संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
वसुबारस

धर्मसिंधु - वसुबारस

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


आश्विनकृष्ण द्वादशीगोवत्सद्वादशीसाप्रदोषव्यापिनी ग्राह्या दिनद्वयेतदव्याप्तौपरा

सायंकालाख्यगौणकालेसत्वात् उभयत्रतद्व्याप्तौपूर्वेतिबहवः परेतिकेचित्

अत्रवत्सतुल्यवर्णांसवत्सांपयस्विनीगांसंपूज्यगोःपादेताम्रपात्रेणार्घ्यंदद्यात् तत्रमन्त्रः क्षीरोदार्णवसंभूतेसुरासुरनमस्कृते ।

सर्वदेवमयेमातर्गृहाणार्घ्यंनमोस्तुते १ ततोमाषादिवटकान्‍गोग्रासार्थदत्त्वाप्रार्थयेत् सर्वदेवमयेदेविसर्वदैवेरलकृते ।

मातर्ममाभिलषितंसफलं कुरुनन्दिनि १ तद्दिनेतैलपक्वं स्थालीपक्वंगोक्षीरंगोघृतंगोर्दधितक्रंचवर्जयेत्

नक्तंमाषान्नभोजनंभूशय्याब्रह्मचर्यंचकार्यम् इमामेवद्वादशीमारभ्यपञ्चसुदिनेषुपूर्वरात्रेनीराजनविधिर्नारदेनोक्तः

नीराजयेयुर्देवांश्चविप्रान्‌गाश्चतुरंगमान्‍ । ज्येष्ठानश्रेष्ठान् जघन्यांश्चमातृमुख्याश्चयोषितः १

इति त्रयोदश्यामपमृत्युनाशार्थंयमायनिशामुखेबहिर्दीपोदेयः इमामेवत्रयोदशिमारभ्यगात्रिरात्रव्रतमुक्तम् तत्प्रयोगः कौस्तुभे ।

N/A

References : N/A
Last Updated : May 02, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP