संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्| अध्यायः १६९ ब्रह्मपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ ब्रह्मपुराणम् - अध्यायः १६९ ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे. Tags : brahmapuranpuranपुराणब्रह्मपुराणम्संस्कृत अध्यायः १६९ Translation - भाषांतर भिल्लतीर्थवर्णनम्ब्रह्मोवाचभिल्लतीर्थमिति ख्यातं रोगघ्नं पापनाशनम् ।महादेवपदाम्भोजयुगभक्तिप्रदायकम् ॥१॥तत्राप्येवंविधां पुण्यां कथां श्रृणु महामते ।गङ्गाया दक्षिणे तीरे श्रीगिरेरुत्तरे तटे ॥२॥आदिकेश इति ख्यात ऋषिभिः परिपूजितः ।महादेवा लिङ्रूपी सदाऽऽस्ते सर्वकामदः ॥३॥सिन्धुद्वीप इति ख्यातो मुनिः परमधार्मिकः ।तस्य भ्राता वेद इति स चापि परमो ऋषिः ॥४॥तमादिकेशं वै देवं त्रिपुरारिं त्रिलोचनम् ।नित्यं पूजयते भक्त्या प्राप्ते मध्यन्दिने रवौ ॥५॥भिक्षाटनाय वेदोऽपि याति ग्रामं विचक्षणः ।याते तस्मिन्द्विजवरे व्याधः परमधार्मिकः ॥६॥तस्मिन्गिरिवरे पुण्ये मृगयां याति नित्यशः ।अटित्वा विविधान्देशान्मृगान्हत्वा यथासुखम् ॥७॥मुखे गृहीत्वा पानीयमभिषेकाय शूलिनः ।न्यस्य मांसं धनुष्कोट्यां श्रान्तो व्याधः शिवं प्रभुम् ॥८॥आदिकेशं समागत्य न्यस्य मांसं ततो बहिः ।गङ्गां गत्वा मुखे वारिगृहीत्वाऽऽगत्य तं शिवम् ॥९॥यस्य कस्यापि पत्राणि करेणाऽऽदाय भक्तितः ।अपरेण च मांसानि नैवेद्यार्थं च तन्मनाः ॥१०॥आदिकेशं समागत्य वेदेनार्चितमोजसा ।पादेनाऽऽहत्य तां पूजां मुखानीतेन वारिणा ॥११॥स्नापयित्वा शिवंदेवमर्चयित्वा तु पत्रकैः ।कल्पयित्वा तु(समर्पयति)तन्मांसं शिवो मे प्रीयतामिति ॥१२॥नैव किंचित्स जानाति शिवभक्तिंविना शुभाम् ।ततो याति स्वकं स्थानं मांसेन तु यथागतम् ॥१३॥करोत्येतादृ गागत्याऽऽगत्य प्रत्यहमेव सः ।तथाऽपीशस्तुतोषास्य विचित्रा हीश्वरस्थितिः ॥१४॥यावन्नायात्यसौ भिल्लः शिवस्तावन्न सौख्यभाक् ।भक्तानुकम्पितां शंभोर्मानातीतां तु वेत्ति कः ॥१५॥संपूजयत्यादिकेशमुमया प्रत्यहं शिवम् ।एवं बहुतिथे काले याते वेदश्चुकोप ह ॥१६॥पूजां मन्त्रवतीं चित्रां शिवभक्तिसमन्विताम् ।कोनु विध्वंसते पापो मत्तः स वधमाप्नुयात् ॥१७॥गुरुदेवद्विजस्वामिद्रोही वध्यो मुनेरपि ।सर्वस्यापि वधार्होऽसौ शिवस्य द्रोहकृन्नरः ॥१८॥एवं निश्चित्य मेधावी वेदः सिन्धोस्तथाऽनुजः ।कस्येयं पापचेष्टा स्यात्पापिष्ठस्य दुरात्मनः ॥१९॥पुष्पैर्वन्यभवैर्दिव्यैः कन्दैर्मूलफलैः शुभैः ।कृतां पूजां स विध्वस्य ह्यन्यां पूजां करोति यः ॥२०॥मांसेन तरुपत्रैश्च स च वध्यो भवेन्मम ।एवं संचिन्त्य मेधावी गोपयित्वा तनुं तदा ॥२१॥तं पश्येयमहं पापं पूजाकर्तारमीश्वरे ।एतस्मिन्नन्तरे प्रायाद्व्याधो देवं यथा पुरा ॥२२॥नित्यवत्पूजयन्तं तमादिकेशस्तदाऽब्रवीत् ॥२३॥आदिकेश उवाचभो भो व्याध महाबुद्धे श्रान्तोऽसीति पुनः पुनः ।चिराय कथमायात्स्त्वां विना तात दुःखितः ॥न विन्दामि सुखं किंचित्समाश्वसिहि पुत्रक ॥२४॥ब्रह्मोवाचतमेवं वादिनं देवं वेदः श्रुत्वा विलोक्य तु ।चुकोप विस्मयाविष्टो न च किंचिदुवाच ह ॥२५॥व्याधश्च नित्यवत्पूजां कृत्वा स्वभवनं ययौ ।वेदश्च कुपितो भूत्वा आगत्येशमुवाच ह ॥२६॥वेद उवाचअयं व्याधः पापरतः क्रियाज्ञानविवर्जितः ।प्राणिहिंसारतः क्रूरो निर्दयः सर्वजन्तुषु ॥२७॥हीनजातिरकिंचिज्ज्ञो गुरुक्रमविवर्जितः ।सदाऽनुचितकारी चानिर्जिताखिलगोगणः ॥२८॥तस्याऽऽत्मानं दर्शितवान्न मां किंचन वक्ष्यसि ।पूजां मन्त्रविधानेन करोमीश यतव्रतः ॥२९॥त्वदेकशरणो नित्यं भार्यापुत्रविवर्जितः ।व्याधो मांसेन दुष्टेन पूजां तव करोत्यसौ ॥३०॥तस्य प्रसन्नो भगवान्न ममेति महाद्भुतम् ।शास्तिमस्य करिष्यामि भिल्लस्य ह्यपकारिणः ॥३१॥मृदोः कोऽपि भवेत्प्रीतः कोऽपि तद्वद्दुरात्मनः ।तस्मादहं मूर्ध्नि शिलः पातयेयमसंशयम् ॥३२॥ब्रह्मोवाचइत्युक्तवति वै वेदे विहस्येशोऽब्रवीदिदम् ॥३३॥आदिकेश उवाचश्वः प्रतीक्षस्व पश्चान्मे शिला पातय मूर्धनि ॥३४॥ब्रह्मोवाचतथेत्युक्त्वा स वेदोऽपि शिलां संत्यज्य बाहुना ।उपसंहृत्य तं कोपं श्वः करोमीत्युवाच ह ॥३५॥ततः प्रातः समागत्य कृत्वा स्नानादिकर्म च ।वेदोऽपि नित्यवत्पूजां कुर्वन्पश्यति मस्तके ॥३६॥लिङ्गस्य सव्रणां भीमां धारां च रुधिरप्लुताम् ।वेदः स विस्मितो भूत्वा किमिदं लिङ्गमूर्धनि ॥३७॥महोत्पातो भवेत्कस्य सूचयेदित्यचिन्तयत् ।मृद्भिश्च गोमयेनापि कुशैस्तं गाङ्वारिभिः ॥३८॥प्रक्षालयित्वा तां पूजां कृतवान्नित्यवत्तदा ।एतस्मिन्नन्तरे प्रायाद्व्याधो विगतकल्मषः ॥३९॥मूर्धानं व्रणसंयुक्तं सरक्तं लिङ्गमस्तके ।शंकरस्याऽऽदिकेशस्य ददृशेऽन्तर्गतस्तदा ॥४०॥द्वष्ट्वैव किमिदं चित्रमित्युक्ताव निशितैः शरैः ।आत्मानं भेदयामास शतधा च सहस्रधा ॥४१॥स्वामिनो वैकृतं दृष्ट्वा कः क्षमेतोत्तमाशयः ।मुहुर्निनिन्द चाऽऽत्मानं मयि जीवत्यभूदिदम् ॥४२॥कष्टमापतितं कीदृगहो दुर्विधिवैशसात् ।तत्कर्म तस्य संवीक्ष्य महादेवोऽतिविस्मितः ॥ततः प्रोवाच भगवान्वेदं वेदविदां वरम् ॥४३॥आदिकेश उवाचपश्य व्याधं महाबुद्धे भक्तं भावेन संयुतम् ।त्वं तु मृद्भिः कुशैर्वार्भिर्मूर्धानं स्पृष्टवानसि ॥४४॥अनेन सहसा ब्रह्मन्ममाऽऽत्माऽपि निवेदितः ।भक्तिः प्रेमाथवा शक्तिर्विचारो यत्र विद्यते ॥तस्मादस्मै वरान्दास्ये पश्चात्तुभ्यं द्विजोत्तम ॥४५॥ब्रह्मोवाचवरेण च्छन्दयामास व्याधं देवो महेश्वरः ।व्याधः प्रोवाच देवेशं निर्माल्यं तव यद्भवेत् ॥४६॥तदस्माकं भवेन्नाथ मन्नाम्ना तीर्थमुच्यताम् ।सर्वक्रतुफलं तीर्थं स्मरणादेव जायताम् ॥४७॥ब्रह्मोवाचतथेत्युवाच देवेशस्ततस्तत्तीर्थमुत्तमम् ।भिल्लतीर्थं समस्ताघसंघविच्छेदकारणम् ॥४८॥श्रीमहादेवचरणमहाभक्तिविधायकम् ।अभवत्स्नानदानाद्यैर्भुक्तिमुक्तिप्रदायकम् ॥वेदस्यापि वरान्प्रादाच्छिवो नानाविधान्बहून् ॥४९॥इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये भिल्लतीर्थमहिमवर्णनं नामैकोनसप्तत्यधिकशततमोऽध्यायः ॥१६९॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP