संस्कृत सूची|संस्कृत साहित्य|पुस्तकं|धर्मसिंधु|द्वितीय परिच्छेदः|
अथसंक्षेपतोनवरात्रारम्भप्रयोगः

धर्मसिंधु - अथसंक्षेपतोनवरात्रारम्भप्रयोगः

This Grantha was written by Pt. Kashinathashastree Upadhyay, in the year 1790-91.


प्रतिपदिप्रातःकृताभ्यङ्गस्नानःकुंकुमचन्दनादिकृतपुण्ड्रोधृतपवित्रः सपत्नीकोदशघटिकामह्येऽभिजिन्मुहूर्तेवादेशकालौसंकीर्त्य

ममसकुटुम्बस्यामुकदेवताप्रीतिद्वारासर्वापच्छान्तिपूर्वकदीर्घायुर्धनपुत्रादिवृद्धिशत्रुजयकीर्तिलाभप्रमुखचतुर्विध

पुरुषार्थसिद्ध्यर्थमद्यप्रभृतिमहानवमीपर्यन्तंप्रत्यहंत्रिकालमेककालं

वामुकदेवतापूजामुपवासनक्तैकभक्तान्यतमनियमसहितामखण्डदीपप्रज्वालनंकुमारीपूजनं

चण्डीसप्तशतीपाठंसुवासिन्यादिभोजनमित्यादियावत्कुलाचारप्राप्तमनूद्यएवमादिरूपं

शारदनवरारोत्सवाख्यं कर्म करिष्ये देवतापूजाङ्गत्वेनघटस्थापनंचकरिष्ये

तदादौनिविंघ्नतासिद्ध्यर्थं गणपतिपूजनंपुण्याहवाचनंचण्डीसप्तशतीजपाद्यर्थंब्राह्मणवरणंचकरिष्ये एतानिकृत्वा

घटस्थापनसत्वेमहीद्योरितिभुमिस्पृष्ट्‌वातस्यांभुविअङ्‌कुरारोपणार्थं शुद्धमृदंप्रक्षिप्यओषधयः

समितितस्यांमृदियवादीन्प्रक्षिप्यआकलशेष्विति कुंम्भंनिधायइमंमेगंगेइतिजलेनापूर्यगन्धद्वारामितिगन्धंयाओषधीरितिसर्वाओषधीः

काणात्काण्डादितिदूर्वाः अश्वत्थेवैतिपञ्चपल्लवान्स्योनापृथिवीतिमृदः याः फलिनीरितिफलंसहिरत्नानीतिहिरण्यरूपइतिरत्नहिरण्ये

प्रक्षिप्ययुवासुवासाइतिसूत्रेणवेष्ट्यापूर्णादर्वीतिपूर्णपात्रंनिधायतत्त्वायामीतिवरुणंसंपूज्यतत्कलशोपरिकुलदेवताप्रतिमांसंस्थाप्यपूजयेत्

स्वस्थानेएववासंस्थाप्यपूजयेत् तद्यथा जयन्तीमङ्गलाकालीभद्रकालीकपालिनी ।

दुर्गाक्षमाशिवाधात्री स्वाहास्वधानमोस्तुते १ आगच्छवरदेदेविदैत्यदर्पनिषूदिनि । पूजांगृहाणसुमुखिनमस्तेशंकरप्रिये २

अनेनपुरुषसूक्तश्रीसूक्तप्रथमऋग्भ्यांचावाह्यजयन्तीमङ्गलाकालीतिमन्त्रेणसूक्तऋग्भिश्चासनादिषोडशोपचारैःसंपूजयेत्

सर्वमङ्गलमाङ्गल्येइत्यादिभिःसंप्रार्थ्यप्रत्यहंबलिदानपक्षेमाषभक्तेनकूष्माण्डेनवाबलिंदद्यात् अन्तेएववा

बलिदानंनवाबलिदानम् ततःअखण्डदीपकंदेव्याःप्रीतयेनवरात्रकम् । उज्ज्वालये अहोरात्रमेकाचित्तोधृतव्रतः १

इत्यखण्डदीपंप्रतिष्ठापयेत् ।

N/A

References : N/A
Last Updated : May 01, 2008

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP