संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|ब्रह्मपुराणम्| अध्यायः २३६ ब्रह्मपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ ब्रह्मपुराणम् - अध्यायः २३६ ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे. Tags : brahmapuranpuranपुराणब्रह्मपुराणम्संस्कृत अध्यायः २३६ Translation - भाषांतर सांख्ययोगनिरूपणम्मुनय ऊचुःतव वक्त्राब्धिसंभूतममृतं वाङ्मयं मुने ।पिबतां नो द्विजश्रेष्ठ न नृप्तिरिह दृश्यते ॥१॥तस्माद्योगं मुने ब्रूहि विस्तरेण विमुक्तिदम् ।सांख्यं च द्विपदां श्रेष्ठ श्रोतुमिच्छामहे वयम् ॥२॥प्रज्ञावाञ्श्रोत्रियो यज्वा ख्यातः प्राज्ञोऽनसूयकः ।सत्यधर्ममतिर्ब्रह्मन्कथं ब्रह्माधिगच्छति ॥३॥तपसा ब्रह्मचर्येण सर्वत्यागेन मेधया ।सांख्ये वा यदि वा योग एतत्पृष्टो वदस्व नः ॥४॥मनसश्चेन्द्रियाणां च यथैकागय्रमवाप्यते ।येनोपायेन पुरुषस्तत्त्वं व्याख्यातुमर्हसि ॥५॥व्यास उवाचनान्यत्र ज्ञानतपसोर्नान्यत्रेन्द्रियनिग्रहात् ।नान्यत्र सर्वसंत्यागात्सिद्धिं विन्दति कश्चन ॥६॥महाभूतानि सर्वाणि पूर्वसृष्टिः स्वयंभुवः ।भूयिष्ठं प्राणभृद्ग्रामे निविष्टानि शरीरिषु ॥७॥भूमेर्देहो जलात्स्नेहो ज्योतिषश्चक्षुषी स्मृते ।प्राणापानाश्रयो वायुःकोष्ठाकाशं शरीरिणाम् ॥८॥क्रान्तौ विष्णुर्बले शक्रः कोष्ठेऽग्निर्भोक्तुमिच्छति ।कर्णयोः प्रदिशः श्रोत्रे जिह्वायां वाक्सरस्वती ॥९॥कर्णौ त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी ।दश तानीन्द्रियोक्तानि द्वाराण्याहारसिद्धये ॥१०॥शब्दस्पर्शौ तथा रूपं रसं गन्धं च पञ्चमम् ।इन्द्रियार्थान्पृथग्विद्यादिन्द्रियेभ्यस्तु नित्यदा ॥११॥इन्द्रियाणि मनो युङ्क्ते अवश्या(शा)निव राजिनः(लः) ।मनश्चापि सदा युङ्क्ते भूतात्मा हृदयाश्रितः ॥१२॥इन्द्रियाणां तथैवैषां सर्वेषामीश्वरं मनः ।नियमे च विसर्गे च भूतात्मा मनसस्तथा ॥१३॥इन्द्रियाणीन्द्रियार्थश्च स्वभावश्चेतना मनः ।प्राणापानौ च जीवश्च नित्यं देहेषु देहिनाम् ॥१४॥आश्रयो नास्ति सत्त्वस्य गुणशब्दो न चेतनाः ।सत्त्वं हि तेजः सृजति न गुणान्वै कथंचन ॥१५॥एवं सप्तदशं देहं वृतं षोडशभिर्गुणैः ।मनीषी मनसा विप्राः पश्यत्यात्मानमात्मनि ॥१६॥न ह्यं चक्षुषा दुश्यो न च सर्वैरपीन्द्रियैः ।मनसा तु प्रदीप्तेन महानात्मा प्रकशते ॥१७॥अशब्दस्पर्शरूपं तच्च(च्चा)रसागन्धमव्ययम् ।अशरीरं शरीरे स्वे निरीक्षेत निरिन्द्रियम् ॥१८॥अव्यक्तं सर्वदेहेषु मर्त्येषु परमार्चितम् ।योऽनुपश्यति स प्रेत्य कल्पते ब्रह्मभूयतः ॥१९॥विद्याविनयसंपन्नब्राह्मणे गवि हस्तिनि ।शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ॥२०॥स हि सर्वेषु भूतेषु जङ्गमेषु ध्रुवेषु च ।वसत्येको महानात्मा येन सर्वमिदं ततम् ॥२१॥सर्वभूतेषु चाऽऽत्मानं सर्वभूतानि चाऽऽत्मनि ।यदा पश्यति भूतात्मा ब्रह्म संपद्यते तदा ॥२२॥यावानात्मनि वेदाऽऽत्मा तावानात्मा परात्मनि ।य एवं सततं वेद सोऽमृतत्वाय कल्पते ॥२३॥सर्वभूतात्मभूतस्य सर्वभूतहितस्य च ।देवापि मार्गे मुह्यन्ति अपदस्य पदैषिणः ॥२४॥शकुन्तानामिवाऽऽकाशे मत्स्यानामिव चोदके ।यथा गतिर्न दृश्येन तथा ज्ञानविदां गतिः ॥२५॥कालः पचति भूतानि सर्वाण्येवाऽऽत्मनाऽऽत्मनि ।यस्मिस्तु पच्यते कालस्तन्न वेदेह कश्चन ॥२६॥न तदुर्ध्वं न तिर्यक्च नाधो न च पुनः पुनः ।न मध्ये प्रतिगृह्णीते नैव किंचिन्न कश्चन ॥२७॥सर्वे तत्स्था इमे लोका बाह्यमेषां न किंचन ।यद्यप्यग्रे समागच्छेद्यता बाणो गुणच्युतः ॥२८॥नैवान्तं कारणस्येयाद्यद्यपि स्यान्मनोजवः ।तस्मात्सूक्ष्मतरं नास्ति नास्ति स्थूलतरं तथा ॥२९॥सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ।सर्वतःश्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥३०॥तदेवाणोरणुतरं तन्महद्भ्यो महत्तरम् ।तदन्तः सर्वभूतानां ध्रुवं तिष्ठन्न दृश्यते ॥३१॥अक्षरं च क्षरं चैव द्वेधा भावोऽयमात्मनः ।क्षकः सर्वेषु भूतेषु दिव्यं त्वमृतमक्षरम् ॥३२॥नवद्वारं पुरं कृत्वा हंसो हि नियतो वशी ।ईदृशः सर्वभूतस्य स्थावरस्य चरस्य च ॥३३॥हानेनाभिविकल्पानां नराणां संचयेन च ।शरीराणामजस्याऽऽहुर्हंसत्वं पारदर्शिनः ॥३४॥हंसोक्तं च क्षरं चैव कूटस्थं यत्तदक्षरम् ।तद्विद्वानक्षरं प्राप्य जहाति प्राणजन्मनी ॥३५॥व्यास उवाचभवतां पृच्छतां विप्रा यथावदिह तत्त्वतः ।सांख्यं ज्ञानेन संयुक्तं तदेतत्कीर्तितं मया ॥३६॥योगकृत्यं तु भो विप्राः कीर्तयिष्याम्यतः परम् ।एकत्वं बुद्धिमनसोरिन्द्रियाणां च सर्वशः ॥३७॥आत्मनो व्यापिनो ज्ञानं ज्ञानमेतदत्तुमम् ।तदेतदुपशान्तेन दान्तेनाध्यात्मशीलिना ॥३८॥आत्मारामेण बुद्धेन बोद्धव्यं शुचिकर्मणा ।योगदोषान्समुच्छिद्य पञ्च यान्कवयो विदुः ॥३९॥कामं क्रोदं च लोभं च भयं स्वप्नं पञ्चमम् ।क्रोधं शमेन जयति कामं संकल्पवर्जनात् ॥४०॥सत्त्वसंसेवनाद्धीरो निद्रामुच्छेत्तुमर्हति ।धृत्या शिश्नोदरं रक्षेत्पाणिपादं च चक्षुषा ॥४१॥चक्षुः श्रोत्रं च मनसा मनो वाचं च कर्मणा ।अप्रमादाद्भयं जह्यद्दम्भं प्राज्ञोपसेवनात् ॥४२॥एवमेतान्योगदोषाञ्जयेन्नित्यमतन्द्रितः ।अग्नींश्च ब्राह्मणांश्चाथ देवताः प्रणमेत्सदा ॥४३॥वर्जयेदुद्धतां वाचं हिंसायुक्तां मनोनुगाम् ।ब्रह्मतेजोमयं शुक्रं यस्य सर्वमिदं जगत् ॥४४॥एतस्य भूतभूतस्य दृष्टं स्थावरजङ्गमम् ।ध्यायनमध्ययनं दानं सत्यं ह्रीरार्जवं क्षमा ॥४५॥शौचं चैवाऽऽत्मनः शुद्धिरिन्द्रयाणां च निग्रहः ।एतैर्विवर्घते तेजः पाप्मानं चापकर्षति ॥४६॥समः सर्वेषु भूतेषु लभ्यालभ्येन वर्तयन्धूतपाप्मा तु तेजस्वी लघ्वाहारो जितेन्द्रियः ॥४७॥तामत्रधौ वशे कृत्वा निषेवेद्ब्रह्मणः पदम् ।मनसश्चेन्द्रियाणां च कृत्वैकाग्रयं समाहितः ॥४८॥पूर्वरात्रे परार्धे च धारयेन्मन आत्मनः ।जन्तोः पञ्चेन्द्रियस्यास्य यद्येकं क्लिन्नमिन्द्रियम् ॥४९॥ततोऽस्य स्रवति प्रज्ञा गिरेः पादादिवोदकम् ।मनसः पूर्वमादद्यात्कूर्माणामिव मत्स्यहा ॥५०॥ततः श्रोत्रं ततश्चक्षुर्जिह्वा घ्राणं च योगवित् ।तत एतानि संयम्य मनसि स्थापयेद्यदि ॥५१॥तथैवापोह्य संकल्पान्मनो ह्यात्मनि धारयेत् ।पञ्चेन्द्रियाणि मनसि हृदि संस्थापयेद्यदि ॥५२॥यदैतान्यवतिष्ठन्ते मनः षष्ठानि चाऽऽत्मनि ।प्रसीदन्ति च संस्थायां तदा ब्रह्म प्रकाशते ॥५३॥विधूम इव दीप्तार्चिरागत्य इव दीप्तिमान् ।वैद्युतोऽग्निरिवाऽऽकाशे पश्यन्त्यात्मानमात्मनि ॥५४॥सर्व तत्र तु सर्वत्र व्यापकत्वाच्च दृश्यते ।तं पश्यन्ति महात्मानो ब्राह्मणा ये मनीषिणः ॥५५॥धृतिमन्तो महाप्राज्ञाः सर्वभूतहिते रताः ।एवं परिमितं कालमाचरन्संशितव्रतः ॥५६॥आसीनो हि रहस्येको गच्छेदक्षरसाम्यताम् ।प्रमोहो भ्रम आवर्तो घ्राणं श्रवणदर्शने ॥५७॥अद्भुतानि रसः स्पर्शः शीतोष्णमारुताकृतिः ।प्रतिभानुपसर्गाश्च प्रतिसंगृह्य योगतः ॥५८॥तांस्तत्त्वविदनादृत्य साम्येनैव निवर्तयेत् ।कुर्यात्परिचयं योगे त्रैलोक्ये नियतो मुनिः ॥५९॥गिरिश्रृङ्गे तथा चैत्ये वृक्षमूलेषु योजयेत् ।संनियम्येन्द्रियग्रामं कोष्ठे भाण्डमना इव ॥६०॥एकाग्रं चिन्तयेन्नित्यं योगान्नोद्विजते मनः ।येनोपयेन शक्येत नियन्तुं चञ्चलं मनः ॥६१॥तत्र युक्तो निषेवेत न चैव विचलेत्ततः ।शून्यागाराणि चैकाग्रो निवासार्थमुपक्रमेत् ॥६२॥नातिव्रजेत्परं वाचा कर्मणा मनसाऽपि वा ।उपेक्षको यथाहारो लब्धालब्धसमो भवेत् ॥६३॥यश्चैनमभिनन्देत यश्चैनमभिवादयेत् ।समस्तयोश्चाप्युभयोर्नाभिध्यायेच्छुभाशुभम् ॥६४॥न प्रहृष्येन लाभेषु नालाभेषु च चिन्तयेत् ।समः सर्वेषु भूतेषु सधर्मा मातरिश्वनः ॥६५॥एवं स्वस्थात्मनः साधोः सर्वत्र समदर्शिनः ।षण्मासान्नित्ययुक्तस्य शब्दब्रह्मभिवर्तते ॥६६॥वेदनार्तान्परान्दृष्ट्वा समलष्टाश्मकाञ्चनः ।एवं तु निरतो मार्गं विरमेन्न विमीहितः ॥६७॥अपि वर्णावकृष्टस्तु नारी वा धर्मकाङ्क्षिणी ।तावप्येतेन मार्गेण गच्छेतां परमां गतिम् ॥६८॥अजं पुराणमजरं सनातनं, यमिन्द्रियातिगमगोचरं द्विजाः ।अवेक्ष्य चेमां परमेष्ठिसाम्यतां, प्रयान्त्यनावृत्तिगतिं मनीषिणः ॥६९॥इति श्रीमहापुराणे आदिब्राह्मे व्यासर्षिसंवादे सांख्ययोगनिरूपणं नाम पञ्चत्रिंशदधिकद्विशततमोध्यायः ॥२३६॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP