संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः २११

ब्रह्मपुराणम् - अध्यायः २११

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


कृष्णमानुषोत्सर्गकथनम्
व्यास उवाच
इत्युक्तो दारुकः कृष्णं प्रणिपत्य पुनः पुनः ।
प्रदक्षिणं च बहुशः कृत्वा प्रायाद्यथोदितम् ॥१॥

स च गत्वा तथा चक्रे द्वारकायां तथाऽऽर्जुनम् ।
आनिनाय महाबुद्धिं वज्रं चक्रे तथा नृपम् ॥२॥

भगवानापि गोविन्दो वासुदेवात्मकं परम् ।
ब्रह्मात्मनि समारोप्य सर्वभूतेष्वधारयत् ॥३॥

स मानयन्द्विजवचो दुर्वासा यदुवाच ह ।
योगयुक्तोऽभत्पादं कृत्वा जानुनि सत्तमाः ॥४॥

संप्राप्तो वै जरा नाम तदा तत्र स लुब्धकः ।
मुशलशेषलोहस्य सायकं धारयन्परम् ॥५॥

स तत्पादं मृगाकारं समवेक्ष्य व्यवस्थितः ।
ततो विव्याध तेनैव तोमरेण द्विजोत्तमाः ॥६॥

गतश्च ददृशे तत्र चतुर्बाहुधरं नरम् ।
प्रणिपत्याऽऽह चैवैनं प्रसीदेति पुनः पुनः ॥७॥

अजानता कृतमिदं मया हरिणशङ्कया ।
क्षम्यतामात्मपापेन दग्धं मा दग्धुमर्हसि ॥८॥

व्यास उवाच
ततस्तं भगवानाह नास्ति ते भयमण्वपि ।
गच्छ त्वं मत्प्रसादेन लुब्ध स्वर्गेश्वरास्पदम् ॥९॥

व्यास उवाच
विमानमागतं सद्यस्तद्वाक्यसमनन्तरम् ।
आरुह्य प्रययौ स्वर्गं लुब्धकस्तत्प्रसादतः ॥१०॥

गते तस्मिन्स भगवान्संयोज्याऽऽत्मानमात्मनि ।
ब्रह्मभूतेऽव्ययेऽचिन्त्ये वासुदेवमयेऽमले ॥११॥

अजन्मन्यजरेऽनाशिन्यप्रमेयेऽखिलात्मनि ।
त्यक्त्वा स मानुषं देहमवाप त्रिविधां गतिम् ॥१२॥

इति श्रीमहापुराणे आदिब्राह्मे व्यासर्षिसंवादे श्रीकृष्णचरिते कृष्णमानुषोत्सर्गकथनं नामैकादशाधिकद्विशततमोऽध्यायः ॥२११॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP