संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १६६

ब्रह्मपुराणम् - अध्यायः १६६

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


पतत्रितीर्थवर्णनम्
ब्रह्मोवाच
पतित्रितीर्थमाख्यातं रोगघ्नं पापनाशनम् ।
तस्य श्रवणमात्रेण कृतकृत्यो भवेन्नरः ॥१॥

बभूवतुः कश्यपस्य सुतावरुणवीश्वरौ ।
संपातिश्च जटायुश्च संभवेतां तदन्वये ॥२॥

तार्क्ष्यप्रजापतेः पुत्रावरुणो गरुडस्तथा ।
तदन्वये च संभूतः संपातिः पतगोत्तमः ॥३॥

जटायुरिति विख्यातो ह्यपरः सोदरोऽनुजः ।
अन्योन्यस्पर्धया युक्तावुन्मत्तौ स्वबलेन तौ ॥४॥

संजग्मतुर्दिनकरं नमस्कर्तुं विहायसि ।
यावत्सूर्यस्य सामीप्यं प्राप्तौ तौ विहगोत्तमौ ॥५॥

दग्धपक्षावुभौ श्रान्तौ पतितौ गरिमूर्धनि ।
बान्धवौ पतितौ दृष्ट्वा निश्चेष्टौ गतचेतसौ ॥६॥

तावद्‌दुःखाभिभूतोऽसावरुणः प्राह भास्करम् ।
तौ दृष्ट्वा त्वरुणः सूर्यं प्राहेदं पतितौ भुवि ॥
आश्वासयैतौ तिग्मांशो यावन्नैतौ मरिष्यतः ॥७॥

ब्रह्मोवाच
तथेत्युक्त्वा दिनकरो जीवयामास तौ खगौ ।
गरुडोऽपि तयोः श्रुत्वा अवस्थां सह विष्णुना ॥८॥

आगत्याऽऽश्वासयामास सुखं चक्रे च नारद ।
सर्व एव तदा जग्मुर्गङ्गां तापापनुत्तये ॥९॥

जटायुश्चारुणश्चैव संपातिर्गरुडस्तथा ।
सूर्यो विष्णुस्तत्प्रययौ तत्तीर्थं बहुपुण्यदम् ॥१०॥

पतत्रितीर्थमाख्यातं विषघ्नं सर्वकामदम् ।
स्वयं सूर्यस्तथा विष्णुः सुपर्णेनारुणेन च ॥११॥

आसते गौतमीतीरे तथैव वृषभध्वजः ।
त्रयाणामपि देवानां स्थितेस्तत्तीर्थमुत्तमम् ॥१२॥

तत्र स्नात्वा शुचिर्भूत्वा नमस्कुर्यात्सुरानिमान् ।
आधिव्याधिविनिर्मुक्तः स परं सौख्यमाप्नुयात् ॥१३॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये पतत्रितीर्थवर्णनं नाम षट्षष्ट्यधिकशततमोऽध्यायः ॥१६६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP