संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ६४

ब्रह्मपुराणम् - अध्यायः ६४

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अथ चतुःषष्टितमोऽध्यायः
महाज्यैष्ठीप्रशंसावर्णनम्
ब्रह्मोवाच
यदा भवेन्महाज्यैष्ठी राशिनक्षत्रयोगतः ।
प्रयत्नेन तदा मर्त्यैर्गन्तव्यं पुरुषोत्तमम् ॥१॥

कृष्णं दृष्ट्वा महाज्यैष्ठ्यां रामं भद्रां च भो द्विजाः ।
नरो द्वादशयायत्रायाः फलं प्राप्नोति चाधिकम् ॥२॥

प्रयागे च कुरुक्षेत्रे नैमिषे पुष्करे गये ।
गङ्गाद्वारे कुशावर्ते गङ्गासागरसंगमे॥ ६४.३॥

कोकामुखे शूकरे च मथुरायां मरुस्थले ।
शालग्रामे वायुतीर्थे मन्दरे सिन्धुसागरे ॥४॥

पिण्डारके चित्रकूटे प्रभासे कनखले द्विजाः ।
शङ्खोद्वारे द्वारकाया तथा बदरिकाश्रमे ॥५॥

लोहकुण्डे चाश्वतीर्थे सर्वपापप्रमोचने ।
कामालये कोटितीर्थे तथा चामरकण्टके ॥६॥

लोहर्गले जम्बुमार्गे सोमतीर्थे पृथूदके ।
उत्पलावर्तके चैव पृथुतुङ्गे सुकुब्जके ॥७॥

एकाम्रके च केदारे काश्यां च विरजे द्विजाः ।
कालञ्जरे च गोकर्णे श्रीशैले गन्धमादने ॥८॥

महेन्द्रे मलये विन्ध्ये पारियात्रे हिमालये ।
सह्ये च शुक्तिमन्ते च गोमन्ते चार्बुदे तथा ॥९॥

गङ्गायां सर्वतीर्थेषु यामुनेषु च भो द्विजाः ।
सारस्वतेषु गोमत्यां ब्रह्मपुत्रेषु सप्तसु ॥१०॥

गोदावरी भीमरथी तुङ्गभद्रा च नर्मदा ।
तापी पयोष्णी कावेरी शिप्रा चर्मण्वती द्विजाः ॥११॥

वितस्ता चन्द्रभागा च शतद्रुर्बाहुदा तथा ।
ऋषिकुल्या कुमारी च विपाशाचदृषद्वती ॥१२॥

सरयूर्नाकगङ्गा च गण्डकी च महानदी ।
कौशिकी करतोया च त्रिस्रोता मधुवाहिनी ॥१३॥

महानदी वैतरणी याश्चान्या नानुकीर्तिताः ।
अथवा किं बहूक्तेन भाषितेन द्विजोत्तमाः ॥१४॥

पृथिव्यां सर्वतीर्थेषु सर्वेष्वायतनेषु च ।
सागरेषु च शैलेषु नदीषु च सरःसु च ॥१५॥

यत्फलं सर्वतीर्थेषु सर्वेष्वायतनेषु च ।
तत्फलं कृष्णमालोक्य महाज्यैष्ठ्यां लभेन्नरः ॥१६॥

तस्मात्सर्वप्रयत्नेन गन्तव्यं पुरुषोत्तमे ।
महाज्यैष्ठ्यां मुनिश्रेष्ठ सर्वकामफलेप्सुभिः ॥१७॥

दृष्ट्वा रामं महाज्येष्ठं कृष्णं सुभद्रया सह ।
विष्णुलोकं नरो याति समुद्धृत्य समं कुलम् ॥१८॥

भुक्त्वा तत्र वरान्भोगान्यावदाभूतसंप्लवम् ।
पुण्यादिहाऽऽगत्य चतुर्वेदी द्विजो भवेत् ॥१९॥

स्वधर्मनिरतः शान्तः कृष्णभक्तो जितेन्द्रियः ।
वैष्णवं योगमास्थाय ततो मोक्षमवाप्नुयात् ॥२०॥

इति श्रीमहापुराणे आदिब्राह्मे स्वयंभुऋषिसंवादे महाज्येष्ठीप्रशंसावर्णनं नाम चतुःषष्टितमोऽध्यायः ॥६४॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP