संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ८४

ब्रह्मपुराणम् - अध्यायः ८४

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अथ चतुरशीतितमोऽध्यायः
पैशाचतीर्थवर्णनम्
ब्रह्मोवाच
पैशाचं तीर्थमपरं पूजितं ब्रह्मवादिभिः ।
तस्य स्वरूपं वक्ष्यामि गौतम्या दक्षिणे तटे ॥१॥

गिरिर्ब्रह्मगिरेः पार्श्वे अञ्जनो नाम नारद ।
तस्मिञ्शैले मुनिवर शापभ्रष्टा वराप्सरा ॥२॥

अञ्जना नाम तत्राऽऽसीदुत्तमाङ्गेन वानरी ।
केसरी नाम तद्भर्ता अद्रिकेति तथाऽपरा ॥३॥

साऽपि केसरिणो भार्या शापभ्रष्टा वराप्सरा ।
उत्तमाङ्गेन मार्जारी साऽप्यास्तेऽञ्जनपर्वते ॥४॥

दक्षिणार्णवमभ्यागात्केसरी लोकविश्रुतः ।
एतस्मिन्नन्तरेऽगस्त्योऽञ्जनं पर्वतमभ्यगात् ॥५॥

अञ्जना चाद्रिका चैव अगस्त्यमृषिसत्तमम् ।
पूजयामासतुरुभे यथान्यायं यथासुखम् ॥६॥

ततः प्रसन्नो भगवानाहोभे व्रियतां वरः ।
ते आहतुरुभेऽगस्त्यं पुत्रौ देहि मुनीश्वर ॥७॥

सर्वेभ्यो बलिनौ श्रेष्ठौ सर्वलोकोपकारकौ ।
तथेत्युक्त्वा मुनिश्रेष्ठो जगामाऽऽशां स दक्षिणाम् ॥८॥

ततः कदाचित्ते काले अञ्जना चाद्रिका तथा ।
गीतं नृत्यं हास्यं च कुर्वत्यौ गिरिमूर्धनि ॥९॥

वायुश्च निर्ऋतिश्चापि ते दृष्ट्वा सस्मितौ सुरौ ॥
कामाक्रान्तधियौ चोभौ तदा सत्वरमीयतुः ॥१०॥

भार्ये भवेतामुभयोरावां देवौ वरप्रदौ ।
ते अप्यूटचतुरस्त्वेतद्रेमाते गिरिमूर्धनि ॥११॥

अञ्जनायां तथा वायोर्हनुमान्समजायत ।
अद्रिकायां च निर्ऋतेरद्रिर्नाम पिशाचराट् ॥१२॥

पुनस्ते आहतुरुभे पुत्रौ जातौ मुनेर्वरात् ।
आवयोर्विकृतं रूपमुत्तमाङ्गेन दूषितम् ॥१३॥

शापाच्छचीपतेस्तत्र युवामाज्ञातुर्महथः ।
ततः प्रोवाच भगवान्वायुश्च निर्ऋतिस्तथा ॥१४॥

गौतम्यां स्नानदानाभ्यां शापमोक्षो भविष्यति ।
इत्युक्त्वा तावुभौ प्रीतौ तत्रैवान्तरधीयताम् ॥१५॥

ततोऽञ्जनां समादाय अद्रिः पैशाचमूर्त्तिमान् ।
भ्रातुर्हनुमतः प्रीत्यौ स्नापयामास मातरम् ॥१६॥

तथैव हनुमान्गङ्गामादायाद्रिमतित्वरन् ।
मार्जाररूपिणीं नीत्वा गौतम्यास्तीरमाप्तवान् ॥१७॥

ततः प्रभृति तत्तीर्थं पैशाचं चाऽऽञ्जनं तथा ।
ब्रह्मणो गिरिमासाद्य सर्वकामप्रदं शुभम् ॥१८॥

योजनानां त्रिपञ्चाशन्मार्जारं पूर्वतो भवेत् ।
मार्जारसंज्ञितात्तस्माद्धनूमन्तं वृषाकपिम्(?) ॥१९॥

फेनासंगाममाख्यातं सर्वकामप्रदं शुभम् ।
तस्य स्वरूपं व्यष्टिश्च तत्रैव प्रोच्यते शुभा ॥२०॥

इति क्षीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये पैशाचतीर्थवर्णनं नाम चतुरशीतितमोऽध्यायः ॥८४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP