संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १२०

ब्रह्मपुराणम् - अध्यायः १२०

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अथ विंशत्यधिकशततमोऽध्यायः
धान्यतीर्थवर्णनम्
ब्रह्मोवाच
धान्यतीर्थमिति ख्यातं सर्वकामप्रदं नृणाम् ।
सुभिक्षं क्षंमदं पुंसां सर्वापद्विनिवारणम् ॥१॥

ओषध्यः सोमराजानं पतिं प्राप्य मुदाऽन्विताः ।
ऊचुः सर्वस्य लोकस्य गङ्गायाश्चेप्सितं वचः ॥२॥

ओषध्य ऊचुः
वैदिकी पुण्यगाथाऽस्ति यां वै वेदविदो विदुः ।
भूमिं सस्यवतीं कश्चिन्मातरं मातृसंमिताम् ॥३॥

गङ्गासमीपे यो दद्यात्सर्वकामानवाप्नुयात् ।
भूमीं सस्यवतीं गाश्च ओषधीश्च मुदाऽन्वितः ॥४॥

विष्णुब्रह्मेशरूपाय यो दद्याद्भक्तिमान्नरः ।
सर्वं तदक्षयं विद्यात्सर्वकामानवाप्नुयात् ॥५॥

ओषध्यः सोमराजन्याः सोमश्चाप्येषधीपतिः ।
इति ज्ञात्वा ब्रह्मविद ओषधीर्यः प्रदास्यति ॥६॥

सर्वान्कामानवाप्नोति ब्रह्मलोके महीयते ।
ता एव सोमराजन्याः प्रीताः प्रोचुः पुनः पुनः ॥७॥

ओषध्य ऊचुः
योऽस्मान्ददाति गङ्गायां तं राजन्पारयामसि ।
त्वमुत्तमश्चौषधीश त्वदधीनं चराचरम् ॥८॥

ओषधयः संवदनते सोमेन सह राज्ञा ।
योऽस्मान्ददाति विप्रेभ्यस्तं राजन्पारयामसि ॥९॥

वयं च ब्रह्मरूपिण्यः प्राणरूपिण्य एव च ।
योऽस्मान्ददाति विप्रेभ्यस्तं राजन्पारयामसि ॥१०॥

अस्मान्ददाति यो नित्यं ब्राह्मणेभ्यो जितव्रतः ।
उपास्तिरस्ति साऽस्माकं तं राजन्पारयामसि ॥११॥

स्थावरं जङ्गमं किंचिदस्माभिर्व्यापृतं जगत् ।
योऽस्मान्ददाति विप्रेभ्यस्तं राजान्पारयामसि ॥१२॥

हव्यं कव्यं यदमृतं यत्किंचिदुपभुज्यते ।
यद्गरीयश्च यो दद्यात्तं राजान्पारयामसि ॥१३॥

इत्येतां वैदिकीं गाथां यः शृणोति स्मरेत वा ।
पठते भक्तिमापन्नस्तं राजन्पारयामसि ॥१४॥

ब्रह्मोवाच
यत्रैषा पठिता गाथा सोमेन सह राज्ञा ।
गङ्गातीरे चोषधीभिर्धान्यतीर्थं तदुच्यते ॥१५॥

ततः प्रभृति तत्तीर्थमौषघ्यं सौम्यमेव च ।
अमृतं वेदगाथं च मातृतीर्थं तथैव च ॥१६॥

एषु स्नानं जपो होमो दानं च पितृतर्पणम् ।
अन्नदानं तु यः कुर्यात्तदानत्त्याय कल्पते ॥१७॥

षट्शताधिकसाहस्रं तीर्थानां तीरयर्द्वयोः ।
सर्वपापनिहन्तॄणां सर्वसंपद्विवर्धनम् ॥१८॥

इति महापुराणे आदिब्राह्मे तीर्थमाहात्म्ये धान्यतीर्थादिषट्शताधिकसहस्रतीर्थवर्णनं नाम विंशत्यधिकशततमोऽघ्यायः ॥१२०॥

गौतमीमाहात्म्ये एकपञ्चाशत्तमोऽध्यायः ॥५१॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP