥१४॥

ततो जहासाथ बलं कलिङ्गाधिपतिर्द्विजाः ।
दन्तान्विदर्शयन्मूढो रुक्मी चाऽऽह मदोद्धतः ॥१५॥

रुक्म्युवाच
अविद्योऽयं महाद्यूते बलभद्रः पराजितः ।
मृषैवाक्षावलोपत्वाद्योऽयं मेनेऽक्षकोविदम् ॥१६॥

दृष्ट्वा कलिङ्गराजं तु प्रकाशदशनाननम् ।
रुक्मिणं चापि दुर्वाक्यं कोपं चक्रे हलायुधः ॥१७॥

व्यास उवाच
ततः कोपपरीतात्मा निष्ककोटिं हलायुधः ।
ग्लहं जग्राह रुक्मी च ततस्त्वक्षानपातयत् ॥१८॥

अजयद्‌बलदेवोऽथ प्राहोच्चैस्तं जितं मया ।
ममेति रुक्मी प्राहोच्चैरलीकोक्तैरलं बलम् ॥१९॥

त्वयोक्तोऽयं ग्लहः सत्यं न ममैषोऽनुमोदितः ।
एवं त्वया चेद्विजितं न मया विजितं कथम् ॥२०॥

ततोऽन्तरिक्षे वागुच्चैः प्राह गम्भीरनादिनी ।
बलदेवस्य तं कोपं वर्धयन्ती महात्मनः ॥२१॥

आकाशवागुवाच
जितं तु बलदेवेन रुक्मिणा भाषितं मृषा ।
अनुक्त्वा वचनं किंचित्कृतं भवति कर्मणा ॥२२॥

व्यास उवाच
ततो बलः समुत्थाय क्रोधसंरक्तलोचनः ।
जघानाष्टापदेनैव रुक्मिणं स महाबलः ॥२३॥

कलिङ्राजं चाऽऽदाय विस्फुरन्तं बलाद्‌बलः ।
बभ़ञ्ज दन्तान्कुपितो यैः प्रकाशं जहास सः ॥२४॥

आकृष्य च महास्तम्भं जातरूपमयं बलः ।
जघान ये तत्पक्षास्तान्भूभृतः कुपितो बलः ॥२५॥

ततो हाहाकृतं सर्वं पलायनपरं द्विजाः ।
तद्राजमण्डलं सर्वं बभूव कुपिते बले ॥२६॥

बलेन निहतं श्रुत्वा रुक्मिणं मधुसूदनः ।
नोवाच वचनं किंचिद्रुक्मिणीबलयोर्भयात् ॥२७॥

ततोऽनिरुद्धामादाय कृतोद्वाहं द्विजोत्तमाः ।
द्वारकामाजगामाथ यदुचक्रं सकेशवम् ॥२८॥

इति श्रीमहापुराणे आदिब्राह्मेऽनिरुद्धविवाहे रुक्मिवधनिरूपणं नामैकाधिकद्विशततमोऽध्यायः ॥२०१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP