संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|ब्रह्मपुराणम्| अध्यायः २४६ ब्रह्मपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ ब्रह्मपुराणम् - अध्यायः २४६ ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे. Tags : brahmapuranpuranपुराणब्रह्मपुराणम्संस्कृत अध्यायः २४६ Translation - भाषांतर अस्य श्रवणपठनकर्तॄणां फलप्राप्तिकथनम्लोमर्हषण उवाचएवं पुरा मुनीन्व्यासः पुराणं श्लक्ष्णया गिरा ।दसाष्टदोषरहितैर्वाक्यैः सारतरैर्द्विजाः ॥१॥पूर्णमस्तमलैः शुद्धैर्नानाशास्त्रसमुच्चयैः ।जातिशुद्धसमायुक्तं साधुशब्दोपशोभितम् ॥२॥पूर्वपक्षोक्तिसिद्धान्तपरिनिष्ठासमन्वितम् ।श्रावयित्वा यथान्यायं विरराम महामतिः ॥३॥तेऽपि श्रुत्वा मुनिश्रेष्ठाः पुराणं वेदसंमितम् ।आद्यं ब्राह्मविधानं च सर्ववाञ्छाफलप्रदम् ॥४॥हृष्टा बभूवुः सुप्रीता विस्मिताश्च पुनः पुनः ।प्रशशंसुस्तदा व्यासं कृष्णद्वैपायनं मुनिम् ॥५॥अहो त्वया मुनश्रेष्ठ पुराणं श्रुतिसंमितम् ।सर्वाभिप्रेतफलदं सर्वपापहरं परम् ॥६॥प्रोक्तं श्रुतं तथाऽस्माभिर्विचित्रपदमक्षरम् ।नतेऽस्त्यविदितं किंचित्त्रिषु लोकेषु वै प्रभो ॥७॥सर्वज्ञस्त्वं महाभाग देवेष्विव बृहस्पतिः ।नमस्यामो महाप्राज्ञं ब्रह्मिष्ठं त्वां महामुनिम् ॥८॥येन त्वया तु वेदार्था भारते प्रकटीकृताः ।कः शक्नोति गुणान्वक्तुं तव सर्वान्महामुने ॥९॥अधीत्य चुरो वेदान्साङ्गान्व्याकरणानि च ।कृतवान्भारतं शास्त्रं तस्मै ज्ञानात्मने नमः ॥१०॥नमोऽस्तु ते व्यास विशालबुद्धे, फुल्लारविन्दायतपत्रनेत्र ।येन त्वाय भारततैलपूर्णः प्रज्वलितो ज्ञानमयः प्रदीपः ॥११॥अज्ञानतिमिरान्धानां भ्रामितानां कुदृष्टिभिः ।ज्ञानाञ्जनशलाकेन त्वाय चोन्मीलिता दृशः ॥१२॥एवमुक्त्वा समभ्यर्च्य व्यासं ते चैव पूजिताः ।जग्मुर्यथागतं सर्वे कृतकृत्याः स्वमाश्रमम् ॥१३॥तथा मया मुनिश्रेष्ठा कथितं हि सनातनम् ।पुराणं सुमहापुण्यं सर्वपापप्रणाशनम् ॥१४॥यथा भवद्भिः पृष्टोऽहं संप्रश्नं द्विजसत्तमाः ।व्यासप्रसादात्तत्सर्वं मया संपरिकीर्तितम् ॥१५॥इदं गृहस्थैः श्रोतव्यं यतिभिर्ब्रह्मचारिभिः ।धनसौख्यप्रदं नणां पवित्रं पापनाशनम् ॥१६॥तथा ब्रह्मपरैर्विप्रैर्ब्राह्मणाद्यैः सुसंयतैः ।श्रोतव्यं सुप्रयत्नेन सम्यक्श्रेयोभिकाङ्क्षिभिः ॥१७॥प्राप्नोति ब्राह्मणो विद्यां क्षत्रियो विजयं रणे ।वैश्यस्तु धनमक्षय्यं शूद्रः सुखमवाप्नुयात् ॥१८॥यं यं काममभिध्यायञ्शुणोति पुरुषः शुचिः ।तं तं काममवाप्नोति नरो नास्त्यत्र संशयः ॥१९॥पुराणं वैष्णवं त्वेतत्सर्वकिल्विषनाशनम् ।विशिष्टं सर्वशास्त्रेभ्यः पुरुषार्थोपपादकम् ॥२०॥एतद्वो यन्मयाऽऽख्यातं पुराणं वेदसंमितम् ।श्रुतेऽस्मिन्सर्वदोषोत्थः पापाराशिः प्रणश्यति ॥२१॥प्रयागे गुष्करे चैव कुरुक्षेत्रे तथाऽर्बुदे ।उपोष्य यदावाप्नोति तदस्य श्रवणान्नरः ॥२२॥यदग्निहोत्रे सुहुते वर्षे नाऽऽप्नोति वै फलम् ।महापुण्यमयं विप्रास्तदस्य श्रवणात्सकृत् ॥२३॥यज्ज्येष्ठशुक्लद्वादश्यां स्नात्वा वै यमुनाजले ।मथुरायां हरिं दुष्ट्वा प्राप्नोति पुरुषः फलम् ॥२४॥तदाप्नोति फलं सम्यक्समाधानेन कीर्तनात् ।पुराणेऽस्य हितो(?)विप्राः केशवार्पितमानसः ॥२५॥यत्फलं क्रि(श्रि)यमलोक्य पुरुषोऽथ लभेन्नरः ।तत्फलं समवाप्नोति यः पठेच्छृणुयादपि ॥२६॥इदं यः श्रद्धया नित्यं पुराणं वेदसंमितम् ।यः पठेच्छृणुयान्मर्त्यः स याति भुवनं हरेः ॥२७॥श्रावयेद्ब्राह्मणो यस्तु सदा पर्वसु संयतः ।एकादश्यां द्वादश्यां च विष्णुलोकं स गच्छति ॥२८॥इदं यशस्यमायुष्यं सुखदं कीर्तिवर्धनम् ।बलपुष्टिप्रदं नॄणां धन्यं दुःस्वप्ननाशनम् ॥२९॥त्रिसंध्यं यः पठेद्विद्वाञ्श्रद्धया सुममाहितः ।इदं वरिष्ठमाख्यानं स सर्वमीप्सितं लभेत् ॥३०॥रोगार्तो मुच्यते रोगाद् बद्धो मुच्यते बन्धनात् ।भयाद्विमुच्यते भीत आपदापन्न आपदः ॥३१॥जातिस्मरत्वं विद्यां च पुत्रान्मेधां पशून्धृतिम् ।धर्मं चार्थं च कामं च मोक्षं तु लभते नरः ॥३२॥यान्यान्कामानभिप्रेत्य पठेत्प्रतमानसः ।तांस्तन्सर्वानवाप्नोति पुरुषो नात्र संशयः ॥३३॥यश्चेदं सततं शृणोति मनुजः स्वर्गापवर्गप्रदं,विष्णुं सततं शृणोति वरदं भक्त्येकचित्तः शुचिः ।भुक्त्वा चात्र सुखं विमुक्तकलुषः स्वर्गे च दिव्यं सुखं, पश्चाद्याति हरेः पदं सुविमलं मुक्तो गुणैः प्राकृतैः ॥३४॥तस्माद्विप्रवरैः स्मधर्मनिरतैर्मुक्त्येकमार्गेप्सुभिस्तद्वत्क्षत्रियपुंगवैस्तु नियतैः श्रेयोर्थिभिः सर्वदा ।वैश्यैश्चानुदिनं विशुद्धकुलजैः शूद्रैस्तथा धार्मिकैः श्रोतव्यं त्विदमुत्तमं बहुफलं धर्माथमोक्षप्रदम् ॥३५॥धर्मे मतिर्भवतु वः पुरुषोत्तमानां, स ह्येक एव परलोकगतस्य बन्धुः ।अर्थाः स्त्रियश्च निपुणैरपि सेव्यमाना, नैव प्रभावमुपयान्ति न च स्थिरत्वम् ॥३६॥धर्मेण राज्यं लभते मनुष्यः, स्वर्गं च धर्मेण नरः प्रयाति ।आयुश्च कीर्तिं च तपश्च, धर्मेण मोक्षं लभते मनुष्यः ॥३७॥धर्मोऽत्र मातापितरौ नरस्य, धर्मः सखा चात्र परे च लोके ।त्राता च धर्मस्त्विह मोक्षदश्च, धर्मादृते नास्ति तु किंचिदेव ॥३८॥इदं रहस्यं श्रेष्ठं च पुराणं वेदसंमितम् ।न देयं दुष्टमतये नास्तिकाय विशेषतः ॥३९॥इदं मयोक्तं प्रवरं पुराणं, पापापहं धर्मविवर्धनं च ।श्रुतं भवद्भिः परमं रहस्यमाज्ञापयध्वं मुनयो व्रजामि ॥४०॥इति श्रीमहापुराणे आदिब्राह्मे रोमहर्षणमुनिसंवादे पुराणप्रशंसनं नाम षट्चत्वारिंशदधिकद्विशततमोऽध्यायः ॥२४६॥समाप्तमिदमादिब्राह्मभिधं महापुराणम्ॐतत्सद्ब्रह्मार्पणमस्तु ॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP