संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
अस्यामेववटसावित्रीव्रतम्

धर्मसिंधु - अस्यामेववटसावित्रीव्रतम्

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.

अत्रव्रतेत्रयोदश्यादिदिनत्रयमुपवासः अशक्तौतुत्रयोदश्यांनक्तं चतुर्दश्यामयाचितंपौर्णमास्यामुपोषणम्

अत्रपौर्णमासीनिर्णयानुसारेणयथात्रिरात्रंभवेत्तथा त्रयोदश्यादिदिनत्रयंग्राह्यम्

तत्रपौर्णिमासूर्यास्तमयात्पूर्वत्रिमुहूर्ताधिकव्यापिनीचतुर्दशीविद्धाग्राह्या त्रिमुहूर्तन्यूनत्वेपरैव

भूतोऽष्टादशनाडीभिर्दूषयत्युत्तरांतिथिमितिवचनंसावित्रीव्रतातिरिक्तेज्ञेयम् सावित्रीव्रतोपवासेऽष्टादशनाडीविद्धाया

अपिग्राह्यत्वातयत्तुकेवलपूजनात्मकमुपवासरहितंसावित्रीव्रतंसर्वत्रस्त्रियोनुतिष्ठन्तितत्रभूतो

अष्टादशेतिवेधोव्रतदानादिपरोनतूपवासपरइतिनिर्णयसिन्धुलिखितमाधवा

आशयानुसारेणाषदशनाडीचतुर्दशीसत्वेपरैवपूजाव्रतेग्राह्याउपवासव्रतेपूर्वेतिममप्रतिभाति

अत्रपारणंपूर्णिमान्तेकर्तव्यम् अत्ररजस्वलादिदोषेपूजादिब्राह्मणद्वाराकार्यम्

स्वयमुपवासादिकंकार्यमित्यादयःस्त्रीव्रतेविशेषाःप्रथमपरिच्छेदेज्ञेयाः अत्रपूजोद्यापनादिविधिर्व्रतग्रन्थेप्रसिद्धः

अत्रज्येष्ठपौर्णिमायांज्येष्ठानक्षत्रेबृहस्पतिश्चन्द्ररोहिणीनक्षत्रेतुसूर्यस्तदामहाज्यैष्ठीतियोगस्तत्रस्नानदानादिकंकार्यम्

अस्याः पौर्णमास्या मन्वादित्वादत्रपिण्डरहितंश्राद्धमुक्तम् एतन्निर्णयश्चैत्रेउक्तः

अत्रमासेविप्रेभ्यश्चन्दनव्यजनोदकुम्भदिकंत्रिविक्रमप्रीतयेदेयम्

इतिश्रीमदनन्तोपाध्यासूनुकाशीनाथोपाध्यायविरचितेधर्मसिन्धुसारेज्येष्ठमासनिर्णयोद्देशः

N/A

References : N/A
Last Updated : April 21, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP