संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्| अध्यायः ६० ब्रह्मपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ ब्रह्मपुराणम् - अध्यायः ६० ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे. Tags : brahmapuranpuranपुराणब्रह्मपुराणम्संस्कृत अध्यायः ६० Translation - भाषांतर अथ षष्टितमोऽध्यायःसमुद्रस्नानविधिवर्णनम्ब्रह्मोवाचश्वेतमाधवमालोक्य समीपे मत्स्यमाधवम् ।एकार्णवजले पूर्वं रोहितं रूपमास्थितम् ॥१॥वेदानां हरणार्थाय रसातलतले स्थितम् ।चिन्तयित्वा क्षितिं सम्यक्तस्मिन्स्थाने प्रतिष्ठितम् ॥२॥आद्यावतरणं रूपं माधवं मत्स्यरूपिणम् ।प्रणम्य प्रणतो भूत्वा सर्वदुःखाद्विमुच्यते ॥३॥प्रयाति परमं स्थानं यत्र देवो हरिः स्वयम् ।काले पुनरिहाऽऽयातो राजा स्यात्पृथिवीतले ॥४॥वत्समाधवमासाद्य दुराधर्षो भवेन्नरः ।दाता भोक्ता भवेद्यज्वा वैष्णवः सत्यसंगरः ॥५॥योगं प्राप्य हरेः पश्चात्ततो मोक्षमवाप्नुयात् ।मत्स्यमाधवमाहात्मयं मया संपरिकीर्तितम्॥यं दृष्ट्वा मुनिशार्दूलाः सर्वान्कामानवाप्नुयात् ॥६॥मुनय ऊचुःभगवञ्श्रोतुमिच्छामो मार्जनं वरुणालये ।क्रियते स्नानदानादि तस्याशेषफलं वद ॥७॥ब्रह्मोवाचश्रृणुध्वं मुनिशार्दूला मार्जनस्य यथाविधि ।भक्त्या तु तन्मना भूत्वा संप्राप्य पुण्यमुत्तमम् ॥८॥मार्कण्डेयह्रदे स्नानं पूर्वकाले प्रशस्यते ।चतुर्दश्यां विशेषेण सर्वपापप्रणाशनम् ॥९॥तद्वत्स्नानं समुद्रस्य सर्वकालं प्रशस्यते ।पौर्णमास्यां विशेषेण हयमेधफलं लभेत् ॥१०॥मार्कण्डेयं वटं कृष्णं रौहिणेयं महोदधिम् ।इन्द्रद्युम्नसरश्चैव पञ्चतीर्थोविधिः स्मृतः(?) ॥११॥पूर्णिमा ज्येष्ठमासस्य ज्येष्ठा ऋक्षं यदा भवेत् ।तदा गच्छेद्विशेषेण तीर्थराजं परं शुभम् ॥१२॥कायवाङ्मानसैः शुद्धस्तद्भावो नान्यमानसः ।सर्वद्वंद्वविनिर्मुक्तो वीतरागो विमत्सरः ॥१३॥कल्पवृक्षवटं रम्यं तत्र स्नात्वा जनार्दनम् ।प्रदक्षिणं प्रकुर्वीत त्रिवारं सुसमाहितः ॥१४॥यं दृष्ट्वा मुच्यते पापात्सप्तजन्मसमुद्भवात् ।पुण्यं चाऽऽप्नोति विपुलं गतिमिष्टां च भो द्विजाः ॥१५॥तस्य नामानि वक्ष्यामि प्रमाणं च युगे युगे ।यथासंख्यं च भो विप्राः कृतादिषु यथाक्रमम् ॥१६॥वटं वटेश्वरं कृष्णं पुराणपुरुषं द्विजाः ।वटस्यैतानि नामानि कीर्तितानि कृतादिषुः ॥१७॥योजनं पादहीनं च योजनार्धं तदर्धकम् ।प्रमाणं कल्पवृक्षस्य कृतादौ परिकीर्तितम् ॥१८॥यथोक्तेन तु मन्त्रेण नमस्कृत्वा तु तं वटम् ।दक्षिणाभिमुखो गच्छेद्धन्वन्तरशतत्रयम् ॥१९॥यत्रासौ दृश्यते विष्णुः स्वर्गद्वारं मनोरमम् ।सागराम्भः समाकृष्टं काष्ठं सर्वगुणान्वितम् ॥२०॥प्रणिपत्य ततस्तं भो परिपूज्य ततः पुनः ।मुच्यते सर्वरोगाद्यैस्तथा पापैर्ग्रहादिभिः ॥२१॥उग्रसेनं पुरा दृष्ट्वा स्रवर्गद्वारेण सागरम् ।गत्वाऽऽचम्य शुचिस्तत्र ध्यात्वा नारायणं परम् ॥२२॥न्यसेदष्टाक्षरं मन्त्रं पश्चाद्धस्तशरीरयोः ।ॐ नमो नारायणायेति यं वदन्ति मनीषिणः ॥२३॥किं कार्यं बहुभिमन्त्रर्मनोविभ्रमकारकैः ।ॐ नमो नारायणायेति मन्त्रः सर्वार्थसाधकः ॥२४॥आपो नरस्य सूनुत्वान्नारा इतीह कीर्तिताः ।विष्णोस्तास्त्वयनं पूर्वं तेन नारायणः स्मृतः ॥२५॥नारायणपरा वेदा नारायणपरा द्विजाः ।नारायणपरा यज्ञा नारायणपराः क्रियाः ॥२६॥नारायणपरा पृथ्वी नारायणपरं जलम् ।नारायणपरो वह्निर्नारायणपरं नभः ॥२७॥नारायणपरो वायुर्नारायणपरं मनः ।अहंकारश्च बुद्धिश्च उभे नारायणात्मके ॥२८॥भूतं भव्यं भविष्यं च यत्किंचिज्जीवसंज्ञितम् ।स्थूल सूक्ष्मं परं चैव सर्वं नारायणात्मकम् ॥२९॥शब्दाद्य विषयाः सर्वे श्रोत्रादीनीन्द्रियाणि च ।प्रकृतिः पुरुषश्चैव सर्वे नारायणात्मकाः ॥३०॥जले स्थले च पाताले स्वर्गलोकेऽम्बरे नगे ।अवष्टभ्य इदं सर्वमास्ते नारायणः प्रभुः ॥३१॥किं चात्र बहुनोक्तेन जगदेतच्चराचरम् ।ब्रह्मादिस्तम्बपर्यन्तं सर्वं नारायणात्मकम् ॥३२॥नारायणात्पर किंचिन्नेह पश्यामि भो द्विजाः ।तेन व्याप्तमिदं सर्वं दृश्यादृश्यं चराचरम् ॥३३॥आपो ह्यायतनं विष्णोः स च एवाम्भसां पतिः ।तस्मादप्सु स्मरेन्नित्यं नारायणमघापहम् ॥३४॥स्नानकाले विशेषेण चोपस्थाय जले शुचिः ।स्मरेन्नारायणं ध्यायेद्धस्ते काये च विन्यसेत् ॥३५॥ओंकारं च नकारं च अङ्गुष्ठे हस्तयोर्न्यसेत् ।शेषैर्हं(षान्ह)स्ततलं(ले)यावत्तर्जन्यादिषु विन्यसेत् ॥३६॥ओंकारं वामपादे तु नकारं दक्षिणे न्यसेत् ।मोकारं वामकट्यां तु नाकारं दक्षिणे न्यसेत् ॥३७॥राकारं नाभिदेशे तु यकारं वामबाहुके ।णाकारं दक्षिणे न्यस्य यकारं मूर्ध्नि विन्यसेत् ॥३८॥अधश्चोर्ध्वं च हृदये पार्श्वतः पृष्ठतोऽग्रतः ।ध्यात्वा नारायणं पश्चादारभेत्कवचं बुधः ॥३९॥पूर्वे मां पातु गोविन्दो दक्षिणे मधुसूदनः ।पश्चिमे श्रीधरो देवः केशवस्तु तथोत्तरे ॥४०॥पातु विष्णुस्तथाऽऽग्नेये नैर्ऋते माधवोऽव्ययः ।वायव्ये तु हृषीकेशस्तथेशाने च वामनः ॥४१॥भूतले पातु वाराहस्तथोर्ध्वं च त्रिविक्रमः ।कृत्वैवं कवचं पश्चादात्मानं चिन्तयेत्ततः ॥४२॥अहं नारायणो देवः शङ्खचक्रगदाधरः ।एवं ध्यात्वा तदाऽऽत्मानमिमं मन्त्रमुदीरयेत् ॥४३॥त्वमग्निर्द्विपदां नाथ रेतोधाः कामदीपनः ।प्रधानः सर्वभुतानां जीवानां प्रभुरव्ययः ॥४४॥अमृतस्यारणिस्त्वं हि देवयोनिरपां पते ।वृजिनं हर मे सर्वं तीर्थराज नमोऽस्तु ते ॥४५॥एवमुच्चार्य विधिवत्ततः स्नानं समाचरेत् ।अन्यथा भो द्विजश्रेष्ठाः स्नानं तत्र न शस्यते ॥४६॥कृत्वा तु वैदिकैर्मन्त्रैभिषेकं च मार्जनम् ।अन्तर्जले जपेत्पश्चात्त्रिरावृत्त्याऽघमर्षणम् ॥४७॥हयमेधो यथा विप्राः सर्वपापहरः क्रतुः ।तथाऽघमर्षणं चात्र सूक्तं सर्वाघनाशनम् ॥४८॥उत्तीर्य वाससी धौते निर्मले परिधाय वै ।प्राणानायम्य चाऽऽचम्य संध्यां चोपास्य भास्करम् ॥४९॥उपतिष्ठेत्ततश्चोर्ध्वं क्षिप्त्वा पुष्पजलाञ्जलिम् ।उपस्थायोर्ध्वबाहुश्च तल्लिङ्गैर्भास्करं ततः ॥५०॥गायत्रीं पावनीं देवीं जपेदष्टोत्तरं शतम् ।अन्यांश्च सौरमन्त्रांश्च जप्त्वा तिष्ठन्समाहितः ॥५१॥कृत्वा प्रदक्षिणं सूर्यं नमस्कृत्योपविश्य च ।स्वाध्यायं प्राङ्मुखः कृत्वा तर्पर्येद्दैवतान्यृषीन् ॥५२॥मनुष्यांश्च पितॄँश्चान्यान्नामगोत्रेण मन्त्रवित् ।तोयेन तिलमिश्रेण विधिवत्सुसमाहितः ॥५३॥तर्पणं देवतानां च पूर्वं कृत्वा समाहितः ।अधिकारी भवेत्पश्चात्पितॄणां तर्पणे द्विजः ॥५४॥श्राद्धे हवनकाले च पाणिनैकेन निर्वपेत् ।तर्पणे तूभयं कुर्यादेष एव विधिः सदा ॥५५॥अन्वारब्धेन सव्येन पाणिना दक्षिणेन तु ।तृप्यतामिति सिञ्चेत्तु नामगोत्रेण वाग्यतः ॥५६॥कायस्थैर्यस्तिलैर्मोहात्करोति पितृतर्पणम् ।तर्पितास्तेन पितरस्त्वङ्मांसरुधिरास्थिभिः ॥५७॥अङ्गस्थैर्न तिलैः कुर्याद्देवतापितृतर्पणम् ।रुधिरं तद्भवेत्तोयं प्रदाता किल्बिषी भवेत् ॥५८॥भूम्यां यद्दीयते तोयं दाता चैव जले स्थितः ।वृथा तन्मुनिशार्दूला नोपतिष्ठति कस्यचित् ॥५९॥स्थले स्थित्वा जले यस्तु प्रयच्छेदुदकं नरः ।पितॄणां नोपतिष्ठेत सलिलं तन्निरर्थकम् ॥६०॥उदके नोदकं कुर्यात्पितृभ्यश्च कदाचन ।उत्तीर्य तु शुचौ देशे कुर्यादुदकतपेणम् ॥६१॥नोदकेषु न पात्रेषु न क्रुद्धो नैकपाणिना ।नोपतिष्ठति तत्तोयं यद्भूम्यां न प्रदीयते ॥६२॥पितॄणामक्षयं स्थानं मही दत्ता मया द्विजाः ।तस्मात्तत्रैव दातव्यं पितृणां प्रीतिमिच्छता ॥६३॥भूमिपृष्ठे समुत्पन्ना भूम्यां चैव च संस्थिताः ।भूम्यां चैव लयं याता भूमौ दद्यात्ततो जलम् ॥६४॥आस्तीर्य च कुशान्साग्रांस्तानावाह्य स्वमन्त्रतः ।प्राचीनाग्रेषु वै देवान्याम्याग्रेषु तथा पितॄन् ॥६५॥इति श्रीमहापुराणे आदिब्राह्मे स्वयंभुऋषिसंवादे समुद्रस्नानविधिनिरूपणं नाम षष्टितमोऽध्यायः ॥६०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP