संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ५७

ब्रह्मपुराणम् - अध्यायः ५७

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अथ सप्तपञ्चाशत्तमोऽध्यायः
पञ्चतीर्थविधिवर्णनम्
ब्रह्मोवाच
अतः परं प्रवक्ष्यामि पञ्चतीर्थविधिं द्विजाः ।
यत्फलं स्नानदानेन दवताप्रेक्षणेन च ॥१॥

मार्कण्डेयह्रदं गत्वा नरश्चोदङ्मुखः शुचिः ।
निमज्जेत्तत्र वारांस्त्रीनिमं मन्त्रमुदीरयेत् ॥२॥

संसारसागरे मग्नं पापग्रस्तमचेतनम् ।
त्राहि मां भगनेत्रघ्ना त्रिपुरारे नमोऽस्तु ते ॥३॥

नमः शिवाय शान्ताय सर्वपापहराय च ।
स्नानं करोमि देवेश मम नश्यतु पातकम् ॥४॥

नाभिमात्रे जले स्नात्वा विधिवद्देवता ऋषीन् ।
तिलोदकेन मतिमान्पितॄँश्चान्यांश्च तर्पयेत् ॥५॥

स्नात्वा तथैव चाऽऽचम्य ततो गच्छेवालयम् ।
प्रविश्य देवतागारं कृत्वा तं त्रिः प्रदक्षिणम् ॥६॥

मूलमन्त्रेण संपूज्य मार्कण्डेयस्य चेश्वरम् ।
अघोरेण च भो विप्राः प्रणिपत्य प्रसादयेत् ॥७॥

त्रिलोचन नमस्तेऽस्तु नमस्ते शशिभूषण ।
त्राहि मां त्वं विरूपाक्ष महादेव नमोऽस्तु ते ॥८॥

मार्कण्डेयह्रदे त्वेवं स्नात्वा दृष्ट्वा च शंकरम् ।
दशानामश्वमेधानां फलं प्राप्नोति मानवः ॥९॥

पापैः सर्वैर्विनिर्मुक्तः शिवलोकं स गच्छति ।
तत्र भुवत्वा वरान्भोगान्यावदाभूतसंप्लवम् ॥१०॥

इहलोकं समासाद्य भवेद्विप्रो बहुश्रुतः ।
शांकरं योगमासाद्य ततो मोक्षमवाप्नुयात् ॥११॥

कल्पवृक्षं ततो गत्वा कृत्वा तं त्रिः प्रदक्षिणम् ।
पूजयेत्परया भक्त्या मन्त्रेणानेन तं वटम् ॥१२॥

ओं नमो व्यक्तरूपाय महाप्रलयकारिणे ।
महद्रसोपविष्टाय न्यग्रोधाय नमोऽस्तु ते ॥१३॥

रस्त्वं सदा कल्पे हरेश्चाऽऽयतनं वट ।
न्यग्रोध हर मे पापं कल्पवृक्ष नमोऽस्तु ते ॥१४॥

भक्त्या प्रदक्षिणं कृत्वा नत्वा कल्पवटं नरः ।
सहसा मुच्यते पापज्जीर्णत्वच इवोरगः ॥१५॥

छायां तस्य समाक्रम्य कल्पवृक्षस्य भो द्विजाः ।
ब्रह्महत्यां नरो जह्यात्पापेष्वन्येषु का कथा ॥१६॥

दृष्ट्वा कृष्णाङ्गसंभूतं ब्रह्मतेजोमयं परम् ।
न्यग्रोधाकृतिकं विष्णुं प्रणिपत्य च भो द्विजाः ॥१७॥

राजसूयाश्वमेधाभ्यां फलं प्राप्नोति चाधिकम् ।
तथा स्ववंशमुद्धृत्य विष्णुलोकं स गच्छति ॥१८॥

वैनतेयं नमस्कृत्य कृष्णस्य पुरतः स्थितम् ।
सर्वपापविनिर्मुक्तस्ततो विष्णुपुरं व्रजेत् ॥१९॥

दृष्ट्वा वटं वैनतेयं यः पश्येत्पुरुषोत्तमम् ।
?Bसंकर्षणं सुभद्रां च स याति परमां गतिम् ॥२०॥

प्रविश्याऽऽयतनं विष्णोः कृत्वा तं त्रिः प्रदक्षिणम् ।
संकर्षणं स्वमन्त्रेण भक्त्याऽऽपूज्य प्रसादयेत् ॥२१॥

नमस्ते हलधृग्राम नमस्ते मुशलायुध ।
नमस्ते रेवतीकान्त नमस्ते भक्तवत्सल ॥२२॥

समस्ते बलिनां श्रेष्ठ नमस्ते धरणीधर ।
प्रलम्बारे नमस्तेऽस्तु त्राहि मां कृष्णपूर्वज ॥२३॥

एवं प्रसाद्य चानन्तमजेयं त्रिदशार्चितम् ।
कैलाशिखराकारं चन्द्रात्कान्ततराननम् ॥२४॥

नीलवस्त्रधरं देवं फणाविकटमस्तकम् ।
महाबलं हलधरं कुण्डलैकविभूषितम् ॥२५॥

रौहिणेयं नरो भक्त्या लक्षेदभिमतं फलम् ।
सर्वपापैर्विनिर्मुक्तो विष्णुलोकं स गच्छति॥ ५७.२६॥

आभूतसंप्लवं यावद्भुक्त्वा तत्र सुखं नरः ।
पुण्यक्षयादिहाऽऽगत्य प्रवरे योगिनां कुले ॥२७॥

ब्राह्मणप्रवरो भूत्वा सर्वशास्त्रार्थपारगः ।
ज्ञानं तत्र समासाद्य मुक्तिं प्राप्नोति दुर्लभाम् ॥२८॥

एवमभ्यर्च्य हलिनं ततः कृष्णं विचक्षणः ।
द्वादशाक्षरमन्त्रेण पूर्जयेत्सुसमाहितः ॥२९॥

द्विषट्कवर्णमन्त्रेण भक्त्या ये पुरुषोत्तमम् ।
पूजयन्ति सदा धीरास्ते मोक्षं प्राप्नुवन्ति वै ॥३०॥

न तां गतिं सुरा यान्ति योगिनो नैव सोमपाः ।
यां गतिं यान्ति भो विप्रा द्वादशाक्षरतत्पराः ॥३१॥

तस्मात्तेनैव मन्त्रेण भक्त्या कृष्णं जगद्गुरुम् ।
संपूज्य गन्धपूष्पाद्यैः प्रणिपत्य प्रसादयेत् ॥३२॥

जय कृष्ण जगन्नाथ जय सर्वाघनाशन ।
जय चाणूरकेशिघ्न जय कंसनिषूदन ॥३३॥

जय पद्मपलाशाक्ष जय चक्रगदाधर ।
जय नीलाम्बुदश्याम जय सर्वसुखप्रदे ॥३४॥

जय देव जगत्पूज्य जय संसारनाशन ।
जय लोकपते नाथ जय वाञ्छाफलपद ॥३५॥

संसारसागरे घोरे निःसारे दुःखफेनिले ।
निमग्नोऽहं सुरश्रेष्ठ त्राहि मां पुरषोत्तम ॥३६॥

नानारोगोर्मिकलिले मोहावर्तमुदुस्तरे ।
निमग्नोऽहं सुरश्रेष्ठ त्राहि मां पुरुषोत्तम ॥३७॥

एवं प्रसाद्य देवेशं वरदं भक्तवत्सलम् ।
सर्वपापहरं देवं सर्वकामफलप्रदम् ॥३८॥

पीनांसं द्विभुजं कृष्णं पद्मपत्रायतेक्षणम् ।
महोरस्कं महाबाहुं पीतवस्त्रं शुभाननम् ॥३९॥

शङ्खचक्रगदापाणिं मुकुटाङ्गदभूषणम् ।
सर्वलक्षणसंयुक्तं वनमालाविभूषितम् ॥४०॥

दृष्ट्वा नरोऽञ्जलिं कृत्वा दण्डवत्प्रणिपत्य च ।
अश्वमेधसहस्राणां फलं प्राप्नोति वै द्विजाः ॥४१॥

यत्फलं सर्वतीर्थेषु स्नाने दाने प्रकीर्तितम् ।
नरस्तत्फलमाप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥४२॥

यत्फलं सर्वरत्नाद्यैरिष्टे बहुसुवर्मके ।
नरस्तत्फलमाप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥४३॥

यत्फलं सर्वदानेन व्रतेन नियमेन च ।
नरस्तत्फलमाप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥४४॥

यत्फलं सर्ववेदेषु सर्वयज्ञेषु यत्फलम् ।
तत्फलं समवाप्नोति नरः कृष्णं प्रणम्य च ॥४५॥

तपोभिर्विविधैरुग्रैर्यत्फलं समुदाहृतम् ।
नरस्तत्फलमाप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥४६॥

यत्फलं ब्रह्मचर्येण सम्यक्चीर्णेन तत्कृतम् ।
नरस्तत्फलमाप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥४७॥

यत्फलं च गृहस्थस्य यथोक्ताचारवर्तिनः ।
नरस्तत्फलमाप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥४८॥

यत्फलं वनवासेन वानप्रस्थस्य कीर्तितम् ।
नरस्तत्फलमाप्नोति दृष्ट्वा कृष्णं प्रणम्य च ॥४९॥

संन्यासेन यथोक्तेन यत्फलं समुदाहृतम् ।
नरस्तत्फलमाप्नो ति दृष्ट्वा कृष्णं प्रणम्य च ॥५०॥

किं चात्र बहुनोक्तेन माहात्म्ये तस्य भो द्विजाः ।
दृष्ट्वा कृष्णं नरो भक्त्या मोक्षं प्राप्नोति दुर्लभम् ॥५१॥

पापैर्विमुक्तः शुद्धात्मा कल्पकोटिसमुद्भवैः ।
श्रिया परमया युक्तः सर्वैः समुदितो गुणैः ॥५२॥

सर्वकामेसमृद्धेन विमानेन सुवर्चसा ।
त्रिसप्तकुलमुद्धृत्य नरो विष्णुपुरं व्रजेत् ॥५३॥

तत्र कल्पशतं यावद्भुक्त्वा भोगान्मनोरमान् ।
गन्धर्वाप्सरसैः सार्धं यथा विष्णुश्चतुर्भुजः ॥५४॥

च्युतस्तस्मादिहाऽऽयातो विप्राणां प्रवरे कुले ।
सर्वज्ञः सर्ववेदी च जायते गतमत्सरः ॥५५॥

स्वधर्मनिरतः शान्तो दाता भूतहिते रतः ।
आसाद्य वैष्णवं ज्ञानं च जायते गतमत्सरः ॥५६॥

ततः संपूज्य मन्त्रेण सुभद्रां भक्तवत्सलाम् ।
प्रसादयेत्ततो विप्राः प्रणिपत्य कृताञ्जलिः ॥५७॥

नमस्ते सर्वगे देवि नमस्ते शुभसोख्यदे ।
त्राहि मां पद्मपत्राक्षि कात्यायनि नमोऽस्तु ते ॥५८॥

एवं प्रसाद्य तां देवीं जगद्धात्रीं जगद्धिताम् ।
बलदेवस्य भगिनीं सुभद्रां वरदां शिवाम् ॥५९॥

कामगेन विमानेन नरो विष्णुपुरं व्रजेत् ।
आभूतसंप्लवं यावत्क्रीडित्वा तत्र देववत् ॥६०॥

इह मानुषतां प्राप्तो ब्राह्मणो वेदविद्भवेत् ।
प्राप्य योगं हरेस्तत्र मोक्षं च लभते ध्रुवम् ॥६१॥

इति श्रीमहापुराण आदिब्राह्मे स्वयंभुऋषिसंवादे कृष्णदर्शनमाहत्म्यं नाम सप्तपञ्चाशत्तमोऽध्यायः ॥५७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP