संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
महालयः

धर्मसिंधु - महालयः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


पितरिसंन्यस्तेपातित्यादियुतेवाजीवत्पितृकेणापिपुत्रेणपितुः पित्रादिसर्वपित्रुद्देशेनपिण्डदानरहितःसांकल्पविधिनाकार्यः

वृद्धौतीर्थेचसंन्यस्तेतातेचपतितेसति । येभ्यएवपितादद्यात्तेभ्योदद्यात्स्वयंसुतः १ मुण्डनंपिण्डदानंचप्रेतकर्मचसर्वशः ।

नजीवत्पितृकःकुर्याद्गुर्विणीपतिरेवच २ इत्यादि वचनात् पिण्डदानादिविस्तरंकर्तुमशक्तेनापिसांकल्पविधिःकार्यः

सांकल्पिकविधावर्घ्यदान्म्समन्त्रकावाहनमग्नौकरणंपिण्डदानंविकिरदानंस्वधांवाचयिष्ये

ॐस्वधोच्यतामित्यादिस्वधावाचनप्रयोगंवर्जयेत् अनेकब्राह्मनालाभेदेवस्थाने शालग्रामादिदेवमूर्तिसंस्थाप्यश्राद्धंकार्यम्

सर्वथाविप्रालाभेदर्भबटुविधानाश्राद्धम् पित्रोर्मरणेप्रथमाब्देमहालयःकृताकृतः महालयोमलमासेनकार्यः

अपरपक्षेप्रतिवार्षिकप्राप्तौमृततिथौवार्षिकंकृत्वातिथ्यन्तरेसकृन्महालयः कार्यः

प्रतिपदादिदर्शान्तादिपक्षेषुमृततिथौवार्शिकंकृत्वापाकान्तरणेमहालयः

अमायांप्रविवार्षिकसकृन्महालयप्राप्तौपूर्वंवार्षिकंततोमहालयःततोदर्शश्राद्धमितित्रयंपाकभेदेन

महालयमात्रप्राप्तावापिपूर्वंमहालयःततोदर्शः मृततिथौसकृन्महालयपक्षेतत्तत्तिथेर्ग्राह्यत्वनिर्णयोपराह्णव्याप्त्यादर्शवदितिभाति

अत्रापरपक्षेभरणी श्राद्धाद्गयाश्राद्धफलप्राप्तिःभरणीश्राद्धमपिण्डकंषड्‍दैवतं सांकल्पविधिनाकार्यम् देवाधूरिलोचनौपुरूवार्द्रवौवा

भरणीश्राद्धंकाम्यगंयाश्राद्धफलकामेनप्रतिवर्शकार्यम् केचित्पित्रादिमरणोत्तरंप्रथमवर्षे

एवकुर्वन्तिद्वितीयादिवर्षेनकुर्वन्तितत्रमूलंचिन्त्यम् । ममतु नदैवंनापिवापित्र्यंयावत्पूर्णोनवत्सरः ।

इत्यादिवचनेनसर्वस्यापिदर्शादिश्राद्धस्यप्रथमाब्देनिषेधाद्वर्षान्ते एव पितृत्वप्राप्तेश्चद्वितीयादिवर्षे एवकर्तुयुक्तमितिबाति

यत्तुपितृभिन्नोपियोयोम्रियतेतस्यतस्यप्रथमाब्दे भरणीश्राद्धंक्रियतेतत्रपिमूलंनपश्यामः गयाश्राद्धफलार्थमाचारमनुसृत्यक्रियते

चेन्मृताद्येकमेवपार्वणमुद्दिश्यसदैवंकार्यम् अत्र सपिण्डत्वाचारोपिचिन्त्यः ।

N/A

References : N/A
Last Updated : April 30, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP