संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १०७

ब्रह्मपुराणम् - अध्यायः १०७

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अथ सप्ताधिकशततमोऽध्यायः
वृद्धासंगमतीर्थवर्णनम्
ब्रह्मोवाच
वृद्धासंगममाख्यातं यत्र वृद्धेश्वरः शिवः ।
तस्याऽऽख्यानं प्रवक्ष्यामि श्रृणु पापप्रणाशनम् ॥१॥

गौतमो वृद्ध इत्युक्तो मुनिरासीन्महातपाः ।
यदा पुराऽभवद्बालो गौतमस्य सुतो द्विजः ॥२॥

अनासः स पुरोत्पन्नस्तस्माद्विकृतरूपधृक् ।
स वैराग्याज्जगामाथ देशं तीर्थमितस्ततः ॥३॥

उपाध्यायेन नैवाऽऽसील्लज्जितस्य समागमः ।
शिष्यैरन्तयैः सहाध्यायो लज्जितस्य च नाभवत् ॥४॥

उपनीतः कथंचिच्च पित्रा वै गौतमेन सः ।
एतावता गौतमोऽपि व्यगमच्चरितुं बहिः ॥५॥

एवं बहुतिथे काले ब्रह्ममात्रा धृते द्विजे ।
नैव चाध्ययनं तस्य संजातं गौतमस्य हि ॥६॥

नैव शास्त्रस्य चाभ्यासो गौतमस्याभवत्तदा ।
अग्निकार्यं ततश्चक्रे नित्यमेव यतव्रतः ॥७॥

गायत्र्यभ्यासमात्रेण ब्राह्मणो नामधारकः ।
अग्न्युपासनामात्रं च गायत्र्यभ्यसनं तथा ॥८॥

एतावता ब्राह्मणत्वं गौतमस्याभवन्मुने ।
उपासतोऽग्निं विधिवद्गायत्रीं च महात्मनः ॥९॥

तस्याऽऽयुर्ववृधे पुत्र गौतमस्य चिरायुषः ।
न दारसंग्रहं लेभे नैव दाताऽस्ति कन्यकाम् ॥१०॥

तथा चरंस्तीर्थदेशे वनेषु विविधेषु च ।
आश्रमेषु च पुण्येषु अटन्नास्ते स गौतमः ॥११॥

एवं भ्रमञ्शीतगिरिमाश्रित्याऽऽस्ते स गौतमः ।
तत्रापश्यद्गुहां रम्यां वल्लीविटपमालिनीम् ॥१२॥

तत्रोपविस्य विप्रेन्द्रो वस्तुं समकरोन्मतिम् ।
चिन्तयंस्तु प्रविष्टोऽसावपश्यत्स्त्रियमुत्तमाम् ॥१३ ॥

शिथिलाङ्गीमथ कृशां वृद्धां च तपसि स्थिताम् ।
ब्रह्मचर्येण वर्तन्तीं विरागां रहसि स्थिताम् ॥१४॥

स तां दृष्ट्वा मुनिश्रेष्ठो नमस्काराय तस्थिवान् ।
नमस्यन्तं मुनिश्रेष्ठं तं गौतममवारयत् ॥१५॥

वृद्धोवाच
गुरुस्त्वं भविता मह्यं न मां वन्दितुमर्हसि ।
आयुर्विद्या धनं कीर्तिर्धर्मः स्वर्गादिकं च यत् ॥
तस्य नश्यति वै सर्वं यं नमस्यति वै गुरुः ॥१६॥

ब्रह्मोवाच
कृताञ्जलिपुटस्तां वै गौतमः प्राह विस्मितः ॥१७॥

गौतम उवाच
तपस्विनीं त्वं वृद्धा च गुणज्येष्ठा च भामिनी ।
अल्पव्द्यस्त्वल्पवया अहं तव गुरुः कथम् ॥१८॥

वृद्धोवाच
आष्टिषेणप्रियपुत्र ऋतध्वज इति श्रुतः ।
गुणवान्मतिमाञ्शूरः क्षत्रधर्मपरायणः ॥१९॥

स कदाचिद्वनं प्रायान्मृगयाकृष्टचेतनः ।
विश्राममकरोदस्यां गुहायां स ऋतध्वजः ॥२०॥

युवा स मतिमान्दक्षो बलेन महता वृतः ।
तं विश्रान्तं नृपवरमप्सरा ददृशे ततः ॥२१॥

गन्धर्वराजस्य सुता सुश्यामा इति विश्रुता ।
तां दृष्ट्वा चकमे राजा राजानं चकमे च सा ॥२२॥

इति क्रिडा समभवत्तया राज्ञो महामते ।
निवृत्तकामो राजेन्द्रस्तमापृच्छ्याऽऽगमद्गृहम् ॥२३॥

उत्पन्नाहं ततस्तस्यां सुश्यामायां महामते ।
गच्छन्ती मां तदा माता इदमाह तपोधन ॥२४॥

सुश्यामोवाच
यस्त्वस्यां प्रविशेद्भद्रे स ते भर्ता भविष्यति ॥२५॥

वृद्धोवाच
इत्युक्त्वा सा जगामाथ माता मम महामते ।
तस्मादत्र प्रविष्टस्त्वं पुमान्नान्यः कदाचन ॥२६॥

सहस्त्राणि तथाऽशीतिं कृत्वा राज्यं पिता मम ।
अत्रैव च तपस्तप्त्वा ततः स्वर्गमुपेयिवान् ॥२७॥

स्वर्गं यातेऽपि पितरि सहस्राणि तथा दश ।
वर्षाणि मुनिशार्दूल राज्यं कृत्वा तथा परः ॥२८॥

स्वर्गं यातो मम भ्राता अहमत्रैव संस्थिता ।
अहं ब्रह्मन्नान्यवृत्ता न माता न पिता मम ॥२९॥

अहमात्मेश्वरी ब्रह्मन्निविष्टा क्षत्रकन्यका ।
तस्माद्भजस्व मां ब्रह्मन्व्रतस्थां पुरुषार्थिनीम् ॥३०॥

गौतम उवाच
सहस्रायुरहं भद्रे मत्तस्त्वं वयसाऽधिका ।
अहं बालस्त्वं तु वृद्धा नैवायं घटते मिथः ॥३१॥

वृद्धोवाच
त्वं भर्ता मे पुरा दिष्टो नान्यो भर्ता मतो मम ।
धात्रा दत्तस्ततस्त्वं मां न निराकर्तुमर्हसि ॥३२॥

अथवा नेच्छसि मां त्वमप्रदुष्टामनुव्रताम् ।
ततस्त्यक्ष्यामि जीवं मे इदानीं तव पश्यतः ॥३३॥

अपेक्षिताप्राप्तितो हि देहिनां मरणं वरम् ।
अनुराक्तजनत्यागे पातकान्तो न विद्यते ॥३४॥

ब्रह्मोवाच
वृद्धायास्तद्वचः श्रुत्वा गौतमो वाक्यमब्रवीत् ॥३५॥

गौतम उवाच
अहं तपोविरहितो विद्याहीनो ह्यकिंचनः ।
नाहं वरो हि योग्यस्ते कुरूपो भोगवर्जितः ॥३६॥

अनासोऽहं किं करोमि अतपोविद्य एव च ।
तस्मात्सुरूपं सुविद्यामापद्या प्रथमं शुभे ॥
पश्चात्ते वचनं कार्यं ततो वृद्धाऽब्रवीद्द्विजम् ॥३७॥

वृद्धोवाच
मया सरस्वती देवी तोषिता तपसा द्विज ।
तथैवाऽऽपो रूपवत्यो रूपदाताऽग्निरेव च ॥३८॥

तस्माद्वागीश्वरी देवी सा ते विद्यां प्रदास्यति ।
अग्निश्च रूपवान्देवस्तव रूपं प्रदास्यति ॥३९॥

ब्रह्मोवाच
एवमुक्त्व गौतमं तं वृद्धोवाच विभावसुम् ।
प्रार्थयित्वा सुविद्यं तं सुरूप चाकरोन्मुनिम् ॥४०॥

ततः सुविद्यः सुभगः सुकान्तो, वृद्धां स पत्नीमरोत्प्रीतियुक्तः ।
तया स रेमे बहुला मनोज्ञया समाः सुखं प्रीतमना गुहायाम् ॥४१॥

कदाचित्तत्र वसतोर्म्पत्योर्मुदतोर्गिरौ ।
गुहायां मुनिशार्दूल आजग्मुर्मुनयोऽमलाः ॥४२॥

वसिष्ठवामदेवाद्या ये चान्ये च महर्षयः ।
भ्रमन्तः पुण्यतीर्थानि प्राप्नुवंस्तस्य तां गुहाम् ॥४३॥

आगतांस्तानृषीञ्ज्ञात्वा गौतम् सह भार्यया ।
सत्कारमकरोत्तेषां जहसुस्तं च केचन ॥४४॥

ये बाला यौवनोन्मत्ता वयसा ये च मध्यमाः ।
वृद्धां च गौतमं प्रेक्ष्य जहसुस्तत्र केचन ॥४५॥

ऋषय ऊचुः
पुत्रोऽप्यं तव पौत्रो वा वृद्धे को गौतमोऽभवत् ।
सत्यं दवस्व कल्याणि इत्येवं जहसुर्द्विजाः ॥४६॥

विषं वृद्धाया युवती वृद्धाया अमृतं युवा ।
इष्टानिष्टसमायोगो दृष्टोऽस्माभिरहो चिरात् ॥४७॥

ब्रह्मोवाच
इत्येवमूचिरे केचिद्दंपत्योः श्रृण्वतोस्तदा ।
एवमुक्त्वा कृतातिथ्या ययुः सर्वे महर्षयः ॥४८॥

ऋषीणां वचनं श्रुत्वा उभावपि सुदुःखितौ ।
लज्जितौ च महाप्राज्ञौ गौतमो भार्यया सह ॥
पप्रच्छ मुनिशार्दूलमगस्तयमृषिसत्तमम् ॥४९॥

गौतम उवाच
को देशः किमु तीर्थं वा यत्र श्रेयः समाप्यते ।
शीघ्रमेव महाप्राज्ञ भुक्तिमुक्तिप्रदायकम् ॥५०॥

अगस्त्य उवाच
वदद्भिर्मुनिभिर्ब्रह्मन्मया श्रुतमिदं वचः ।
सर्वे कामास्तत्र पूर्णा गौतम्यो नात्र संशयः ॥५१॥

तस्माद्गच्छ महाबुद्धे गौतमीं पापनाशिनीम् ।
अहं त्वामनुयास्यामि यथेच्छसि तथा कुरु ॥५२॥

ब्रह्मोवाच
एतच्छ्रुत्वाऽगस्त्यवाक्यं वृद्धया गौतमोऽभ्यगात् ।
तत्र तेपे तपस्तीव्रं पत्न्या स भगवानृषिः ॥५३॥

स्तुतिं चकार देवस्य शंभोर्विष्णोस्थैव च ।
गङ्गां च तोषयामास भार्यार्थं भगवानृषिः ॥५४॥

खिन्नात्मनामत्र भवे त्वमेव शरणं शिवः ।
मरुभूमावध्वगानां विटपीव प्रियायुतः ॥५५॥

उच्चावचानां भूतानां सर्वथा पापनोदनः ।
सस्यानां घनवृत्कृष्णा त्वमवग्राहशोषिणाम् ॥५६॥

वैकुण्ठदुर्गनिःश्रेणिस्त्वं पीयूषतरङ्गिणी ।
अधोगतानां तप्तानां शरणं भव गौतमि ॥५७॥

ब्रह्मोवाच
ततस्तुष्टाऽवदद्वाक्यं गौतमं वृद्धया युतम् ।
शरणागतदीनार्थं शरण्या गौतमी मुदा ॥५८॥

गौतम्युवाच
अभिषिञ्चस्व भार्यां त्वं मज्जलौर्मन्त्रसंयुतैः ।
कलशैरुपचारैश्च ततः पत्नी तव प्रिया ॥५९॥

सुरूपा चारुसर्वाङ्गी सुभगा चारुलोचना ।
सर्वलक्षणसंपूर्णा रम्यरूपमवाप्स्यति ॥६०॥

रूपवत्या पुनस्त्वं वै भार्यया चाभिषेचितः ।
सर्वलक्षणसंपूर्णः कान्तं रूपमवाप्स्यसि ॥६१॥

ब्रह्मोवाच
तथेति गाङ्गवचनाद्यथोक्तं तौ च चक्रतुः ।
सुरूपतामुभौ प्राप्तौ गौतम्याश्च प्रसादतः ॥६२॥

अभिषेकोदकं यच्च सा नदी समजायत ।
तस्या नाम्ना तु विख्याता वृद्धाया मुनिसत्तम ॥६३॥

वृद्धा नदीति विख्याता गौतमोऽपि तथोच्यते ।
वृद्धगौतम् इत्युक्त ऋषिभिः समवासिभिः ॥
वृद्धा तु गौतमीं प्राह गङ्गां प्रत्यक्षरूपिणीम् ॥६४॥

वृद्धोवाच
मन्नाम्नीयं नदी देवि वृद्धा चेत्यभिधीयताम् ।
त्वया च संगमस्तस्यास्तस्यास्तीर्थमनुत्तमम् ॥६५॥

रूपसौभाग्यसंपत्तिपुत्रपौत्रप्रवर्धनम् ।
आयुरारोग्यकल्याणं जयप्रीतिविवर्धनम् ॥
स्नानदानादिहोमैश्च पितॄणां पावनं परम् ॥६६॥

ब्रह्मोवाच
अस्त्वित्याह च तां गङ्गां सुवृद्धां गौतमप्रियाम् ।
गौतमस्थापितं लिङ्गं वृद्धानाम्नैव कीर्तितम् ॥६७॥

तत्रैव च मुदं प्राप्तो वृद्धया मुनिसत्तमः ।
तत्र स्नानं च दानं च सर्वाभीष्टप्रदायकम् ॥६८॥

ततः प्रभृति तत्तीर्थं वृद्धासंगममुच्यते ॥६९॥

इति श्रीमहापुराणे आदिब्राह्मो तीर्थमाहात्म्ये वृद्धासंगमाद्युभयतटसप्तदशतीर्थवर्णनं नाम सप्ताधिकशततमोऽध्यायः ॥१०७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP