संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ९

ब्रह्मपुराणम् - अध्यायः ९

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


तत्रादौ सोमोत्पत्ति-वर्णनम्
लोमहर्षण उवाच
पिता सोमस्य भो विप्रा जज्ञेऽत्रिर्भगवानृषिः ।
ब्रह्मणो मानसात्पूर्व्वं प्रजासर्गं विधित्सतः ॥१॥

अनुत्तरं नाम तपो येन तप्तं हि तत्पुरा ।
त्रीणि वर्षसहस्राणि दिव्यानीति हि नः श्रुतम् ॥२॥

ऊद्र्ध्वमाचक्रमे तस्य रेतः सोमत्वमीयिवान् ।
नेत्राभ्यां वारि सुस्राव दशधा द्योतयन् दिशः ॥३॥

तं गर्भं विधिनादिष्टा दश देव्यो दधुस्ततः ।
समेत्य धारयामासुर्न च ताः समशवनुवन् ॥४॥

यदा न धारणे शक्तास्तस्य गर्भस्य ता दिशः ।
ततस्ताभिः स त्यक्तस्तु निपपात वसुन्धराम् ॥५॥

पतितं सोममालोक्य ब्रह्मा लोकपितामहः ।
रथमारोपयामास लोकानां हितकाम्यया । ९.६॥

तस्मिन्निपतिते देवाः पुत्रेऽत्रेः परमात्मनि ।
तुष्टुबुर्ब्रह्मणः पुत्रास्ततान्ये मुनिसत्तमाः ॥७॥

तस्य संस्तूयमानस्य तेजः पृथिवीमन्वपद्यत ।
ओप्यायनाय लकानां भावयामास सर्व्वतः ॥८॥

स तेन रथमुख्येन सागरान्तां वसुन्धराम् ।
त्रिःसप्तकृत्वोऽतियशाश्चकाराभिप्रदक्षिणाम् ॥९॥

तस्य यच्चरितं तेजः पृथिवीमन्वपद्यत ।
ओषध्यस्ताः समुद्भूता याभिः सन्धार्यते जगत् ॥१०॥

स लब्धतेजा भगवान् संस्तवैश्च स्वकर्म्मभिः ।
तपस्तेपे महाभागः पद्मानां दर्शनाय सः ॥११॥

ततस्तस्मै ददौ राज्यं ब्रह्मा ब्रह्मविदांवरः ।
वीजौषधीनां विप्राणामपां च मुनिसत्तमाः॥ । ९.१२

स तत्प्राप्य महाराज्यं सोमः सौम्यवतांवरः ।
समाजह्रे राजसूयं सहस्रशतदक्षिणम् ॥१३॥

दक्षिणामददात् सोमस्त्रींल्लोकानिति नः श्रुतम् ।
तेभ्यो ब्रह्मर्षिमुख्येभ्यः सदस्येभ्यश्च बो द्विजाः ॥१४॥

हिरण्यगर्भो ब्रह्मात्रिर्भृगुश्च ऋत्विजोऽभवत् ।
सदस्योऽभूद्धरिस्तत्र मुनिभिर्बहुभिर्वृतः ॥१५॥

तं सिनीश्च कुहूश्चैव द्युतिः पुष्टिः प्रभा वसुः ।
कीर्त्तिर्धृतिश्च लक्षमीश्च नव देव्यः सिषेविरे ॥१६॥

प्राप्यावभृमप्यग्र्यं सर्व्वदेवर्षिपूजितः ।
विरराजाधिराजेन्द्रो दशधा भासयन् दिशः ॥१७॥

तस्य तत्प्राप्य दुष्प्राप्यमैस्वर्य्यमृषिसत्कृतम् ।
विबभ्राम मतिस्तातावियादनयाहृता ॥१८॥

बृहस्पतेः स वै भार्य्यामैश्वर्य्यमृषिसत्कृतम् ।
विबभ्राम मतिस्ताताविनयादनयाहृता ॥१९॥

स याच्यमानो देवैस्च तथा देवर्षिभिर्मुहुः ।
नैव व्यसर्ज्जयत्तारां तस्मा अङ्गिरसे तदा ॥२०॥

उशना तस्य जग्राह पार्ष्णिमङ्गिरसस्तथा ।
रुद्रश्च पार्ष्णि जग्राह गृहीत्वाजगवं धनुः ॥२१॥

तेन ब्रह्मशिरो नाम परमास्त्रं महात्मना ।
उदिदश्य देवानुत्सृष्टं येनैषां नासितं यशः ॥२२॥

तत्र तद्युद्धमभवत् प्रख्यातं तारकामयम् ।
देवानां दानवानाञ्च लोकक्षयकरं महत् ॥२३॥

तत्र शिष्टाश्च ये देवास्तुषिताश्चैव ये द्विजाः ।
ब्रह्माणं शरणं जग्मुरादिदेवं सनातनम् ॥२४॥

तदा निवार्य्योशनसं तं वै रुद्रञ्च शङ्करम् ।
ददावाङ्गिरसे तारां स्वयमेव पितामहः ॥२५॥

तामन्तःप्रसवां दृष्ट्वा क्रुद्धः प्राह बृहस्पतिः ।
मदीयायां न ते योनौ गर्भो धार्य्यः कथञ्चनः ॥२६॥

इषीकास्तम्बमासाद्य गर्भं सा चोत्ससर्ज्ज ह ।
जातमात्रः स भगवान् देवानामाक्षिपद्वपुः ॥२७॥

ततः संशयमापन्नास्तारामूचुः सुरोत्तमाः ।
सत्यं ब्रूहि सुतः कस्य सोमस्ताथ बृहस्पतेः ॥२८॥

पृच्छ्यमाना यदा देवैर्नाह सा विबुधान् किल ।
तदा तां शप्तुमारब्धः कुमारो दस्युहन्तमः ॥२९॥

तं निवार्य्य ततो ब्रह्मा तारां प्रपच्छ संशयम्.
यदत्र तथ्यं तद्ब्रूहि तारे कस्य सुतस्त्वयम् ॥३०॥

उवाच प्राञ्जलिः सा तं सोमस्येति पितामहम् ।
तदा तं मूर्ध्नि चाघ्राय सोमो राजासुतं प्रति ॥३१॥

बुध इत्यकरोन्नाम तस्य बालस्य धीमतः ।
प्रतिकूलञ्च गगने समभ्युत्तिष्ठते बुधः ॥३२॥

उत्पादयामास तदा पुत्रं वै राजपुत्रिकम् ।
तस्यापत्यं महातेजाः बभूवैलः पुरूरवाः ॥३३॥

उर्व्वश्यां जज्ञिरे यस्य पुत्राः सप्त महात्मनः ।
एतत् सोमस्य वो जन्म कीर्त्तितं कीर्त्तिवर्द्धनम् ॥३४॥

वंशमस्य मुनिश्रेष्ठाः कीर्त्त्यमानं निबोधत ।
धन्यमायुष्यमारोग्यं पुण्यं सङ्कल्पसाधनम् ॥३५॥

सोमस्य जन्म श्रुत्वैव पापेभ्यो विप्रमुच्यते ॥३६॥

इति श्रीबाह्मे महापुराणे सोमोत्पत्तिकथनं नाम नवमोऽध्यायः॥९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP