संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ९१

ब्रह्मपुराणम् - अध्यायः ९१

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अथैकनवतितमोऽध्यायः
गोवर्धनतीर्थवर्णनम्
ब्रह्मोवाच
ततो गोवर्धनं तीर्थं सर्वपापप्रणाशनम् ।
पितॄणां पुण्यजननं स्मरणादपि पापनुत् ॥१॥

तस्य प्रभाव एष स्यान्मया दृष्टस्तु नारद ।
ब्राह्मणः कर्षकः कश्चिज्जाबालिरिति विश्रुतः ॥२॥

न विमुञ्चत्यनड्वाहौ मध्यं यातेऽपि भास्करे ।
प्रतोदेन प्रतुदति पृष्ठतोऽपि च पार्श्वयोः ॥३॥

तौ गावावश्रुपूर्णाक्षौ दृष्ट्वा गौः कामदोहिनी ।
सुरभिर्जगतां माता नन्दिने सर्वमब्रवीत् ॥४॥

स चापि व्यथितो भूत्वा शंभवे तन्न्यवेदयत् ।
शंभुश्च वृषभं प्राह सर्वं सिध्यतु ते वचः ॥५॥

शिवाज्ञासहितो नन्दी गोजातं सर्वमाहरत् ।
नष्टेषु गोषु सर्वेषु स्वर्गे मर्त्ये ततस्त्वरा ॥६॥

मामवोचन्सुरगमा विना गोभिर्न जीव्यते ।
तानवोचं सुरान्सर्वाञ्शंकरं यात याचत ॥७॥

तथैवेशं तु ते सर्वे स्तुत्वा कार्यं न्यवेदयन् ।
ईशोऽपि विबुधानाह जानाति वृषभो मम ॥८॥

ते वृषं प्रोचुरमरा देहि गा उपकारिणः ।
वृषोऽपि विबुधानाह गोसवः क्रियतां क्रतुः ॥९॥

ततः प्रप्स्यथ गाः सर्वा या दिव्या याश्च मानुषाः ।
ततः प्रवर्तते यज्ञो गोसवो देवनिर्मितः ॥१०॥

गौतम्याश्च शुभे पार्श्वे गावो ववृधिरे ततः ।
गोवर्धनं तु तत्तीर्थं देवानां प्रीतिवर्धनम् ॥११॥

तत्र स्नानं मुनिश्रेष्ठ गोसहस्रफलप्रदम् ।
किचिद्दानादिना यत्स्यात्फलं तत्तु न विद्महे ॥१२॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये गोवर्धनतीर्थवर्णनं नामैकनवतितमोऽध्यायः ॥९१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP