संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्| अध्यायः ४७ ब्रह्मपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ ब्रह्मपुराणम् - अध्यायः ४७ ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे. Tags : brahmapuranpuranपुराणब्रह्मपुराणम्संस्कृत अध्यायः ४७ Translation - भाषांतर इन्द्रद्युम्नस्य प्रासादकरणार्थं राज्ञमाह्वानम्ब्रह्मोवाचएवं स पृथिवीपालश्चिन्तयित्वा द्विजोत्तमाः ।प्रसादार्थं हरेस्तत्र प्रारम्भमकरोत्तदा ॥१॥आनाय्य गणकान्सर्वानाचार्याञ्छास्त्रपारगान् ।भूमिं संशोध्य यत्नेन राजा तु परयामुदा ॥२॥ब्राह्मणैर्ज्ञानसंपन्नैर्वेदशास्त्रार्थपारगैः ।अमात्यैर्मन्त्रिभिश्चैव वास्तुविद्याविशारदैः ॥३॥तैः सार्धं स समालोच्य सुमुहूर्ते शुभे दिने ।सुचन्द्रतारसंयोगे ग्रहानुकूल्यसंयुते ॥४॥जयमङ्गलशब्दैश्च नानावाद्यैर्मनोहरैः ।वेदाध्ययननिर्घोषैगीतैः सुमधुरस्वरैः ॥५॥पुष्पलाजाक्षतैर्गन्धैः पूर्णकुम्भैः सदीपकैः ।ददावर्घ्यं ततो राजा श्रद्धया सुमासितः ॥६॥दत्त्वैवमर्ध्यं विघिवदानाय्य स महीपतिः ।कलिङ्गाधिपतिं शूरमुत्कलाधिपतिं तथा॥कोशलाधिपतिं चैव तानुवाच तदा नृपः ॥७॥राजोवाचगच्छध्वं सहिताः सर्वे शिलार्थे सुसमाहिताः ।गृहीत्वा सिल्पिसुख्यांश्च शिलाकर्मविशारदान् ॥८॥विन्ध्याचलं सुविस्तीर्णं बहुकन्दरशोभितम् ।निरूप्य सर्वसानूनि च्छेदयित्वा शिलाः शुभाः॥संवाह्यन्तां च शकटैर्नौ काभिर्मा विलम्बथ ॥९॥ब्रह्मोवाचएवं गन्तुं समादिश्य तात्रृपान्स महीपतिः ।पुनरेवाब्रवीद्वाक्यं सामात्यान्स पुरोहितान् ॥१०॥राजोवाचगच्छन्तु दूताः सर्वत्र ममाऽऽज्ञां प्रवदन्तु वै ।यत्र तिष्ठन्ति राजानः पृथिव्यां तान्सुशीघ्रगाः ॥११॥हस्त्यश्वरथपादातैः सामात्यैः सपुरोहितैः ।गच्छत सहिताः सर्व इन्द्रद्युम्नस्य शासनात् ॥१२॥ब्रह्मोवाचएवं दूताः समाज्ञाता राज्ञा तेन महात्मना ।गत्वा तदा नृपानूचुर्वचनं तस्य भूपते ॥१३॥श्रुत्वा तु ते तथा सर्वे दूतानां वचनं नृपाः ।आजग्मुस्त्वरिताः सर्वे स्वसैन्यैः पिरवारिताः ॥१४॥ये नृपाः सर्वदिग्भागे ये च दक्षिणतः स्थइताः ।पश्चिमायां स्थिता ये च उत्तरापथसंस्थिताः ॥१५॥प्रत्यन्तवासिनो येऽपि ये च संनिधिवासिनः ।पार्वतीयाश्च ये केचित्तथा द्वीपनिवासिनः ॥१६॥प्रत्यन्तवासिनो येऽपि ये च संनिधिवासिनः ।पार्वतीयाश्च ये केचित्तथा द्वीपनिवासिनः ॥१७॥रथैर्नागैः पदातैश्च वाजिभिर्धनविस्तरैः ।संप्राप्ता बहुशो विप्राः श्रुत्वेन्द्रद्युम्नशासनम् ॥१८॥तानागतान्नृपान्दृष्ट्वा सामात्यान्सपुरोहितान् ।प्रोवाच राजा हृष्टात्मा कार्यमुद्दिश्च सादरम्॥राजोवाचश्रृणुध्वं नृपशार्दूला यथा किंचिद्ब्रवीम्यहम् ।अस्मिन्क्षेत्रवरे पुण्ये भुक्तिमुक्तिप्रदे शिवे ॥१९॥हयमेधं महाज्ञं प्रासादं चैव वैष्णवम् ।कथं शक्नोम्यहं कर्तुमिति चिन्ताकुलं मनः ॥२०॥भवद्भिः सुसहायैस्तु सर्वमेतत्करोम्यहम् ।यदि यूयं सहाया मे भवध्वं नृपसत्तमाः ॥२१॥ब्रह्मोवाचइत्येवं वदमानस्य राजराजस्य धीमतः ।सर्वे प्रमुदिता हृष्टा भूपास्ते तस्य शासनात् ॥२२॥ववृषुर्धनरत्नैश्च सुवर्णमणिमौक्तिकैः ।कम्बलाजिनरत्नैश्च राङ्कवास्तरणैः सुभैः ॥२३॥वज्रवैदूर्यमाणिक्यैः पद्मरागेन्द्रनीलकैः ।गजैरश्वैर्धनैस्चान्यै रथैश्चैव करेणुभिः ॥२४॥असंख्येयैर्बहुविधैर्द्रव्यैरुच्चावचैस्तथा ।शालिव्रीहियवैश्चैव माषमुद्गतिलैस्तथा ॥२५॥सिद्धार्थचमकैश्चैव गोधूमैर्मसूरादिभिः ।श्यामाकैर्मधुकैश्चैव नीवारैः सकुलत्थकैः ॥२६॥अन्यैश्च विविधैर्धान्यैर्ग्राम्यारण्यैः सहस्रशः ।बहुधान्यसहस्राणां तण्डुलानां च राशिभिः ॥२७॥गव्यस्य हविषः शतशोऽथ सहस्रशः ।तथाऽन्यैर्विविधैर्द्रव्यैर्भक्ष्यभोज्यानुलेपनैः ॥२८॥राजानः पूरयामासुर्यत्किंचिद्द्रव्यसंभवैः ।तान्दृष्ट्वा यज्ञसंभारान्सर्वसंपत्समन्वितान् ॥२९॥यज्ञकर्मविदो विप्रान्वेदवेदाङ्गपारगान् ।शास्त्रेषु निपुणान्दक्षान्कुशलान्सर्वकर्मसुः ॥३०॥ऋषोंश्चैव महार्षोंश्च देवर्षोश्चैव तापसान् ।ब्रह्मचारिगृहस्थांश्च वानप्रस्थान्यतींस्तथा ॥३१॥सदस्याञ्छास्त्रकुशलांस्तथाऽन्यान्पावकान्बहून् ।आचार्योपाध्यायवरान्स्वाध्यायतपसाऽन्वितान् ॥३२॥सदस्याञ्छास्त्रकुशलंस्तथाऽन्यान्पावकान्बहून् ।दृष्ट्वा तान्नृपतिः श्रीमानुवाचस्वंपुरोहितम् ॥३३॥राजोवाचततः प्रयान्तु विद्वांसो ब्रहामणा वेदपारगाः ।वाजिमेधार्थसिद्ध्यर्थं देशं पश्यन्तु यज्ञियम् ॥३४॥ब्रह्मोवाचयुक्तः स तथा चक्रे वचनं तस्य भूपतेः ।हृष्टः स मन्त्रिभिः सार्धं तदा राजपुरोहितः ॥३५॥ततो ययौ पुरोधाश्च प्राज्ञः स्थपतिभिः सह ।ब्राह्मणानग्रतः कृत्वा कुशलान्यज्ञकर्मणि ॥३६॥तं देशं धीवरग्राम सप्रतोलिविटङ्किनम् ।कारयामास विप्रोऽसौ यज्ञवाटं यथाविधिः ॥३७॥प्रासादशतसंबाधं मणिप्रवरशोभितम् ।इन्द्रसद्मनिभं रम्यं हेमरन्नविभूषितम् ॥३८॥स्तम्भान्कनकचित्रांश्च तोरणानि बृहन्ति च ।यज्ञायतनदेशेषु दत्त्वा शुद्धं च काञ्चनम् ॥३९॥अन्तःपुराणि राज्ञां च नानादेशनिवासिनाम् ।कारयामास धर्मात्मा तत्र तत्र यथाविधि ॥४०॥ब्राह्मणानं च वैश्यानां नानादेशसमीयुषाम् ।कारयामास विधिवच्छालास्तत्राप्यनेकश ॥४१॥प्रियार्थं तस्य नृपतेराययुर्नृपसत्तमाः ।रत्नान्यनेकान्यादाय स्त्रियश्चाऽऽययुस्त्सवे ॥४२॥तेषां निर्विशतां स्वेषु शिविरेषु महात्मनाम् ।नदतः सागरस्येव दिविस्पृगभवद्ध्वनिः ॥४३॥तेषामभ्यागतानां च स राजा मुनिसत्तमाः ।व्यादिदेशाऽऽयतनानि शय्याश्चाप्युपचारतः ॥४४॥भोजनानि विचित्राणि शालीक्षुयवगोरसैः ।उपेत्य नृपतिश्रेष्ठो व्यादिदेश स्वयं तदा ॥४५॥तथा तस्मिन्महायज्ञे बहवो ब्रह्मवादिनः ।ये च द्विजातिप्रवरास्तत्राऽऽसन्द्विजसत्तमाः ॥४६॥समाजग्मुः सशिष्यास्तान्प्रतिजग्राह पार्थिवः ।सर्वांश्च ताननुययौ यावदावसथानिति ॥४७॥स्वयमेव महातेजा दम्भं त्यक्त्वा नृपोत्तमः ।ततः कृत्वा स्वशिल्पं च शिल्पिनोऽन्ये च ये तदा ॥४८॥कृत्स्नं यज्ञविधिं राज्ञे तदा तस्मै न्यवेदयन् ।ततः श्रुत्वा नृपश्रेष्ठः कृतं सर्वमतन्द्रितः॥हृष्टरोमाऽभवद्राजा सह मन्त्रिभिरच्युतः ॥४९॥ब्रह्मोवाचतस्मिन्यज्ञे प्रवृत्ते तु वाग्ग्मिनो हेतुवादिभिः ।हेतुवादान्बहूनाहुः परस्परजिगीषवः ॥५०॥देवेन्द्रस्येव (?) विहितं राजसंहेन भो द्विजाः ।ददृशुस्तोरणान्यत्र शातकुम्भमयानि च ॥५१॥शय्यासनविकारांश्च सुबहूनत्नसंचयान् ।घटपात्रीकटाहानि कलशान्वर्धमानकान् ॥५२॥नहि कश्चिदसौवर्णमपश्यद्वसुधाधिपः ।यूपांश्च सास्त्रपठितान्दारवान्हेमभूषितान् ॥५३॥उपक्षिप्तान्यथाकालं विविवद्भूरिवर्चसः ।स्थलजा जलजा ये च पशवः केचन द्विजाः ॥५४॥सर्वानेव समानीतानपश्यंस्तत्र ते नृपाः ।गाश्चैव महिषीश्चैव तथा वृद्धस्त्रियोऽपि च ॥५५॥औदकानि च सत्त्वानि श्वापदानि वयांसि च ।जरायुजाण्डजातानि स्वेदजान्युद्भिदानि च ॥५६॥पर्वतान्युपधान्यानि भूतानि ददृशुश्च ते ।एवं प्रमुदितं सर्वं पशुतो धनधान्यतः ॥५७॥यज्ञवाटं नृपा दृष्ट्वा विस्मयं परमं गताः ।ब्राह्मणानां विशां चैव बहुमिष्टान्नमृद्धिमत् ॥५८॥पूर्णे शतसहस्रे तु विप्राणां तत्र भुञ्जताम् ।दुन्दुभिर्मेघनिर्घोषान्मुहुर्मुहुरथाकरोत् ॥५९॥विननादासकृच्चापि दिवसे दिवसे गते ।एवं स ववृधे यज्ञस्तस्य राज्ञस्तु धीमतः ॥६०॥अन्नस्य सुबहून्विप्रा उत्सर्गान्निर्गतोपमान् ।दधिकुल्याश्च ददुशुः पयसश्च ह्रदांस्तथा ॥६१॥जम्बूद्वीपो हि सकलो नानाजनपदैर्युतः ।द्विजाश्च तत्र दृश्यन्ते राज्ञस्तस्य महामखे ॥६२॥तत्र यानि सहस्राणि पुरुषाणां ततस्ततः ।गृहीत्वा भाजनं जम्मुर्बहूनि द्विजसत्तमाः ॥६३॥श्राविणश्चापि ते सर्वे सुमृष्टमणिकुण्डलाः ।पर्यवेषयन्द्विजातीञ्छतशोऽथ सहस्रशः ॥६४॥विविधान्यनुपानानि पुरुषा येऽनुयायिमः ।ते वै नृपोपभोज्यानि ब्राह्मणेभ्यो ददुः सह ॥६५॥समागतान्वेदविदो राज्ञश्च पृथिवीश्वरान् ।पूजां चक्रे तदा तेषां विधिवद्भूरिदक्षिणः ॥६६॥दिग्देशादागतान्राज्ञो महासङ्ग्रामशालिनः ।नटनर्तककादींश्च गीतस्तुतिविशारदान् ॥६७॥पत्न्यो मनोरमास्तस्य पीनोन्नतपयोधराः ।इन्दीवरपलाशाक्ष्यः शरच्चन्द्रनिभाननाः ॥६८॥कुलशीलगुणोपेताः सहस्रैकं शताधिकम् ।एवं तद्बूपपरमपत्नीगणसमन्वितम् ॥६९॥रत्नमालाकुलं दिव्यं पताकाध्वजसेवितम् ।रत्नहारयुतं रम्यं चन्द्रकान्तिसमप्रभम् ॥७०॥करिणः पर्वताकारान्मदसिक्तान्महाबलान् ।शतशः कोटिसंघातैर्दन्तिभिर्दन्तभूषणैः ॥७१॥वातवेगजवैरश्वैः सिन्धुजातैः सुशोभनैः ।श्वेताश्वैः श्यामकर्णैश्च कोट्यनेकैर्जवन्वितैः ॥७२॥संनद्धबद्धकक्षैश्च नानाप्रहरणोद्यतैः ।असंख्येयैः पदाश्तैश्च देवपुत्रोपमैस्तथा ॥७३॥इत्येवं ददृशे राजा यज्ञसंभारविस्तरम् ।मुदं लेभे तदा राजा संहृष्टो वाक्यमब्रवीत् ॥७४॥राजोवाचआनयध्वं हयश्रेष्ठं सर्वलक्षणक्षितम् ।चारयध्वं पृथिव्यां वै राजपुत्राः सुंसंयताः ॥७५॥विद्वद्भिर्धर्मविद्भिश्च अत्र होमो विधीयताम् ।कृष्णच्छागं च महिषं कृष्णसारमृगं द्विजान् ॥७६॥अनड्वाहं च गाश्चैव सर्वांश्च पशुपालकान् ।इष्टयश्च प्रवर्तन्तां प्रासादं वैष्णवं ततः ॥७७॥सर्वमेतच्च विप्रेभ्यो दीयतां मनसेप्सितम् ।स्त्रियश्च रत्नकोट्यश्च ग्रामाश्च नगराणि च ॥७८॥सम्यकसमृद्धभूम्यश्च विषयाश्चैवमर्थिनाम् ।अन्यानि द्रव्यजातानि मनोज्ञानि बहूनि च ॥७९॥सर्वेषां याचमानानां नास्ति ह्येतन्न भाषयेत् ।तावत्प्रवर्ततां यज्ञो यावद्देवः पुरा त्विह॥प्रत्यक्षं मम चाभ्येति यज्ञस्थास्य समीपतः ॥८०॥एवमुक्त्वा तदा विप्रा राजसिंहो महाभुजः ।ददौ सुवर्मसंघातं कोटीनां चैव भूषणम् ॥८१॥करेणुशतसाहस्रं वाजिनो नियुतानि च ।अर्बुदं चैव वृषभं स्वर्णश्रृङ्गीश्च धेनुकाः ॥८२॥सुरूपाः सुरभीश्चैव कांस्यदोहाः पयस्विनीः ।प्रायच्छत्स तु विप्रेभ्यो वेदविद्भयो मुदा युतः ॥८३॥वासांसि च महार्हाणि राङ्कवास्तराणानिः ।सुशुक्लानि च शुभ्राणि प्रवालमणिमुत्तमम् ॥८४॥अददात्स महायज्ञे रत्नानि विविधानि च ॥८५॥वज्रवैदूर्यमाणिक्यमुक्तिकाद्यानि यानि च ।अलंकारवतीः शुभ्राः कन्या राजीवलोचनाः ॥८६॥शतानि पञ्च विप्रेभ्योराजा हृष्टः प्रदत्तवान् ।स्त्रियः पीनपयोभाराः कञ्चुकैः स्वस्तनावृताः ॥८७॥मध्यहीनाश्च सुश्रोण्यः पद्मपत्रायतेक्षणाः ।हावबावान्वितग्रीवा बह्व्यो वलयभीषिताः ॥८८॥यादनूपुरसंयुक्ताः पट्टदुकूलवाससः ।एकैकशोऽददात्तस्मिन्काम्याश्च कामिनीर्बहूः ॥८९॥अर्थिब्यो ब्राह्मणादिब्यो हयमेधे द्विजोत्तमाः ।भक्ष्यं भोज्यं च संपूर्णं नानासंभारसंयुतम् ॥९०॥खण्डकाद्यान्यनेकानि स्विन्नपक्वांश्च पिष्टकान् ।अन्नान्यन्यानि मेध्यांश्च घृतपूरांश्चखाण्डवान् ॥९१॥मधुरांस्तर्जितान्पूपानन्नं मृष्टं सुपाकिकम् ।प्रीत्यर्थं सर्वसत्त्वानां दीयतेऽन्नं पुनः पुनः ॥९२॥दत्तस्य दीयमानस्य धनस्यान्तो न विद्यते ।एवं दृष्ट्वा महायज्ञं देवदैत्याः सवा (चा) रणाः ॥९३॥गन्धर्वाप्सलसः सिद्धा ऋषयश्च प्रजेश्वराः ।विस्मयं परमं याता दृष्ट्वा क्रतुवरं शुभम् ॥९४॥पुरोधा मन्त्रिणो राजा हृष्टास्तत्रैव सर्वशः ।न तत्र मलिनः कश्चिन्न दीनो न क्षुधाऽन्वितः ॥९५॥न वोपसर्गो नग्लानिर्नाऽऽधयो व्याधयस्तथा ।नाकालमरणं तत्र न दंशो न ग्रहा विषम् ॥९६॥हष्टपुष्टजनाः सर्वे तस्मिन्रज्ञो महोत्सवे ।ये च तत्र तपःसिद्धा मुनयश्चिरजीविनः ॥९७॥न जातं तादृशं यज्ञं धनधान्यसमनवितम् ।एवं स राजा विधिवद्वाजिमेधं द्विजोत्तमाः ।क्रतुं समापयामास प्रासादं वैष्णवं तथा ॥९८॥इति श्रीमहापुराम आदिब्राह्मे स्वयंभ्वृषिसंवादे प्रासादकरणं नाम सप्तचत्वारिंशोऽध्यायः॥ ४७॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP