संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ३६

ब्रह्मपुराणम् - अध्यायः ३६

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


पार्वतीस्वयंवर-वर्णनम्
ब्रह्मोवाच
विस्तृते हिमवत्पृष्ठे विमानशतसङ्कुले ।
अभवत् स तु कालेन शैलपुत्र्याः स्वायंवरः ॥१॥

अथ पर्व्वतराजोऽसौ हिमवान् ध्यानकोविदः ।
दुहितुर्देवदेवेन ज्ञात्वा तदभिमन्त्रितम् ॥२॥

जानन्नपि महाशैलः समयारक्षणेप्सया ।
स्वयंवरं ततो देव्याः सर्व्वलोकेष्वघाषयत् ॥३॥

देवदानवसिद्धानां सर्व्वलोकनिवासिनाम् ।
वृणुयात् परमेशानं समक्षं यदि मे मे सुता ॥४॥

तदेव सुकृतं श्लाघ्यं ममाभ्युदयसम्मतम् ।
इति सञ्चिन्त्य शैलेन्द्रः कृत्वा हृदि महेश्वरम् ॥५॥

आब्रह्मकेषु देवेषु देव्याः शैलेन्द्रसत्तमः ।
कृत्वा रत्नाकुलं देशं स्वयंवरमचीकरत् ॥६॥

अथैवमाघोषितमात्र एव, स्वयंवरे तत्र नगेन्द्रपुत्र्याः ।
देवादयः सर्वजगन्निवासाः, समाययुस्तत्र गृहीतवेशाः ॥७॥

प्रफुल्लपद्‌मासनसन्निविष्टः, सिद्धैर्वृतो योगिभिरप्रमेयैः ।
विज्ञापितस्तेन महीध्रराज्ञाऽऽगतस्तदाऽहं त्रिदिवैरुपेतः ॥८॥

अक्ष्णां सहस्रं सुरराट् स बिभ्रद् दिव्याङ्गहारस्रगुदाररूपः ।
ऐरावतं सर्व्वगजेन्द्रमुख्यं, स्रवन्मदासारकृतप्रवाहम् ॥९॥

आरुह्य सर्व्वामरराट् स वज्रं बिभ्रत् समागात् पुरतः सुराणाम् ।
तेजःप्रभावाधिकतुल्यरूपी, प्रोद्‌भासयन् सर्व्वदिशो विवस्वान् ॥१०॥

हैमं विमानं स बलत्पताकमारूढ आगात्त्वारितं जवेन ।
मणिप्रदीप्तोज्ज्वलकुण्डलश्च बह्न्यर्कतेजःप्रतिमे विमाने ॥११॥

समभ्यगात् कश्यपसूनुरेक, आदित्यमध्याद्‌भगनामधारी ।
पीनाङ्गयष्टिः सुकृताङ्गहारतेजोबलाज्ञासदृशप्रभावः ॥१२॥

दण्डं समागृहय् कृतान्त आगादारुह्य भीमं महिषं जवेन ।
महामहीध्रोच्छ्रायपीनगात्रःस्वर्णादिरत्नाञ्चितचारुवेशः ॥१३॥

समीरणः सर्व्वजगद्विभर्त्ता, विमानमारुह्य समभ्यगाद्वि ।
संतापयन् सर्व्वसुरासुरेशांस्तेजोधिकस्तेजसि सन्निविष्टः ॥१४॥

वह्निः समभ्येत्य सुरेन्द्रमध्ये, ज्वलन् प्रतास्थौ वरवेशधारी ।
नानामणिप्रज्वलिताङ्गयष्टिर्जगद्‌वरं दिव्यविमानमग्य्रम् ॥१५॥

आरुह्य सर्वद्रविणाधिपेशः, स राजराजस्त्वरितोऽभ्यगाच्च ।
आप्याययन् सर्व्वसुरासुरेशान्, कान्त्या च वेशेन च चारुरूपः ॥१६॥

ज्वलन्महारत्नविचित्ररूपं, विमानमारुह्य शशी समायात् ।
श्यामाङ्गयष्टिः सुविचित्रवेशः, सर्व्वाङ्ग आबद्धसुगन्धिमाल्यः ॥१७॥

तार्क्ष्यं समारुह्य महीध्रकल्पं, गदाधरोऽसौ त्वरितः समेतः ।
अथाश्विनौ चापि भिषग्वरौ द्वावेकं विमानं त्वयाऽधिरुह्य ॥१८॥

मनोहरौ प्रज्वलचारुवेशौष आजग्मतुर्देववरौ सुवीरौ ।
सहस्रनागः श्फुरदग्निवर्ण, बिभ्रत्तदानीं ज्वलनार्कतेजाः ॥१९॥

सार्द्ध स नागैरपरैर्महात्मा, विमानमारुह्य समभ्यगाच्च ।
दितेः सुतानाञ्च महासुराणां, बह्न्यर्कशक्रानिलतुल्यभासाम् ॥२०॥

वरानुरूपं प्रविधाय वेशं, वृन्दं समागात् पुरतः सुराणाम् ।
गन्धर्व्वराजः स च चारुरूपी, दिव्याङ्गदो दिव्यविमानचारी ॥२१॥

गन्धर्व्वसङ्घैः सहितोऽप्सरोभिः, शक्राज्ञया तत्र समाजगाम ।
अन्ये च देवास्त्रिदिवात्तदानों, पृथक् पृथक् चारुगृहीतवेशाः ॥२२॥

आजग्मुरारुह्य विमानपृष्ठं, गन्धर्वयक्षोरगकिन्नराश्च ।
शचोपतिस्तत्र सुरेन्द्रमध्ये, रराज राजाऽधिकल्क्ष्यमूर्त्तिः ॥२३॥

आज्ञाबलैश्वर्य्यकृतप्रमोदः, स्वयंवरं तं समलञ्चकार ।
हेतुस्त्रिलोकस्य जगत्प्रसूतेर्माता च तेषां स सुरासुराणाम् ॥२४॥

पात्नी च शम्बोः पुरुषस्य धीमतो, गीता पुराणे प्रकृतिः परा या ।
दक्षस्य कोपाद्विमवद्‌गृहं सा, कार्यार्थमायात्त्रिदिवौकसां हि ॥२५॥

विमानपृष्ठे मणिहेमजुष्टे, स्थिता वलच्चामरवीजिताङ्गी ।
सर्व्वर्त्तुपुष्पां सुसुगन्धमालां, प्रगृह्य देवी प्रसभं प्रतस्थे ॥२६॥

ब्रह्मोवाच
मालां प्रगृह्य देव्यान्तु स्थितायां देवसंसदि ।
शक्राद्यैरागतैर्देवैः स्वयंवर उवागते ॥२७॥

द्वाय जिज्ञासया शम्भुर्भूत्वा पञ्चशिखः शिशुः ।
उत्‌सङ्गतलसंसुप्तो बभूव सहसा विभुः ॥२८॥

ततो ददर्श तं देवी शिशुं पञ्चशिखं स्थितम् ।
ज्ञात्वा तं समवध्यानाज्जगृहे प्रीतिसंयुता ॥२९॥

अथ सा सुद्धसङ्गल्पा काङ्‌क्षितं प्राप्य सत्‌पतिम् ।
निवृत्ता च तदा तस्थौ कृत्वा सा हृदि तं विभुम् ॥३०॥

ततो दृष्ट्वा शिशुं देवा देव्या उत्‌सङ्गवर्त्तिनम् ।
को ।यमत्रेति संमन्त्र्य चुक्रुशुर्भृ शमोहिताः ॥३१॥

वज्रमाहारयत्तस्य बाहुमुत्क्षिप्य वृत्रहा ।
स बाहुरुत्थितस्तस्य बाहुमुत्क्षिप्य वृत्रहा ।
स बाहुरुत्थितस्तस्य तथैव समतिष्ठत ॥३२॥

स्तम्भितः शिशुरूपेण देवदेवेन शम्भुना ।
वज्रं क्षेप्तुं न शशाक वृत्रहा चलितुं न च ॥३३॥

भगो नाम ततो देव आदित्यः काश्यपो बली ।
उत्‌क्षिप्य (चिक्षेप) आयुधं दीप्तं छेत्तुमिच्छन् विमोहितः ॥३४॥

तस्यापि भगवान् बाहुं तथैवास्तम्भयत्तदा ।
बलं तेजश्च योगश्च तथैवास्तम्भयद्विभुः ॥३५॥

शिरः प्रकम्पयन् विष्णुः शङ्करं समवैक्षत ।
अथ तेषु स्थितेष्वेवं मन्युमत्‌सु सुरेषु च ॥३६॥

अहं परमसंविग्नो ध्यानमास्थाय सादरम् ।
बुद्धवान् देवदेवेशमुमोत्‌सङ्गे समास्थितम् ॥३७॥

ज्ञात्वाऽहं परमेशानं शीघ्रमुत्थाय सादरम् ।
ववन्दे चरणं शम्भोः स्तुतवांस्तमहं द्विजाः ॥३८॥

पुराणैः सामसङ्गीतैः ब्रह्म ध्येयं तदक्षरम् ।
अजस्त्वमजरो देवः स्रष्टा विभुः परापरम् ॥३९॥

प्रधानं पुरुषो यस्त्वं ब्रह्म ध्येयं तदक्षरम् ।
अमृतं परमात्मा च ईश्वरः कारणं महत् ॥४०॥

ब्रह्मसृक् प्रकृतेः स्रष्टा सर्व्वकृत्‌प्रकृतेः परः ।
इयञ्च प्रकृतिर्देवी सदा ते सृष्टिकारणम् ॥४१॥

पत्नीरूपं समास्ताय जगत्‌कारणमागता ।
नमस्तुभ्यं महादेव देव्या वै सहिताय च ॥४२॥

प्रसादात्तव देवेश नियोगाच्च मया प्रजाः ।
देवाद्यास्तु इमाः सृष्टा म्‌ढास्त्वद्योगमायया ॥४३॥

कुरु प्रसादमेतेषां यथापूर्व्वं भवन्त्विमे ।
तत एवमहं विप्रा विज्ञाप्य परमेश्वरम् ॥४४॥

स्तम्भितान् सर्व्वदेवांस्तानिदं चाहं तदोक्तवान् ।
मूढाश्च देवताः सर्व्वा नैनं बुध्यत शङ्करम् ॥४५॥

गच्छध्वं शरणं शीघ्रमेनमेव महेश्वरम् ।
सार्धं मयैव देवेशं परमात्मानमव्ययम् ॥४६॥

ततस्ते स्तम्भिताः सर्व्वे तथैव त्रिदिवौकसः ।
प्रणेमुर्मनसा सर्व्वं भावशुद्धेन चेतसा ॥४७॥

अथ तेषां प्रसन्नो ।भूद्‌देवदेवो महेश्वरः ।
यथापूर्व्वं चकाराऽऽशु देवतानां तनुस्तदा ॥४८॥

तत एवं प्रवृत्ते तु सर्व्वदेवनिवारणे ।
वपुश्चकार देवेशस्त्र्यक्षं परममद्‌भुतम् ॥४९॥

तेजसा तस्य ते ध्वस्ताश्चक्षुः सर्व्वे न्यमीलयन् ।
तेभ्यः स परमं चक्षुः स्ववपुर्दृष्टिक्तिमत् ॥५०॥

प्रादात् परमदेवेशमपश्यंस्ते तदा विभुम् ।
ते दृष्ट्वा परमेशानं तृतीयेक्षणधारिणम् ॥५१॥

शक्राद्या मेनिरे देवाः सर्व्व एव सुरेश्वराः ।
तस्य देवी तदा हृष्टा समक्षं त्रिदिवौकसाम् ॥५२॥

पादयोः स्थापयामास स्रङ्मालाममितद्युतिः ।
साधु साध्विति ते होचुः सर्व्वे देवाः पुनर्विभुम् ॥५३॥

सह देव्या नमश्चक्रुः शिरोभिर्भुतलाश्रितैः ।
अथास्मिन्नन्तरे विप्रास्तमहं दैवतैः सह ॥५४॥

हिमवन्तं महाशैलमुक्तावांश्च महाद्युतिम् ।
श्लाध्यः पूज्यश्च वन्द्यश्च सर्व्वेषां त्वं महानसि ॥५५
शर्व्वेण सह सम्बन्धो यस्य तेऽभ्युदयो महान् ।
क्रियतां चारुरुद्वाहः क्रिमर्थं स्तीयते परम् ।
ततः प्रणम्य हिमवांस्तदा मां प्रत्यभाषत ॥५६॥

हिमवानुवाच
त्वमेव कारणे देव यस्य सर्व्वोदये मम ।
प्रसादः सहसोत्पन्नो हेतुश्चापि त्वमेव हि ।
उद्वाहस्तु यदा यादृक् तद्वि (क्तं विः) धत्स्व पितामह ॥५७॥

ब्रह्मोवाच
तत एवं वचः श्रुत्वा गिरिराजस्य भो द्विजाः ।
उद्वाहः क्रियतां देव इत्यहं चोक्तवान् विभुम् ॥५८॥

मामाह शङ्करो देवो यथेष्टमिति लोकपः ।
तत्क्षणाच्च ततो विप्रा अस्माभिर्निर्म्मितं पुरम् ॥५९॥

उद्वाहार्थं महेशस्य नानार्तनोपशोभितम् ।
रत्नानि मणयश्चित्रा हेममौक्तिकमेव च ॥६०॥

मूर्त्तिमन्त उपाशस्य नानारत्नोपसोभितम् ।
चित्रा मारकती भूमिः सुवर्णस्तम्भशोभिता ॥६१॥

भास्वत्स्फटिकभित्तश्च मुक्ताहारप्रलम्बिता ।
तस्मिन् द्वारि पुरे रम्य उद्वाहार्थं विनिर्म्मिता ॥६२॥

शुशुभे देवदेवस्य महेशस्य महात्मनः ।
सोमादित्यौ समं तत्र तापन्तौ महामणी ॥६३॥

सौरभेयं मनोरम्यं गन्धमादाय मारुतः ।
प्रववौ सुखसंस्पर्शो भवभक्तिं प्रदर्शयन् ॥६४॥

समुद्रास्तत्र चत्वारः शक्राद्याश्च सुरोत्तमाः ।
देवनद्यो महानद्यः सिद्धा मुनय एव च ॥६५॥

गन्धर्व्वाप्सरसः सर्व्वे नागा यक्षाः सराक्षसाः ।
औदकाः खेचराश्चान्ये किन्नरा देवचारणाः ॥६६॥

तुम्बुरुर्नारदो हाहाहूहूश्चैव तु सामागाः ।
रम्याण्यादाय वाद्यानि तत्राःऽऽजग्मुस्तदा पुरम् ॥६७॥

ऋषयस्तु कथास्तत्र वेदगीतास्तपोधनाः ।
पुण्यान् वैवाहिकान्मन्त्राञ्जेपुः संहृष्टमानसाः ॥६८॥

जगतो मातरः सर्व्वा देवकन्याश्च कृत्स्नशः ।
गायन्ति हर्षिताः सर्व्वा उद्वाहे परमेष्ठिनः ॥६९॥

ऋतवः षट् समं तत्र नानागन्दसूखावहाः ।
उद्वाहः शङ्करस्येति मूर्त्तिमन्त उपस्थिताः ॥७०॥

नीलजीमूतसङ्गाशैर्मन्त्रध्वनिप्रहर्षिभिः ।
केकायमानैः शिखिभिर्नृत्यमानैस्च सर्वशः ॥७१॥

विलोलपिङ्गलस्पष्टविद्युल्लेखाविहासिता ।
कुमुदापीडशुक्लाभिर्बलाकाभिश्च शोभिता ॥७२॥

प्रत्यग्रसञ्जातशिलीन्ध्रकन्दलीताद्रुमाद्युद्‌गतपल्लवा शुभा ।
शुबाम्बुधाराप्रणयप्रबोधितैर्महालसैर्भेकगणैश्च नादिता ॥७३॥

प्रियेषु मानोद्धतमानसानां, मनस्विनीनामपि कामिनीनाम् ।
मयूरकेकाभिरुतैः क्षणेन, मनोहरैर्मानविभङ्गहेतुभिः ॥७४॥

तथा विवर्णोज्ज्वलाचारुमूर्त्तिना, शशाङ्कलेखाकुटिलेन सर्वतः ।
पयोदसङ्घातसमीपवर्त्तिना, महेन्द्रचापेन भृशं विराजिता ॥७५॥

विचित्रपुष्पाम्बुभवैः सुगन्धिभिर्घनाम्बुसम्पर्कतया सुशीतलैः ।
विकम्पयन्ती पवनैर्मनोहरैः, सुराङ्गनानामलकावलीः शुभाः ॥७६॥

गर्जत्पयोदस्थगितेन्दुबिम्बा, नवाम्बुसिक्तोदकचारुदूर्वा ।
निरीक्षिता सादरमुत्सुकाभिर्निश्वासधूम्रं पथिकाङ्गनाभिः ॥७७॥

हंसनूपुरशब्दाढ्या समुन्नतपयोधरा ।
चलद्विद्युल्लताहारा स्पष्टपद्मविलोचना ॥७८॥

असितजलदधीरध्वानपित्रस्तहंसा, विमलसलिलधारोत्पातन म्रोत्पलाग्रा ।
सुरभुकुसुमरेणुक्लृप्तसर्वाङ्गशोभा, गिरितुहितृविवाहे प्रावृडाविर्बभूव ॥७९॥

मेघकञ्चुकनिर्म्मुक्ता पद्मकोशोद्‌भवस्तनी ।
हंसनूपुरनिह्रादा सर्वशस्यदिगन्तरा ॥८०॥

विस्तीर्णपुलिनश्रोणी कूजत्सारसमेखला ।
प्रफुल्लेन्दीवरश्यामविलोचनमनोहरा ॥८१
पक्वबिम्बाधरपुटा कुन्ददन्तप्रहासिनी ।
नवस्यामलताश्यामसोमराजिपुरस्कृता ॥८२॥

चन्द्रांशुहारवर्गेण कण्ठोरस्थलगामिना ।
प्रह्लादयन्ती चेतांसि सर्वेषां त्रिसिवौकसाम् ॥८३॥

समदालिकुलोद्‌गीतमधुरस्वरभाषिणी ।
चलत्कुमुदसंघातचारुकुण्डलशोभिनी ॥८४॥

रक्ताशोकप्रशाखोत्थपल्लवाङ्गलिधारिणी ।
तत्पुष्पसञ्चयमयैवर्वासोभिः समलङ्कृता ॥८५॥

रक्तोत्पलाग्रचरणा जातीपुष्पनखावली ।
कदलीस्तम्भवामोरूः शशाङ्कवदना तथा ॥८६॥

सर्वलक्षणसम्पन्ना सर्वालङ्कारभूषिता ।
प्रेम्णा स्पृशति कान्तेव सानुरागा मनोरमा ॥८७॥

निर्ममुक्तासितमेघकञ्चुकपटा पूर्णेन्दुबिम्बानना, नीलाम्बोजविलोचना रविकरप्रोद्‌भिन्नपद्मस्तनी ।
नानापुष्परजः सुगन्धिपषनप्रह्रादनी चेतसां, तत्राऽऽसीत् कलहंसनूपुररवादेव्या विवाहे शरत् ॥८८॥

अत्यर्थशीतलाम्भोभिः प्लावयन्तौ दिशः सदा ।
ऋतू हेमन्तशिशिरौ आजग्मतुरतिद्युती ॥८९॥

ताभ्यामृतुभ्यां संप्राप्तो हिमवान् स नगोत्तमः ।
प्रालेयचूर्मवर्षिभ्यां क्षिप्रं रौप्यहरो बभौ ॥९०॥

तेन प्रालेयवर्षेण घनेनैव हिमालयः ।
अगाधेन तदा रेजे क्षीरोद इव सागरः ॥९१॥

ऋतुपर्य्यासम्प्राप्तो बभूव स महागिरिः ।
साधूपचारात् सहसा कृतार्थ इव दुर्जनः ॥९२॥

प्रालेयपटलच्छन्नैः श्रृङ्गैस्तु शुशुभे नगः ।
छत्रैरिव महाभागैः पाण्डरैः पृथिवीपतिः ॥९३॥

मनोभवोद्रेककराः सुराणां सुराङ्गनानाञ्च मुहुः समीराः ।
स्वच्छाम्बुपूर्णाश्च तथा नलिन्यः पद्मोत्पलानां कुसुमैरुपेताः ॥९४॥

विवाहे गुरुकन्याया वसन्तः समागादृतुः ॥९५॥

इषत्समुद्‌भिन्नपयोधराग्रा नार्य्यो यथा रम्यतरा बभूवुः ।
नात्युष्णशीतानि पयःसरांसि किञ्जल्कचूर्णैः कपिलीकृतानि॥
चक्राह्वयुग्मैरुपनादितानि ययुः प्रहृष्टाः सुरदन्तिमुख्याः ॥९६॥

प्रियङ्गूं श्चूततरवश्चूतांश्चापि प्रियङ्गवः ।
तर्ज्जयन्त इवान्योन्यं मञ्जरीभिश्चकाशिरे ॥९७॥

हिमश्रृङ्गेषु शुक्लेषु तिलकाः कुसुमोत्कराः ।
शुशुभुः कार्य्यमुदिदश्य वृद्धा इव समागताः ॥९८॥

फुल्लाशोकलतास्तत्र रेजिरे सालसंश्रिताः ।
कामिन्य इव कान्तानां कण्ठालम्बितबाहवः ॥९९॥

तस्मिन्नृतौ शुभ्रकटम्बनीपास्तालास्तमालाः सरलाः कपित्थाः ॥१००॥

अशोकसर्ज्जार्ज्जुनकोविदारा पुन्नागनागेश्वरकर्णिकाराः ।
लवङ्गतलागुरुसप्तपर्णा न्यग्रोधशोभाञ्जननारिकेलाः ॥१०१॥

वृक्षास्तथाऽन्ये फलपुष्पवन्तो दृश्या बभूवुः सुमनोहराङ्गाः ।
जलाशयाश्चैव सुवर्णतोयाश्चक्राङ्गकारण्डवहंसजुष्टाः ॥१०२॥

कोयष्टिदात्यूहबलाकयुक्ता दृश्यास्तु पद्मोत्पलमीनपूर्णाः ।
खगाश्च नानाविधभूषिताङ्गा दृस्यास्तु वृक्षेषु सुचित्रपक्षाः ॥१०३॥

क्रीड़ासु युक्तानथ तर्ज्जयन्तः कुर्वन्ति शब्दं मदनरिताङ्गाः ।
तस्मिन् गिरावद्रिसुताविवाहे ववुश्च वाताः सुखशीतलाङ्गाः ॥१०४॥

पुष्पाणि शुभ्राण्यपि पातयन्तः शनैर्नगेभ्यो मलयाद्रिजाताः ।
तथैव सर्वे ऋतवश्च पुण्याश्चकाशिरेऽन्योन्यविमिश्रिताङ्गाः ॥१०५॥

येषां सुलिङ्गानि च कीर्त्तितानि, ते तत्र आसन् सुमनोज्ञरूपाः ॥१०६॥

समदालिकुलोद्‌गीतशिलाकुसुमसञ्चयैः ।
परस्परं हि मालत्यो भावयन्त्यो विरेजिरे ॥१०७॥

नीलानि नीलाम्बुरुहैः पयांसि, गौराणि गौरेश्च मृणालदण्डैः ।
रक्तैश्च रक्तानि भृशं कृतानि , मत्तद्विरेफावलिजुष्टपत्रैः ॥१०८॥

हैमानि विस्तीर्मजलेषु केषुचिन्निरन्तरं चारुतराणि केषुचित् ।
वैदूर्य्यनालानि सरःसु केषुचित्‌प्रजज्ञिरे पद्मवनानि सर्वतः ॥१०९॥

वाप्यस्तत्राभवन्‌रम्याः कमलोत्पलपुष्पिताः ।
नानाविहङ्गसंजुष्टा हैमसोपानपङ्क्तयः ॥११०॥

श्रृङ्गाणि तस्य तु गिरेः कर्णिकारैः सुपुष्पितैः ।
समुच्छ्रितान्यवरलैर्हेमानीव बभुर्द्विजाः ॥१११॥

ईषद्विभिन्नकुसुमैः पाटलैश्चापि पाटलाः ।
संबभूबुर्दिशः सर्वाः पवनाकम्पिमूर्त्तिभिः ॥११२॥

कृष्णार्ज्जुना दसगुणा नीलाशोकमहीरुहाः ।
गिरौ ववृधिरे फुल्लाः स्पर्धयन्तः परस्परम् ॥११३॥

वारुवविजुष्टानि किंशुकानां वनानि च ।
पर्वतस्य नितम्बेषु सर्वेषु च विरेजिरे ॥११४॥

तमालगुल्मैस्तस्यासीऽऽच्छोभा हिमवतस्तदा ।
नीलजीमूतसङ्घातैर्निलीनैरिव सन्धिषु ॥११५॥

निकामपुष्पैः सुविशालशाखैः, समुच्छ्रितैश्चन्दनचम्पकैस्च ।
प्रमत्तपुंस्कोकिलसम्प्रलापैर्हिमाचलोऽतीव तदा रराज ॥११६॥

श्रुत्वा शब्दं मृदुमदकलं सर्व्वतः कोकिलानां,चञ्चत्पक्षाः सुमधुरतरं नीलकण्ठा विनेदुः ।
तेषां शब्दैरुपचितबलः पुष्पचापेषु हस्तः, सज्जीभूतस्त्रिदशवनिता वेद्धुमङ्गेष्वनङ्गः ॥११७॥

पटुः सूर्यायतपस्चापि प्रायशोऽल्प (ल्पो) जलाशयः ।
देवीविवाहसमये ग्रीष्म आगाद्धिमाचलम् ॥११८॥

स चापि तरुभिस्तत्र बहुभिः सुकुमोत्करैः ।
शोभयामास श्रृङ्गणि प्रालेयाद्रेः समन्ततः ॥११९॥

तथाऽपि च गिरौ तत्र वायवः सुमनोहराः ।
ववुः पाटलविस्तीर्णकदम्बार्ज्जुनगन्धिनः ॥१२०॥

वाप्यः प्रफुल्लपद्‌मौघकेसरारुणडुमूर्त्तयः ।
अभवंस्तटसंघु (जु) ष्टकलहंसकदम्बकाः ॥१२१॥

तथा कुरबकाश्वापि कुसुमापाण्डुमूर्त्तयः ।
सर्वेषु नगश्रृङ्गेषु भ्रमरावलिसेविताः ॥१२२॥

बकुलाश्च नितम्बेषु विशालेषु महीभृतः ।
उत्ससर्ज मनोज्ञानि कुसुमानि समन्ततः ॥१२३॥

इति कुसुमविचित्रसर्ववृक्षा विविधविहङ्गमनादरम्यदेशाः ।
हिमगिरितनयाविवाहभूभूत्यै षडुपययुर्ऋतवो मुनिप्रवीराः ॥१२४॥

तत एवं प्रवृत्ते तु सर्व्वभूतसमागमे ।
नानावाद्यसमाकीर्णे अहं तत्र द्विजातयः ॥१२५॥

शैलपुत्रीमलंकृत्य योग्याभरणसम्पदा ।
पुरं प्रवेशितवांस्तां स्वयमादाय भो द्विजाः ॥१२६॥

ततस्तु पुनरेवेशमहं चैवोक्तवान् विभुम् ।
हविर्जुहोमि वह्नौ ते उपाध्यायपदे स्थितः ॥१२७॥

ददासि मह्यं यद्याज्ञां कर्त्तव्योऽयं क्रियाविधिः ।
मामाह शङ्करश्चैवं देवदेवो जगत्‌पतिः ॥१२८॥

शिव उवाच
यदुद्दिष्टं सुरेशान तत्‌कुरुष्व यथेप्सितम् ।
कर्त्ताऽस्मि वचनं सर्व ब्रह्मंस्तव जगद्विभो ॥१२९॥

ततश्चाहं प्रहृष्टात्मा कुशानादाय सत्वरम् ।
देवस्य देव्याश्च योगबन्धेन युक्तवान् ॥१३०॥

ज्वलनश्च स्वयं तत्र कृताञ्जलिपुटः स्थितः ।
श्रुतिगीतैर्महामन्त्रैर्मूर्त्तिमद्भिरुपस्थितैः ॥१३१॥

यथोक्तविधिना हुत्वा सर्पिस्तदमृतं हविः ।
ततस्तं ज्वलनं सर्वं कारयित्वा प्रदक्षिणम् ॥१३२॥

मुवत्वा हस्तसमायोगं सहितः सर्वदैवतैः ।
पुत्रैश्च मानसैः सिद्धैः प्रकृष्टेनान्तरात्मना ॥१३३॥

वृत्त उद्वाहकाले तु प्रणम्य च वृषध्वजम् ।
योगेनैव तयोर्विप्रास्तदुमापरमेशयोः ॥१३४॥

उद्वाहः स परो वृत्तो यं देवा न वुदुः क्वचित् ।
इति वः सर्वमाख्यातं स्वयंवरमिदं शुभम् ।
उद्वाहश्चैव देवस्य श्रृणुघ्वं परमाद्भुतम् ॥१३५॥

इति श्रीआदिब्राह्मे महापुराणे स्वयंभु-ऋषिसंवादे उमाहेश्वरयोर्विवाहनिरूपणं नाम षट्‌त्रिंशोऽध्यायः ॥३६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP