संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ६

ब्रह्मपुराणम् - अध्यायः ६

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


आदित्योत्पत्ति-कथनम्
लोमहर्षण उवाच
विवस्वान् कश्यपाज्जज्ञे दाक्षायण्यां द्विजोत्तमाः ।
तस्य भार्य्याभवत्संज्ञा त्वाष्ट्री देवी विवस्वतः ॥१॥

सुरेश्वरीति विख्याता त्रिपु लोकेषु भाविनी ।
सा वै भार्य्या भगवतो मार्त्तण्डस्य महात्मनः ॥२॥

भर्त्तृरूपेण नातुष्यद्रूपयोवनशालिनी ।
संज्ञा नाम सुतपसा सुदीप्तेन समन्विता ॥३॥

आदित्यस्य हि तद्रूपं मण्डलस्य सुतेजसा ।
गात्रेषु परिदग्धं वै नातिकान्तमिवाभवत् ॥४॥

न खल्वयं मृतोऽण्डस्थ इति स्नेहादभाषत ।
अजानन् काश्यपस्तस्मान्मार्त्तण्ड इति चोच्यते ॥५॥

तेजस्त्वभ्यधिकं तस्य नित्यमेव विवस्वतः ।
येनातितापयामास त्रींल्लोकान् कश्यपात्मजः ॥६॥

त्रीण्यपत्यानि भो विप्रा संज्ञायां तपतां वरः ।
आदित्यो जनयामास कन्यां द्वौ च प्रजापती ॥७॥

मनुर्वैवस्वतः पूर्व्वं श्राद्धदेवः प्रजापतिः ।
यमश्च यमुना चैव यमजौ सम्बभूवतुः ॥८॥

श्यामवर्णन्तु तद्रूपं संज्ञा दृष्ट्वा विवस्वतः ।
असहन्ती तु स्वां छायां सवर्णां निर्म्ममे ततः ॥९॥

मायामयी तु सा संज्ञा तस्यां छायासमुत्थिताम् ।
प्राञ्जलिः प्रणता भूत्वा छाया संज्ञां द्विजोत्तमाः ॥१०॥

उवाच किं मया कार्य्यं कथयस्व शुचिस्मिते ।
स्थितास्मि तव निर्देशे शाधि मां वरवर्णिनि ॥११॥

संज्ञोवाच
अहं यास्यामि भद्रं ते स्वमेव भवनं पितुः ।
त्वयैव भवने मह्यं वस्तव्यं निर्विशङ्कया ॥१२॥

इमौ च बालकौ मह्यं कन्या चेयं सुमध्यमा ।
सम्भाव्यास्ते न चाख्येयमिदं भगवते क्वचित् ॥१३॥

सवर्णोवाच
आ कचग्रहणाद्देवि आ शापान्नैव कर्हिचित् ।
आख्यास्यामि नमस्तुभ्यं गच्छ देवि यथासुखम् ॥१४॥

लोमहर्षण उवाच
समादिश्य सवर्णान्तु तथेत्युक्ता तया च सा ।
त्वष्टुः समीपमगमद्व्रीडितेव तपस्विनी ॥१५॥

पितुः समीपगा सा तु पित्रा निर्भर्त्सिता शुभा ।
भर्त्तुः समीपं गच्छेति नियुक्ता च पुनः पुनः ॥१६॥

आगच्छद्वडवा भूत्वाच्छाद्य रूपमनिन्दिता ।
कुरूनथोत्तरान् गत्वा तृणान्यथ चचार ह ॥१७

द्वितीयायान्तु संज्ञायां संज्ञेयमिति चिन्तयन् ।
आदित्यो जनयामास पुत्रमात्मसमं तदा ॥१८॥

पूर्व्वजस्य मनोर्विप्राः सदृशोऽयमिति प्रभुः ।
मनुरेवाभवन्नाम्ना सावर्ण इति चोच्यते ॥१९॥

द्वितीयो यः सुतस्तस्याः स विज्ञेय शनैश्चरः ।
संज्ञा तु पार्थिवी विप्राः स्वस्य पुत्रस्य वै तदा ॥२०॥

चकाराभ्यधिकं स्नेहं न तथा पूर्व्वजेषु वै ।
मनुस्तस्याः क्षमत्तत्तु यमस्तस्या न चक्षमे ॥२१॥

स वै रोषाच्च बाल्याच्च बाविनोऽर्थस्य वानघ ।
पदा सन्तर्ज्जयामास संज्ञां वैवस्वतो यमः ॥२२॥

तं शशाप ततः क्रधात् सावर्णजननी तदा ।
चरणः पततामेष तवेति भृशदुःखिता ॥२३॥

यमस्तु तत्पितुः सर्व्वं प्राञ्जलिः प्रत्यवेदयत् ।
भृशं शापभयोद्विग्नः संज्ञावाक्यैर्विशङ्कितः ॥२४॥

शापोऽयं विनिवर्त्तव प्रोवाच पितरं द्विजाः ।
मात्रा स्नेहेन सर्व्वेषु वर्त्तितव्यं सुतेषु वै ॥२५॥

सेयमास्मानपास्येह विवस्वन् सम्बुभूषति ।
तस्यां मयोद्यतः पादो न तु देहे निपातितः ॥२६॥

बाल्याद्वा यदि वा लौल्यान्मोहात्तत्क्षन्तुमर्हसि ।
शप्तोऽहमस्मि लोकेश जनन्या तपतां वर ॥२७॥

तव प्रसादाच्चरणो न पतेन्मम गोपते
विवस्वानुवाच
असंशयं पुत्र महृद्भविष्यत्यत्र कारणम् ।
येन त्वामाविशत् क्रोधो धर्म्मज्ञं सत्यवादिनम् ॥२८॥

न शक्यमेतन्मिथ्या तु कर्त्त मातृवचस्तव ।
कृमयो मांसमादाय यास्यन्त्यवनिमेव च ॥२९॥

कृतमेवं वचस्तथ्यं मातुस्तव भविष्यति ।
शापस्य परिहारेण त्वं च त्रातो भविष्यसि ॥३०॥

आदित्यश्चाब्रवीत् संज्ञां किमर्थं तनयेषु वै॥
तुल्येष्वभ्यधिकः स्नेह एकस्मिन् क्रियते त्वया ॥३१॥

सा तत् परिहरन्ती तु नाचचक्षे विवस्वते ।
स चात्मानं समाधाय योगात्तथ्यमपश्यत ॥३२॥

तां शप्तुकामो भगवान्नाशपन्मुनिसत्तमाः ।
मूर्द्धजेषु निजग्राह स तु तां मुनिसत्त्माः ॥३३॥

ततः सर्व्वं यथावृत्तमाचचक्षे विवस्वते ।
विवस्वानथ तच्छ्रुत्वा क्रुद्धस्त्वष्टारमभ्यगात् ॥३४॥

दृष्ट्वा तु तं यथान्यायमर्च्चयित्वा विभावसुम् ।
निर्दग्धुकामं रोषेण सान्त्वयामास वै तदा ॥३५॥

त्वष्टोवाच
तवातितेजसाविष्टमिदं रूपं न शोभते ।
असहन्ती च संज्ञा सा वने चरति शाद्वले ॥३६॥

द्रष्टा हि तां भवानद्य स्वां भार्य्यां शुभचारिणीम् ।
श्लाघ्यां योगबलोपेतां योगमास्थाय गोपते ॥३७॥

अनुकूलं तु ते देव यदि स्यान्मम सम्मतम् ।
रूपं निर्वर्त्तयाम्यद्य तव कान्तमरिन्दम ॥३८॥

ततोऽभ्युपागमत्त्वष्टा मार्त्तव्डस्य विवस्वतः ।
भ्रमिमारोप्य तत्तेजः सातयामास भो द्विजाः ॥३९॥

ततो निर्भासितं रूपं तेजसा संहतेन वै ।
कान्तात् कान्ततरं द्रष्टुमधिकं शुसुभ तदा  ॥४०॥

ददर्श योगमास्ताय स्वां भार्य्यां वडवां ततः ।
अधृष्यां सर्व्वभूतानां तेजसा नियमेन च ॥४१॥

वडवावपुषा विप्राश्चरन्तीमकुतोभयाम् ।
सोऽश्वरूपेण भगवांस्तां मुखे समभावयत् ॥४२॥

मैथुनाय विचेष्टन्तीं परपुंसोऽवशङ्कया ।
सा तन्निरवमच्छुक्रं नासिकाभ्यां विवस्वतः ॥४३॥

देवौ तस्यामजायेतामश्विनौ भिषजां वरौ ।
नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनाविति ॥४४॥

मार्त्तण्डस्यात्मजावेतावष्टमस्य प्रजापतेः ।
तां तु रूपेण कान्तेन दर्शयामास भास्करः ॥४५॥

सा तु दृष्ट्वैव भर्त्तारं तुतोष मुनिसत्तमाः ।
यमस्तु कर्म्मणा तेन भृशं पीडितमानसः ॥४६॥

धर्मेण रञ्जयामास धर्म्मराज इमाः प्रजाः ।
स लेभे कर्म्मणा तेन शुभेन परमद्युतिः ॥४७॥

पितणामाधिपत्यं च लोकपालत्वमेव च ।
मनुः प्रजापतिस्त्वासीत्सावर्णिः स तपोधनाः ॥४८॥

भाव्यः समागते तस्मिन्मनुः सावर्णिकेऽनतरे ।
मेरुपृष्ठे तपो नित्यमद्यापि स चरत्युत ॥४९॥

भ्राता शनैस्चरस्तस्य ग्रहत्वं स तु लब्धवान् ।
त्वष्टा तु तेजसा तेन विष्णोश्चक्रमकल्पयत् ॥५०॥

तदप्रतिहतं युद्धे दानवान्तचिकीर्षया ।
यवीयसी तु साप्यासीद्यामी कन्या यशस्विनी ॥५१  ।

अभवच्च सरिच्छ्रेष्ठा यमुना लोकपावनी
मनुरित्युच्यते लोके सावर्ण इति चोच्यते ॥५२॥

द्वितीयो यः सुतस्तस्य मनोर्भ्राता शनैश्चरः ।
ग्रहत्वं स च लेभे वै सर्व्वलोकाभिपूजितः ॥५३॥

य इदं जन्म देवानां श्रुणुयान्नारसत्तमः ।
आपदं प्राप्य मुच्येत प्राप्नुयाच्च महद्यशः ॥५४॥

इति श्रीब्रह्मे महापुराणे आदित्योत्पत्तिकथनं नाम षष्ठोऽध्यायः ॥६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP