संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १७७

ब्रह्मपुराणम् - अध्यायः १७७

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


पुरुषोत्तमक्षेत्रमाहात्म्यवर्णनम्
ब्रह्मोवाच
एवं वोऽनन्तमाहात्म्यं क्षेत्रं च पुरुषोत्तमम् ।
भुक्तिमुक्तप्रदं नॄणां प्रोक्तं सुदुर्लभम् ॥१॥

यत्राऽऽस्ते पुण्डरीकाक्षः शङ्खचक्रगदाधरः ।
पीताम्बरधरः कृष्णः कंसकेशिनिषूदनः ॥२॥

ये तत्र कृष्णं पस्यनति सुरासुरनमस्कृतम् ।
संकर्षणं सुभद्रां च धन्यास्ते नात्र संशयः ॥३॥

त्रैलोक्याधिपतिं देवं सर्वकामफलप्रदम् ।
ये ध्यायन्ति सदा कृष्णं मुक्तास्ते नात्र संशयः ॥४॥

त्रैलोक्याधिपतिं देवं सर्वकामफलप्रदम् ।
कृष्णे रताः कृष्ममनुस्मरन्ति, रात्रौ च कृष्णं पुनरुत्थिता ये ।
ते भिन्नदेहाः प्रविशन्ति कृष्णं हविर्यथा मन्त्रहुतं हुताशनम् ॥५॥

तस्मात्सदा मुनिश्रेष्ठाः कृष्णः कमललोचनः ।
तस्मिन्क्षेत्रे प्रयत्नेन द्रष्टव्यो मोक्षकाङ्क्षिभिः ॥६॥

शयनोत्थापने कृष्णं ये पश्यन्ति मनीषिणः ।
हलायुधं सुभद्रां हरेः स्थानं व्रजन्ति ते ॥७॥

सर्वकालेऽपि ये भक्त्या पश्यन्ति पुरुषोत्तमम् ।
रौहिणेयं सुभद्रां च विष्णुलोकं व्रजन्ति ते ॥८॥

आस्ते यश्चतुरो मासान्वार्षिकान्तपुरुषोत्तमे ।
पृथिव्यास्तीर्थयात्रायाः फलं प्राप्नोति चाधिकम् ॥९॥

ये सर्वकालं तत्रैव निवसन्ति मनीषिणः ।
जितेन्द्रिया जितक्रोधा लभन्ते तपसः फलम् ॥१०॥

तपस्तप्त्वाऽन्यतीर्थेषु वर्षाणामयुतं नरः ।
यदाप्नोति तदाप्नोति मासेन पुरुषोत्तमे ॥११॥

तपसा ब्रह्मचर्येण सङ्गात्यागेन यत्फलम् ।
तत्फलं सततं तत्र प्राप्नुवन्ति मनीषिणः ॥१२॥

सर्वतीर्थेषु यत्पुण्यं स्नानदानेन कीर्तितम् ।
तत्फलं सततं तत्र प्राप्नुवन्ति मनीषिणः ॥१३॥

सम्यक्तीर्थेन यत्प्रोक्तं व्रतेन नियमेन च ।
तत्फलं लभते तत्र प्रत्यहं प्रयतः शुचिः ॥१४॥

यस्तु नानविधैर्यज्ञैर्यत्फलं लभते नरः ।
तत्फलं लभते तत्र प्रत्यहं संयतेन्द्रियः ॥१५॥

देहं त्यजन्ति पुरुषास्तत्र ये पुरुषोत्तमे ।
कल्पवृक्षं समासाद्य मुक्तास्ते नात्र संशयः ॥१६॥

वटसागरयोर्मध्ये ये त्यजन्ति कलेवरम् ।
ते दुर्लभं परं मोक्षं प्राप्नुवन्ति न संशयः ॥१७॥

अनिच्छन्नपि यस्तत्र पाणांस्त्यजति मानवः ।
सोऽपि दुःखविनिर्मुक्तो मुक्तिं प्राप्नोति दुर्लभाम् ॥१८॥

कृमिकीटपतङ्गाद्यास्तिर्यग्योनिगताश्च ये ।
तत्र देहं परित्यज्य ते यान्ति परमां गतिम् ॥१९॥

भ्रान्तिं लोकस्य पश्यध्वमन्यतीर्थं प्रति द्विजाः ।
पुरुषाख्येन यत्प्राप्तमन्यतीर्थफलदिकम् ॥२०॥

सकृत्पश्यति यो मर्त्यः श्रद्धया पुरुषोत्तमम् ।
पुरुषाणां सहस्रेषु स भवेदुत्तमः पुमान् ॥२१॥

प्रकृते स परो यस्मात्पुरुषादपि चोत्तमः ।
तस्माद्वेदे पुराणे च लोकेऽस्मिन्पुरुषोत्तमः ॥२२॥

योऽसौ पुराणे वेदान्ते परमात्मेत्युदाहृतः ।
आस्ते विश्वोपकाराय तेनासौ पुरुषोत्तमः ॥२३॥

पथि श्मशाने गृहमण्डपे वा, रथ्याप्रदेशेष्वपि यत्र कुत्र ।
इच्छन्ननिच्छन्नपि तत्र देहं, संत्यज्य मोक्षं लभते मनुष्यः ॥२४॥

तस्मात्सर्वप्रयत्नेन तस्मिन्क्षेत्रे द्विजोत्तमाः ।
देहत्यागो नरैः कार्यः सम्यङ्मोक्षाभिकाङ्क्षिभिः ॥२५॥

पुरुषाख्यास्य महात्म्यं न भूतं न भविष्यति ।
त्यक्त्वा यत्र नरो देहं मुक्तिं प्राप्नोति दुर्लभाम् ॥२६॥

गुणानामेकदेशोऽयं मया क्षेत्रस्य कीर्तितः ।
कः समस्तान्गुणान्वक्तुं शक्तो वर्षशतैरपि ॥२७॥

यदि यूयं मुनिश्रेष्ठा मोक्षमिच्छथ शाश्वतम् ।
तस्मिन्क्षेत्रवरे पुण्ये निवसध्वमतन्द्रिताः ॥२८॥

व्यास उवाच
ते तस्य वचनं श्रुत्वा ब्रह्मणोऽव्यक्तजन्मनः ।
निवासं चक्रिरे तत्र अवापुः परमं पदम् ॥२९॥

तस्माद्यूयं प्रयत्नेन निवसध्वं द्विजोत्तमाः ।
पुरुषाख्ये वरे क्षेत्रे यदि मुक्तिमभीप्सथ ॥३०॥

इति श्रीमहापुराणे आदिब्राह्मे ऋषिसंवादे क्षेत्रमाहात्म्यवर्णनं नाम सप्तसप्तत्यधिकशततमोध्यायः ॥१७७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP