संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ८

ब्रह्मपुराणम् - अध्यायः ८

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


सूर्यवंश-वर्णनम्
लोमहर्षण उवाच
सत्यव्रतस्तु भक्त्या च कृपया च प्रतिज्ञया ।
विश्वामित्रकलत्रं तु बभार विनये स्थितः ॥१॥

हत्वा मृगान् वराहांश्च महिषांश्च वनेचरान् ।
विश्वामीत्राश्रमाब्यासे मांसं वृक्षे बबन्ध च  ॥२॥

उपांशुव्रतमास्ताय दीक्षां द्वादशवार्षिकीम् ।
पितुर्नियोगादवसत्तस्मिन् वनगते ऩपे ॥३॥

अयोध्यां चैव राज्यं च तथैवान्तः पुरं मुनिः ।
याज्योपाध्यायसंयोगाद्वसिष्ठः पर्य्यरक्षत ॥४॥

सद्यव्रतस्तु बाल्याच्च भाविनोऽर्थस्य वै बलात् ।
वसिष्ठेऽभ्यधिकं मन्युं धारयामास नित्यशः ॥५॥

पित्रा हि तं तदा राष्ट्रात्त्यज्यमानं प्रियं सुतम् ।
निवारयामास मुनिर्बहुना कारणेन च ॥६॥

पाणिग्रहणमन्त्राणां निष्ठा स्यात् सप्तमे पदे ।
न च सत्यव्रतस्तस्माद्धृतवान् सप्तमे पदे ॥७॥

जानन् धर्म्मवसिष्ठस्तु न मां त्रातीति भो द्विजाः ।
सत्यव्रतस्तदा रोषं वसिष्ठे मनसाकरोत् ॥८॥

गुणबुद्ध्या तु भगवान् वसिष्ठः कृतवांस्तथा ।
न च सत्यव्रतस्तस्य तमुपांशुमबुध्यत ॥९॥

तस्मिन्नपरितोषश्च पितुरासीन्महात्मनः ।
तेन द्वादश वर्षाणि नावर्षत् पाकशासनः ॥१०॥

तेन त्विदानीं विहतां दीक्षां तां दुर्वहां भुवि ।
कुलस्य निष्कृतिर्विप्राः कृता सा वै भवेदिति ॥११॥

न तं वसिष्ठो भगवान् पित्रा त्यक्तं न्यवारयत् ।
अभिषेक्ष्याम्यहं पुत्रमस्येत्येवंमतिर्म्मुनिः ॥१२॥

स तु द्वादश वर्षाणि तां दीक्षामवहद्बली ।
अविद्यामाने मांसे तु वसिष्ठस्य महात्मनः ॥१३॥

सर्व्वकामदुघां दोग्ध्रीं स ददर्श नृपात्मजः ।
तां वै क्रोधाच्च मोहाच्च श्रमाच्चैव क्षुधान्वितः ॥१४॥

देवशधर्म्मगतो राजा जघान मुनिसत्तमाः ।
तन्मांसं स स्वयं चैव विश्वामित्रस्य चात्मजान् ॥१५॥

भोजयामास तच्छ्रुत्वा वसिष्ठोऽप्यस्य चुक्रुधे ॥१६॥

वसिष्ठ उवाच
पातयेयमहं क्रूर तव शङ्कुमसंशयम् ।
यदि ते द्वाविमौ शङ्कू न स्यातां वै कृतौ पुनः ॥१७॥

पितुश्चापरितोषेण भुरुदोग्व्रीवधेन च ।
अप्रोक्षितोपयोगाच्च त्रिविधस्ते व्यतिक्रमः ॥१८॥

एवं त्रीण्यस्य शङ्कूनि तानि दृष्ट्वा महातपाः ।
त्रिशङ्कुरिति होवाचत्रिशङ्कुस्तेन स स्मृतः ॥१९॥

विश्वामित्रस्य दाराणामनेन भरणं कृतम् ।
तेन तस्मै वरं प्रादान्मुनिः प्रीतस्त्रिशङ्कवे ॥२०॥

छन्द्यमानो वरेणाथ वरं वव्रे नृपात्मजः ।
शशरीरो व्रजे स्वर्गमित्येवं याचितो वरः ॥२१॥

अनावृष्टिभये तस्मिन् गते द्वादशवार्षिके  ।
पित्र्ये राज्येऽभिषिच्याथ याजयामास पार्थिवम् ॥२२॥

मिषतां देवतानां च वसिष्ठस्य च कौशिकः ।
दिवमारोपयामास सशरीरं महातपाः ॥२३॥

तस्य सत्यरथा नाम पत्नी कैकेयवंशजा ।
कुमारं जनयामास हरिश्चन्द्रमकल्मषम् ॥२४॥

स वै राजा हरिश्चन्द्रस्क्षैशङ्कव इति स्मृतः ।
आहर्त्ता राजसूयस्य सम्रडिति ह विश्रुतः ॥२५॥

हरिश्चन्द्रस्य पुत्रोऽभूद्रोहितो नाम पार्थिवः ।
हरितो रोहितस्याथ चञ्चुर्हारित उच्यते ॥२६॥

विजयश्च मुनिश्रेष्ठाश्चञ्चुपुत्रो बभूव ह ।
जेता स सर्व्वपृथिवीं विजयस्तेन स स्मृतः ॥२७॥

रुरुकस्तनयस्तस्य राजा धर्म्मर्थकोविदः ।
रुरुकस्य वृकः पुत्रो वृकाद्बाहुस्तु जज्ञिवान् ॥२८॥

हैहयास्तलजङघाश्च निरस्यन्ति स्म तं नृपम् ।
तत्पत्नी गर्भमादाय और्व्वस्याश्रममाविशत् ॥२९॥

नासत्यो धार्म्मकश्चैव स हि धर्मम्मुगेऽभवत् ।
सगरस्तु सुतो बाहोर्यज्ञे सह गरेण वै ॥३०॥

और्व्वस्याश्रममासाद्य भार्गवेमाभिरक्षितः ।
आग्नेयमस्त्रं लब्ध्वा च भार्गवात् सगरो नृपः ॥३१॥

जिगाय पृथिवीं हत्वा तालजङ्घान् सहैहयान् ।
शकानां पह्लवानां च धर्मं निरसदच्युतः ।
क्षत्रियाणां मुनिश्रेष्ठाः पारदानां च धर्म्मवित् ॥३२॥

मुनय ऊचुः
कथं स सगरो जातो गरेणैव सहाच्युतः ।
किमर्थं च शकादीनां क्षत्रियाणांमहौजसाम् ॥३३॥

धर्म्मान्कुलोचितान् राजा क्रुद्धो निरसदच्युतः ।
एतन्नः सर्व्वमाचक्ष्व विस्तरेण महामते ॥३४॥

लोमहर्षण उवाच
वाहोर्व्यसनिनः पूर्व्वं हृतं राज्यमभूत् किल ।
हैहयैस्तालङ्जघैश्च शकैः सार्द्ध द्विजोत्तमाः ॥३५॥

यवनाः पारदाश्चैव काम्बोजाः पह्लवास्तथा ।
एते ह्यपि गणाः पञ्च हैहयार्थे पराक्रमम् ॥३६॥

हृतराज्यस्तदा राजा स वै बाहुर्वनं ययौ ।
पत्न्या चानुगतो हुःखी तत्र प्राणानवासृजत् ॥३७॥

पत्नी तु यादवी तस्य सगर्भा पृष्ठतोऽन्वगात् ।
सपत्न्या च गरस्तस्यै दत्तः पूर्व्व किलानघाः ॥३८॥

सा तु भर्त्तुश्चितां कृत्वा वने तामभ्यरोहत ।
और्व्वस्तां भार्गवो विप्राः कारुण्यात् समवारयत् ॥३९॥

तस्याश्रमे च गर्भः स गरेणैव सहाच्युतः ।
व्यजायत महाबाहुः सगरो नाम पार्थिवः ॥४०॥

और्व्वस्तु जातकर्म्मादींस्तस्य कृत्वा महात्मनः ।
अध्याप्य वेदशास्त्राणि ततोऽस्त्रं ततोऽस्त्रं प्रत्यपादयत् ॥४१॥

आग्नेयं तु महाभागा अमरैरपि दुःसहम् ।
स तेनास्त्रबलेनाजौ बलेन च समन्वितः ॥४२॥

हचैहयान् विजघानाशु क्रुद्धो रुद्रः पशूनिव ।
आजहार च लोकेषु कीर्त्तिं कीर्त्तिमतां वरः ॥४३॥

ततः शकांश्च यवनान् काम्बोजान् पारदांस्तथा ।
पहलवांश्चैव निःशोषान् कर्त्तु व्यवसितो नृपः ॥४४॥

ते वध्यमाना वीरेण सगरेम महात्मना ।
वसिष्ठं शरणं गत्वा प्रणिपेतुर्मनीषिणम् ॥४५॥

वसिष्ठस्त्वथ तान् दृष्ट्वा समयेन महाद्युतिः ।
सगरं वारयामास तेषां दत्त्वाभयं तदा ॥४६॥

सगरः स्वां प्रतिज्ञां तु गुरोर्वाक्यं निश्म्य च ।
धर्म्मं जघान तेषां वै वेशानन्यांश्चकार ह ॥४७॥

अर्द्ध शकानां शिरसो मुण्डयित्वा व्यसर्जयत् ।
यवनानां शिरः सर्व्वं काम्बोजानां तथैव च ॥४८॥

पारदा मुक्तकेशाश्च पह्लवाः श्मश्रुधारिणः ।
निःस्वाध्यायवषट्काराः कृतास्तेन महात्मना ॥४९॥

शका यवनकाम्बोजाः पारदाश्च द्विजोत्तमाः ।
कोणिसर्पा माहिषका दर्व्वाश्चोलाः सकेरलाः ॥५०॥

सर्व्वे ते क्षत्रिया विप्रा धर्म्मस्तेषां निराकृतः ।
वसिष्ठवचनाद्राज्ञा सगरेण महात्मना ॥५१॥

स धर्म्मविजयी राजा विजित्येमां वसुन्धराम् ।
अश्वं प्रचारयामास वाजिमेधाय दीक्षितः ॥५२॥

तस्य चारयतः सोऽश्वः समुद्रे पूर्व्वदक्षिणे ।
वैलासमीपेऽपहृतो भूमिं चैव प्रवेशितः ॥५३॥

स तं देशं तदा पुत्रैः खानयामास पार्थिवः ।
आसेदुस्ते तदा तत्र ख्न्यमाने महार्णवे ॥५४॥

तमादिपुरुषं देवं हरिं कृष्णं प्रजापतिम् ।
विष्णुं कपिलरूपेण स्वपन्तं पुरुषं तदा ॥५५॥

तस्य चक्षुःसमुत्थेन तेजसा प्रतिबुध्यतः ।
दग्धाः सर्व्वे मुनिश्रेष्ठाश्चत्वारस्त्ववशेषिताः ॥५६॥

बर्हिकेतुः सुकेतुश्च तथआ धर्म्मरथो नृपः ।
शूरः पञ्चनदश्चैव तस्य वंशकरा नृपाः ॥५७॥

प्रादाच्च तस्मै भगवान् हरिर्नारायणो वरम् ।
आक्षयं वंशमिक्ष्वाकोः कीर्त्तिं चाप्यनिवर्त्तिनीम् ॥५८॥

पुत्रं समुद्रं च विभुः स्वर्गे वासं तथाक्षयम् ।
समुद्रश्चार्ध्यमादाय ववन्दे तं महीपतिम् ॥५९॥

सागरत्वं च लेभे स कर्म्मणा तेन तस्य ह ।
तं चाश्वमेधिकं सोऽश्वं समुद्रादुपलब्धवान् ॥६०॥

आजहाराश्वमेधानां शतं स सुमहातपाः ।
पुत्राणां च सहस्राणि षष्टिस्तस्येति नः श्रुतम् ॥६१॥

मुनय ऊचुः
सगरास्यात्मजा धीराः कथं जाता महाबलाः ।
विक्रान्ताः षष्टिसाहस्राः चिधिना केन सत्तम ॥६२॥

लोमहर्षण उवाच
द्वे भार्य्ये सगरस्यास्तां तपसा दग्धकिल्विषे ।
ज्येष्ठा विदर्भदुहिता केशिनी नाम नामतः ॥६३॥

कनीयसी तु महती पत्नी परमधर्म्मिणी ।
अरिष्टनेमिदुहिता रूपेणाप्रतिमा भुवि ॥६४॥

प्रौर्व्वस्ताभ्यां वरं प्रादात्तद्बुध्यध्वं द्विजोत्तमाः ।
षष्टिं पुत्रसहस्राणि गृह्णात्वेका नितम्बिनी ॥६५॥

एकं वंशधरं त्वेका यथेष्टं वरयत्विति ।
तत्रैका जगृहे पुत्रान् षष्टिसाहस्रसम्मितान् ॥६६॥

एकं वंशधरं त्वेका तथेत्याह ततो मुनिः ।
राजा पञ्चजनो नाम बभूव स महाद्युतिः ॥६७॥

इतरा सुषुवे तुम्बीं बीजपूर्णामिति श्रुतिः ।
तत्र षष्टिसहस्राणि गर्भास्ते तिलसम्मिताः ॥६८॥

संबभूवुर्यथाकालं ववृधुश्च यथासुखम् ।
घृतपूर्णेषु कुम्भेषु तान् गर्भान्निदधे ततः ॥६९॥

घात्रीश्चैकैकशः प्रादात्तावतीः पोषणे नृपः ।
ततो दशसु मासेषु समुत्तस्थुर्यथाक्रमम् ॥७०॥

कुमारास्ते यथाकालं सगरप्रीतिवर्द्धनाः ।
षष्टिपुत्रसहस्राणि तस्यैवमभवन् द्विजाः ॥७१॥

गर्भादलाबुमध्याद्वै जातानि पृथिवीपतेः ।
तेषां नारायणं तेजः प्रविष्टानां महात्मनाम् ॥७२॥

एकः पञ्चजनो नाम पुत्रो राजा बभूव ह ।
शूरः पञ्चजनस्यासीदंशुमान्नाम वीर्य्यवान् ॥७३॥

दिलीपस्तस्य तनयः खट्वाङ्ग इति विश्रुतः ।
येन स्वर्गादिहागत्य मुहूर्त्त प्राप्य जीवितम् ॥७४॥

त्रयोऽभिसन्धिता लोका बुद्धया सत्येन चानघाः ।
दिलीपस्य तु दायादो महाराजो भगीरथः ॥७५॥

यः स गङ्गां सरिच्छ्रेष्ठामवातारयत प्रभुः ।
समुद्रमानयच्चैनां दुहितृत्वेऽप्यकल्पयत् ॥७६॥

तस्माद्भागीरथी गङ्गा कथ्यते वंशचिन्तकैः ।
भगीरथसुतो राजा श्रुता इत्यभिविश्रुतः ॥७७  ।

नाभागस्तु श्रुतस्यासीत् पुत्रः परमधार्म्मिकः ।
अम्बरीषस्तु नाभागिः सिन्धुद्वीपपिताभवत् ॥७८॥

अयुताजित्तु दायादः सिन्धुद्वीपस्य वीर्य्यवान् ।
अयुताजित्सुतस्त्वीसीदृतुपर्णो महायशाः ॥७९॥

दिव्याक्षहृदयज्ञो वै राजाच नलसखो बली ।
ऋतुपर्णसुतस्त्वासीदात्तपर्णिर्महायशाः ॥८०॥

सुदासस्तस्य तनयो राजा इन्द्रसखोऽभवत् ।
सुदासस्य सुतः प्रोक्तः सौदासो नाम पार्थिवः ॥८१॥

ख्यातः कल्माषपादो वै राजा मित्रसहोऽभवत् ।
कल्माषपादस्य सुतः सर्व्वकर्म्मेति विश्रुतः ॥८२॥

अनरण्यस्तु पुत्रोऽभूद्विश्रुतः सर्व्वकर्म्मणः ।
अनरण्यसुतो निघ्नो निघ्नतो द्वौ बभूवतुः ॥८३॥

अनमित्रो रघुश्चैव पार्थिवर्षभसत्तमौ ।
अनमित्रसुतो राजा विद्वान् दुलिदुहोऽभवत् ॥८४॥

दिलीपस्तनयस्तस्य रामस्य प्रपितामहः ।
दीर्घबाहुर्दिलीपस्य रघुर्नाम्ना सुतोऽभवत् ॥८५॥

अयोध्यायां महाराजो यः पुरासीन्महाबलः ।
अजस्तु राघवो जज्ञे तथा दशरथोऽप्यजात् ॥८६॥

रामो दशरथाज्जज्ञे धर्म्मात्मा सुमहायशः
रामस्य तनयो जज्ञे कुश इत्यभिसंज्ञितः ॥८७॥

अतिथिस्तु कुशाज्जज्ञे धर्म्मात्मा सुमहायशाः ।
अतिथेस्त्वभवत्पुत्रो निषधो नाम वीर्य्यवान् ॥८८॥

निषधस्य नलः पुत्रो नभः पुत्रो नलस्य तु ।
नभस्य पुण्डरीकस्तु क्षेमधन्वा ततः स्मृतः ॥८९॥

क्षेमधन्वसुतस्त्वासीद्देवानीकः प्रतापवान् ।
आसीदहीनगुर्नाम देवानीकात्मजः प्रभुः ॥९०॥

अहीनगोस्तु दायादः सुधन्वा नाम पार्थिवः ।
सुधन्वनः सुतश्चापि ततो जज्ञे शलो नृपः ॥९१॥

उक्यो नाम म धर्म्मात्मा शलपुत्रो बभूव ह ।
वज्रनाभः सुतस्तस्य नलस्तस्य महात्मनः ॥९२॥

नलौ द्वावेव विख्यातौ पुराणे मुनिसत्तमाः ।
वीरसेनात्मजश्चैव यश्चेक्ष्वाकुकुलोद्वहः ॥९३॥

इक्ष्वाकुवंशप्रभवाः प्राधान्येन प्रकीर्त्तिताः ।
एते विवस्वतो वंशे राजानो भूरितेजसः ॥९४॥

पठन् सम्यगिमां सृष्टिमादित्यस्य विवस्वतः ।
श्राद्धदेवस्य देवस्य प्रजानां पुष्टिदस्य च ।
प्रजावानेति सायुज्यमादित्यस्य विवस्वतः ॥९५॥

इति श्रीब्राह्मे महापुराणे आदित्यवंसानुकीर्त्तनं नामाष्टमोऽध्यायः ॥८॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP