संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ९०

ब्रह्मपुराणम् - अध्यायः ९०

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अथ नवतितमोऽध्यायः
गरुडतीर्थवर्णनम्
ब्रह्मोवाच
गारुडं नाम यत्तीर्थं सर्वविघ्नप्रशान्तिदम् ।
तस्य प्रभावं वक्ष्यामि श्रृणु नारद यत्नतः ॥१॥

मणिनाग इति त्वासीच्छेषपुत्रो महाबलः ॥
गरुडस्य भयाद्भक्त्या तोषयामास शंकरम् ॥२॥

ततः प्रसन्नो भगवान्परमेष्ठी महेश्वरः ।
तमुवाच महानागं वरं वरय पन्नग ॥३॥

नागः प्राह प्रभो मह्यं देहि मे गरुडाभयम् ।
तथेत्याह च तं शंभुर्गरुडादभयं भवेत् ॥४॥

निर्गतो निर्भयो नागो गरुडादरुणानुजात् ।
क्षीरोदशायी यत्राऽऽस्ते क्षीरार्णवसमीपतः ॥५॥

इतश्चेतश्च चरति नागोऽसौ सुखशीतले ।
गरुडोऽपि च यत्राऽऽस्ते तं देशमपि यात्यसौ ॥६॥

गरुडः पन्नगं दृष्ट्वा चरन्तं निर्भयेन तु ।
तं गृहीत्वा महानागं प्राक्षिपत्स्वस्य वेश्मनि ॥७॥

तं बद्ध्वा गारुडैः पाशैर्गरुडो नागसत्तमम् ।
एतस्मिन्नन्तरे नन्दी प्रोवाचेशं जगत्प्रभुम् ॥८॥

नन्दिकेश्वर उवाच
नूनं नागो न चाऽऽयाति भक्षितो बद्ध एव वा ।
गरुडेन सुरेशान जीवन्नागो न संव्रजेत् ॥९॥

ब्रहमोवाच
नन्दिनो वचनं श्रुत्वा ज्ञात्वा शंशुरथाब्रवीत् ॥१०॥

शिव उवाच
गरुडस्य गृहे नागो बद्धस्तिष्ठति सत्वरम् ।
गत्वा तं जगतामीशं विष्णुं स्तुहि जनार्दनम् ॥११॥

बद्धं नागं काश्यपेन मद्वाक्यादानय स्वयम् ।
तत्प्रभोर्वचनं श्रुत्वा नन्दी गत्वा श्रियः पतिम् ॥१२॥

व्यज्ञापयत्स्वयं वाक्यं विष्णुं लोकपरायणम् ।
नारायणः प्रीतमना गरुडं वाक्यमब्रवीत् ॥१३॥

विष्णुरुवाच
विनतात्मज मे वाक्यान्नन्दिने देहि पन्नगम् ।
कम्पमानस्तदाकर्ण्य नेत्युवाच विहंगमः ॥
विष्णुमप्यब्रवीत्कोपात्सुपर्णो नन्दिनोऽन्तिके ॥१४॥

गरुड उवाच
यद्यत्प्रियतमं किंचिद्भृत्येभ्यः प्रभविष्णवः ।
दास्यन्त्यन्ये भावन्नैव मयाऽऽनीतं हरिष्यति ॥१५॥

पश्य देवं त्रिनयनं नागं मोक्ष्यति नन्दिना ।
मयोपपादितं नागं त्वं तु दास्यसि नन्दिने ॥१६॥

त्वां वहामि सदा स्वामिन्मम देयं सदा त्वया ।
मयोपपादितं नागं वक्तुं देहीति नोचितम् ॥१७॥

सतां प्रभूणां नेयं स्याद्वृत्तिः सद्वृत्तिकारिणाम् ।
सन्तो दास्यन्ति भृत्येभ्यो मदुपात्तहरो भवान् ॥१८॥

दैत्याञ्जयसि संग्रामे मद्बलेनैव केश्व ।
अहं महाबलीत्येवं मुधैव श्लाघते भवान् ॥१९॥

ब्रह्मोवाच
गरुडस्येति तद्वाक्यं श्रुत्वा चक्रगदाधरः ।
विहस्य नन्दिनः पार्श्वे पश्यद्भिर्लोकपालकैः ॥२०॥

इदमाह महाबुद्धिर्मां समुह्य कृशो भवान् ।
त्वद्बलादसरान्सर्वाञ्जेष्येऽहं खगसत्तम ॥२१॥

इत्युक्त्वा श्रीपतिर्ब्रह्मञ्शान्तकोपोब्रवीदिदम् ।
वहाङ्गुलिं करस्याऽऽशुकनिष्ठां नन्दिनोऽन्तिके ॥२२॥

गरुडस्य ततो मूर्ध्नि न्यस्येदं पुनरब्रवीत् ।
सत्यं मां वहसे नित्यं पश्य धर्मं विहंगम ॥२३॥

न्यस्तायां च ततोऽङ्गुल्यां शिरः कुक्षौ समाविशत् ।
कुक्षिश्च चरणस्यान्तः प्राविशच्चूर्णितोऽभवत् ॥
ततः कृताञ्जलिदीनो व्यथितो लज्जयाऽन्वितः ॥२४॥

गरुड उवाच
त्राहि त्राहि जगन्नाथ भृत्यं मामपराधिनम् ।
त्वं प्रभुः सर्वलोकानां धर्ता धार्यस्त्वमेव च ॥२५॥

अपराधसहस्राणि क्षमन्ते प्रभविष्णवः ।
कृतापरधेऽपि जने महती यस्य वै कृपा ॥२६ े ॥

वदन्ति मुनयः सर्वे त्वामेव करुणाकरम् ।
रक्षस्वाऽऽर्तं जगन्मातर्मामम्बुजनिवासिनि ॥
कमले बालकं दीनमार्तं तनयवत्सले ॥२७॥

ब्रह्मोवाच
ततः कृपान्विता देवी श्रीरप्याह जनार्दनम् ॥२८॥

कमलोवाच
रक्ष नाथ स्वकं भृत्यं गरुडं विपदं गतम् ।
जनार्दन उवाचेदं नन्दिनं शंभुवाहनम् ॥२९॥

विष्णुरुवाच
नय नागं सगरुडं शंभोरन्तिकमेव च ।
तत्प्रसादाच्च गरुडो महेश्वरनिरीक्षितः ॥
आत्मीयं च पुना रूपं गरुडः समवाप्स्यति ॥३०॥

ब्रह्मोवाच
तथेत्युक्त्वा च वृषभो नागेन गरुडेन च ।
शनैः स शंकरं गत्वा सर्वं तस्मै न्यवेदयत् ॥
शंकरोऽपि गरुत्मन्तं प्रोवाच शशिशेखरः ॥३१॥

शिव उवाच
याहि गङ्गां महाबाहो गौतमीं लोकपावनीम् ।
सर्वकामप्रदां शान्तां तामाप्लुत्य पुनर्वपुः ॥३२॥

प्राप्स्यसे सर्वकामांश्च शतधाऽथ सहस्रधा ।
सर्वपापोपतप्ता ये दुर्दैवोन्मूलितोद्यमाः ॥
प्राणिनोऽभीष्टदा तेषां शरणं खग गौतमी ॥३३॥

ब्रह्मोवाच
तद्वाक्यं प्रणती भूत्वा श्रुत्वा तु गरुडोऽभ्यगात् ।
गङ्गामाप्लुत्य गरुडः शिवं विष्णुं ननाम सः ॥३४॥

ततः स्वर्णमयः पक्षी वज्रदेहो महाबलः ।
वेगी भवन्मुनिश्रेष्ठ पुनर्विष्णुणमियात्सुधीः ॥३५॥

ततः प्रभृति तत्तीर्थं गारुडं सर्वकामदम्  ।
तत्र स्नानादि यत्किञ्चित्करोति प्रयतो नरः ॥
सर्वं तदक्षयं वत्स शिवविष्णुप्रियावहम् ॥३६॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये गरुडतीर्थवर्णनं नाम नवतितमोऽध्यायः ॥९०॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP