संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ९९

ब्रह्मपुराणम् - अध्यायः ९९

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अथैकोनशततमोऽध्यायः
ऋणप्रमोचनतीर्थवर्णनम्
ब्रह्मोवाच
ऋणप्रमोचनं नाम तीर्थं वेदविदो विदुः ।
तस्य स्वरूपं वक्ष्यामि श्रृणु नारद तन्मनाः ॥१॥

आसीत्पृथुश्रवा नाम प्रियः कक्षीवतः सुतः ।
न दारसंग्रहं लेभे वैराग्यान्नाग्निपूजनम् ॥२॥

कनीयांस्तु समर्थोऽपि परिवित्तिभयान्मुने ।
नाकरोद्दारकर्मादि नैवाग्नीनामुपासनम् ॥३॥

तत प्रोचुः पितृगणाः पुत्र कक्षीवतः शुभम् ।
ज्येष्ठं चैव कनिष्ठं च पृथक्पृथगिदं वचः ॥४॥

पितर ऊचुः
ऋणत्रयापनोदाय क्रियतां दारसंग्रहः ॥५॥

नेत्युवाच ततो ज्येष्ठः किमृणं केन युज्यते ।
कनीयांस्तु पितॄन्प्राह न योग्यो दारसंग्रहः ॥६॥

ज्येष्ठे सति महाप्राज्ञः परिवित्तिभयादिति ।
तावुभौ पुनरप्येवमूचुस्ते वै पितामहाः ॥७॥

पितर ऊचुः
यातामुभौ गौतमीं तु पुण्यां कक्षीवतः सुतौ ।
कुरुतां गौतमीस्तनानं सर्वाभीष्टप्रदायकम् ॥८॥

गच्छतां गौतमीं गङ्गां लोकत्रितयपावनीम् ।
स्नानं च तर्पणं तस्यां कुरुतां श्रद्धयाऽन्वितौ ॥९॥

दृष्ट्वाऽवनामिता ध्याता गौतमी सर्वकामदा ।
न देशकालजात्यादिनियमोऽत्रावगाहने ॥
ज्येष्ठोऽनृणस्ततो भूयात्परिवित्तिर्न चेतरः ॥१०॥

ब्रह्मोवाच
ततः पृथुश्रवा ज्येष्ठः कृत्वा स्नानं सतर्पणम् ।
त्रयाणामपि लोकानं काक्षीवतोऽनृणोऽभवत् ॥११॥

ततः प्रभृति तत्तीर्थमृणमोचनमुच्यते ।
श्रौतस्मार्तऋणेभ्यश्च इतरेभ्यश्च नारद ॥
तत्र स्नानेन दानेन ऋणी मुक्तः सुखी भवेत् ॥१२॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्मये ऋषमोचनतीर्थवर्णनं नाम नवनवतितमोऽध्यायः ॥९९॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP