संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः १०३

ब्रह्मपुराणम् - अध्यायः १०३

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अथ त्रयधिकशततमोऽध्यायः
शम्यादितीर्थवर्णनम्
ब्रह्मोवाच
शमीतीर्थमिति ख्यातं सर्वपापोपशान्तिदम् ।
तस्याऽऽख्यानं प्रवक्ष्यामि श्रृणु यत्नेन नारद ॥१॥

आसीत्प्रियव्रतो नाम क्षत्रियो जयतां वरः ।
गौतम्या दक्षिणे तीरे दीक्षां चक्रे पुरोधसा ॥२॥

हयमेध उपक्रान्ते ऋत्विग्भिर्ऋषिभिर्वृते ।
तस्य राज्ञो महाबाहोर्वसिष्ठस्तु पुरोहितः ॥३॥

तद्यज्ञवाटमगमद्दानवोऽथ हिरण्यकः ।
तं दानवमभिप्रेक्ष्य देवास्त्विन्द्रपुरोगमाः ॥१०.३.४॥

भीताः केचिद्दिवं जग्मुर्हव्यवाट्शमिमाविशत् ।
अश्वत्थं विष्णुरगमद्भानुर्कं वटं शिवः ॥५॥

सोमः पलासमगमद्गङ्गाम्भो हव्यवाहनः ।
अश्विनौ तु हयं गृह्य वायसोऽभूद्यमः स्वयम् ॥६॥

एतस्मिन्नन्तरे तत्र वसिष्ठो भगवानृषिः ।
यष्टिमादाय दैतेयान्न्यवारयदथाऽज्ञया ॥७॥

ततः प्रवृत्तः पुनरेव यज्ञो, दैत्यो गतः स्वेन बलेन युक्तः ।
इमानि तीर्थानि ततः शुभानि, दशाश्वमेधस्य फलानि दद्युः ॥८॥

प्रथमं तु शमीतीर्थं द्वितीयं वैष्णवं विदुः ।
आर्कं शैवं च सौम्यं च वासिष्ठं सर्वकामदम् ॥९॥

देवाश्च ऋषयः सर्वे निवृत्ते मखविस्तरे ।
तुष्टाः प्रोचुर्वसिष्ठं तं यजमानं प्रियव्रतम् ॥१०॥

तांश्च वृक्षांस्तां च गङ्गां मुदा युक्ताः पुनः पुनाः ।
हयमेधस्य निष्पत्त्यै एते याता इतस्ततः ॥११॥

हयमेधफलं दद्युस्तीर्थानीत्यवदन्सुराः ।
तस्मात्स्नानेन दानेन तेषु तीर्थेषु नारद ॥
हयमेधफलं पुण्यं प्राप्नोति न मृषा वचः ॥१२॥

इति श्रीमहापुराणे आदिब्राह्मे स्वयंभुऋषिसंवादे तीर्थमाहात्म्ये शम्यादितीर्थवर्णनं नाम त्र्यधिकशाततमोऽध्यायः ॥१०३॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP